सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1162, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1162

निर्देशः अष्टमं कोशस्थानम् ११३६
इति मौलं समापत्तिद्रव्यमष्टविधम्,
इत्येतान्यष्टौ मौलानि समापत्तिद्रव्याणि यदुत चत्वारि ध्यानानि,
चत्वार आरूप्या इति ।
तेषा पुनः
त्रिधा ।
सप्त,
भवाग्रान्यानि सप्त त्रिविधानि ।
आस्वादनवच्छुद्धानास्रवाणि,
शुद्धकान्यास्रवाणि च ।
अष्टमं द्विधा ॥ ५ ॥
अनास्रवं नास्ति ।। ५ ।।
तत्र पुनः
आस्वादनासम्प्रयुक्तं सतृष्णम्,
तृष्णा ह्यास्वादना ।
लौकिकं शुभम् ।
शुद्धकम्,
लौकिकं कुशलं समापत्तिद्रव्यं शुद्धकमुच्यतेऽलोभादि शुद्धधर्मयोगात् ।
किं पुनस्तेनास्वादनासम्प्रयुक्तेनास्वाद्यते ?
तत् तदास्वाद्यम्,
तच्छुद्धकं समापत्तिद्रव्यं तेनास्वाद्यते समनन्तरातीतम् । यदास्वादयति
तस्माद् व्युत्थितो येनास्वादयति तत्समापन्नः ।
समापत्तिद्रव्याणि मौलानीति । शाखास्तेषां नोपन्यस्यन्त इत्य-
भिप्रायः ।
कथं सप्त त्रिविधानीति ? आह—"आस्वादनवत् शुद्धानास्रवाणि"
इति ।
अनास्रवं नास्तीति । संज्ञामान्द्यात् ॥ ५ ॥