अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1177, कुल 1258 में से
संदर्भ में पढ़ें११५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
मष्टौ—स्वभूमिके शुद्धकानास्रवे तृतीयचतुर्थप्रथमध्यानभूमिके च । विज्ञाना-
नन्त्यायतनान्तरं नव—स्वभूमिके द्वे, आकाशानन्त्यायतनचतुर्थध्यानभूमि-
कानि चत्वारि, आकिञ्चन्यायतनभवाग्रभूमिकानि त्रीणीति ।
एवमन्यध्यानानारूप्यादनन्तरं १ दश द्रव्याणि योज्यानि ।
एष तु संक्षेपः—
तृतीयाद् यावदूर्ध्वाधोऽनास्रवानन्तरं शुभम् ।
उत्पद्यते,
शुभग्रहणेन शुद्धमनास्रवं च गृह्यते कुशलत्वात् । अनास्रवस्य समापत्ति-
द्रव्यस्यानन्तरं स्वभूमिके च शुद्धानास्रवे उत्पद्येते । ऊर्ध्वाधोभूमिके च
तृतीयाद् यावत् । व्युत्क्रान्तकसमापत्तारो हि तृतीयात् परेण लङ्घयितुं
नोत्सहन्ते । अन्वयज्ञानान्तरं चारूप्यान् समापद्यन्ते, न धर्मज्ञानानन्तरम्;
तस्याधराश्रयालम्बनत्वादिति ।
व्युत्थानकाले तद् भवति । तृतीयचतुर्थप्रथमध्यानभूमिके चेति । अमिश्रक-
मिश्रकानुलोमप्रतिलोमव्युत्क्रान्तसमापत्तिकालुषु ।
आकाशानन्त्यायनचतुर्थध्यानभूमिकानि चत्वारीति । तेष्वेव कालेषु ।
त्रीणीति । अनास्रवाभावात् । एवमन्यध्यानानारूप्यादनन्तरं दश द्रव्याणि
योज्यानीति । तद्यथा तृतीयध्यानादनन्तरं दश—स्वभूमिके द्वे शुद्धकानास्रवे,
चतुर्थध्यानाकाशानन्त्यायतनभूमिकानि चत्वारि, तथैव च प्रथमद्वितीयध्यान-
भूमिकानि चत्वारीति । चतुर्थध्यानादनन्तरं दश—स्वभूमिके द्वे शुद्धकानास्रवे,
आकाशविज्ञानानन्त्यायतनभूमिकानि चत्वारि, द्वितीयतृतीयध्यानभूमिकानि
चत्वारीति । आकाशानन्त्यायतनादनन्तरं दश—स्वभूमिके द्वे, विज्ञानाकिञ्च-
न्यायतनभूमिकानि चत्वारि, तृतीयचतुर्थध्यानभूमिकानि चत्वार्युत्पद्यन्ते—
इत्येवं दश भवन्ति ।
अन्वयज्ञानानन्तरं चेति विस्तरः । इदं व्युत्पाद्यते, ऊर्ध्वाधरभूम्या-
लम्बनत्वाद्व्यानानामस्ति प्रसङ्ग इति कृत्वा । तस्याधराश्रयालम्बनत्वादिति ।
यस्मात् तद्धर्मज्ञानम् अधराश्रयकामधात्वाश्रयमधरालम्बनं कामदुःखाद्या-
१. ०रूप्यानन्तरं—का० ।