अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1161, कुल 1258 में से
संदर्भ में पढ़ें११३८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
आकाशानानन्त्यविज्ञानानन्त्याकिञ्चन्यसंज्ञकाः ।
तथाप्रयोगात्,
अनन्तमाकाशम्, अनन्तं विज्ञानम्, नास्ति किञ्चिदित्येव मनसिकुर्वा-
णास्तेषु प्रयुज्यन्ते यथासंख्यम् । अत एषामेताः संज्ञा इति ।
मान्द्यात्तु नसंज्ञानाप्यसंज्ञकः ॥ ४ ॥
मृदुत्वात्तु संज्ञाया नैवसंज्ञानासंज्ञायतनमुक्तम् । न हि सा पट्वी संज्ञा,
न च पुनर्नैव संज्ञेति ।
“यद्यपि तत्राप्येवं प्रयुज्यन्ते संज्ञारोगः संज्ञागण्डः संज्ञाशल्यः
असंज्ञकः१ सम्मोहम् एतच्छान्तमेतत् प्रणीतं यदुत नैवसंज्ञानासंज्ञायतनम्”
इति । कस्मात्तु तैस्तदेवं गृह्यत इत्यवश्यमिदं वक्तव्यं जायते । मृदुत्वात्
संज्ञानामित्येतदेवोक्तम् ॥ ४ ॥
“तथाप्रयोगात्” इति । प्रयोगकाले आकाशादीन्यालम्बनानि
भवन्ति । अन्यदा तु अन्येऽपि धर्मा यथासम्भवमालम्बनानीति दर्शयति ।
“मान्द्यात्तु नसंज्ञा-नाप्यसंज्ञकः” इति । चतुर्थ आरूप्य