सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1169, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1169

११४६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
चानास्रवे किञ्चिदङ्गं सास्रवं किञ्चिदनास्रवं स्यादिति चेत् ? अयोगपद्यात्
को दोषः ? सुखप्रीत्यसमवधानान्न पञ्चाङ्गं स्यादिति चेत्, न; सम्भवं
प्रत्युपदेशाद् वितर्कविचारवत् । साध्यमिति चेत् ? सिद्धम्, वितर्कविचारयो-
विरोधात्, १ दोषावचनाच्च ।
तस्माद्यान्येव प्रथमध्याने पञ्चाङ्गानि, तेषां द्वित्रिचतुरङ्गापकर्षेण
द्वितीयादिध्यानव्यवस्थानम् । अत एव च प्रथमे ध्याने पञ्चानामङ्गत्वमुक्तम्;
तदपकर्षेणोत्तरध्यानव्यवस्थापनात् । न तु संज्ञादीनामङ्गत्वमुक्तम् ।
सन्धिवचनात् । तत् प्रश्रब्धिव्यतिरिक्तानां कायविज्ञानव्यतिरिक्तानां च
कायविज्ञानामभिसन्धिवचनात् । न चानास्रव इति विस्तरः । नन्वनास्रवे-
ऽनास्रवव्यवस्थाने किञ्चिदङ्गं सास्रवं किञ्चिदनास्रवं स्यादिति । यद्येष
दोष इति मन्येत, तत्स्प्रष्टव्यकायविज्ञानस्य सास्रवत्वात्, तदितरस्याना-
स्रवत्वात् । अत्रोच्यते—अयोगपद्यात् को दोष इति । यदा सास्रवमङ्गं
समुदाचरति, न तदानास्रवं समुदाचरति; यदानास्रवमङ्गम्, न तदा सास्रव-
मित्यदोषः । सुखप्रीत्यसमवधानात् । सुखस्य कायिकस्य प्रीतेश्च मानस्याः
असमवधानात् अयोगपद्यात् । न पञ्चाङ्गं प्रथमं ध्यानं चेत् । यद्येवं
मन्येत, न स दोषः । कस्मात् ? सम्भवं प्रत्युपदेशात् वितर्कविचारवत् ।
यथा सवितर्कं सविचारं प्रथमं ध्यानमिति पर्यायेण वितर्कविचारौ भवतः,
एवं सुखप्रीती अपि सम्भवं प्रति उपदेशात् अदोष एष इति । साध्यमिति
चेत् । वितर्कविचारौ पर्यायेण भवत इति साध्यमिति । आह—सिद्धम् ।
कथम् ? इत्याह—वितर्कविचारयोर्विरोधादिति । यद्यौदारिकता चित्तस्य,
सूक्ष्मता नास्ति; यदि सूक्ष्मता, औदारिकता नास्तीति विरोधात् वितर्क-
विचारयोरयोगपद्यम् । दोषावचनाच्चेति । आपेक्षिकी च औदारिकसूक्ष्मता,
भूमिप्रकारभेदादिति आभवाग्राद् वितर्कविचारौ स्यातामित्यादि । केषाञ्चित्
पाठो भवति—दोषवचनाच्चेति । असमवधानेन च न कश्चिद् दोष उच्यत
इत्यर्थः ।
द्वि-त्रि-चतुरङ्गापकर्षेणेति । द्व्यङ्गापकर्षेण द्वितीयध्यानव्यव-
स्थानम् । तत्र वितर्कविचारयोरभावात् । त्र्यङ्गापकर्षेण तृतीयध्यान-
व्यवस्थानम् । तत्र प्रीतिरपि नास्तीति । चतुरङ्गापकर्षेण चतुर्थध्यान-
व्यवस्थानम् । तत्र सुखमपि नास्तीति । न तु संज्ञादीनामङ्गत्वमुक्तमिति ।
न हि संज्ञादीनां ध्यानान्तरेष्वपकर्षोऽस्तीति ।
१. चित्तस्यौदारिकसूक्ष्मतयो०-का० ।