सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1171, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1171

११४८ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ समापत्ति-
तस्मात् तर्हि
श्रद्धाप्रसादः
तस्य हि द्वितीयध्यानलाभात् समाहितभूमिनिःसरणे सम्प्रत्यय
उत्पद्यते। सोऽध्यात्मसम्प्रसाद इति। नैव हि वितर्कविचारसमाधयो
नाप्यध्यात्मसम्प्रसादो द्रव्यान्तराणीत्यपरे।
कथमसति द्रव्यान्तरत्वे चैतसिकत्वं सिध्यति ? अवस्थाविशेषोऽपि १
हि नाम चेतसश्चैतसिको भवति। न त्वेष शास्त्रसिद्धान्तः। यदुक्तम्-
“प्रीतिर्हि सौमनस्यम्” इति।
कथमिदं गम्यते ? किमन्यत् भवतु ? यथेच्छन्ति निकायान्तरोयाः—
धर्मान्तरमेव चैतसिकं प्रीतिः, सौमनस्यं तु त्रिष्वपि ध्यानेषु सुखमिति ? न वै
सुखं ध्यानेषु सौमनस्यं युज्यते।
प्रीतिस्तु सौमनस्यं द्विधागमात् ॥ ९ ॥
उक्तं हि भगवता अविपरीतके सूत्रे तृतीयं ध्यानमुक्त्वा “यत्रास्योत्पन्नं
सौमनस्येन्द्रियमपरिशेषं निरुध्यते” इति। “चतुर्थे च ध्यान सुखेन्द्रियं
निरुध्यते” इत्युक्तम्। पुनश्चोक्तम्- “सुखस्य च प्रहाणात् दुःखस्य च
प्रहाणात् पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तङ्गमात्” इति। अतोऽस्ति न तृतीये
“श्रद्धाप्रसादः” इति। श्रद्धैव प्रसादः श्रद्धाप्रसादः।
कथमसति द्रव्यान्तरत्वे चैतसिकत्वमिति। वितर्कादीनामवस्था-
विशेषोऽपि हि नाम चेतसश्चैतसिको भवति। चेतसि भवात्। पर्येषक-
मनोजल्पावस्था = वितर्कः। प्रत्यवेक्षकमनोजल्पावस्था = विचारः, त्रासमू-
त्थापिकावस्था चित्तस्य वितर्कः, तदन्यावस्था विचार इति भवद्भिर्ज्ञेयः।
अविक्षिप्तावस्था समाधिः। प्रशान्तवाहितावस्था चित्तस्याध्यात्मसम्प्रसादः।
न वै सुखं ध्यानेषु सौमनस्यं युज्यते इति। तुल्यसुखवेदनास्वभाव्ये
मानसत्वेऽपि सति। कस्मात् सौमनस्यं सुखमिति नोच्यते ? अस्ति
कारणम्। इयं हि प्रीतिरनुपशान्ता, तथा हि तत् समाहितमपि चित्तं
क्षिप्यत इव उन्नम्यत इव सामोदं सहासं विप्लुतमिव व्यवस्थाप्यते। तद्
१. ०विशेषो-का० ।