सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 1165, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 1165

११४२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
कस्मात् तृतीये ध्याने सुखं द्रव्यान्तरमुच्यते ? यस्मात्तद् वेदनासुखम्।
ध्यानयोस्तु
प्रस्रब्धिसुखमाद्ययोः ।
प्रथमद्वितीययोस्तु ध्यानयोः प्रस्रब्धिसुखमित्युक्तम् ।
इह प्रस्रब्धिसुखं तत्र वेदनासुखमिति कुत एतत् ? द्वयोर्ध्यानसमा-
पत्त्योः सुखेन्द्रियायोगात् ! न हि तयोः कायिकं युज्यते; समापन्नस्य
विज्ञानकायाभावात् । नापि चैतसिकम्; प्रीतिवचनात् । प्रीतिर्हि सौम-
नस्यम् । न सुखसौमनस्ययौगपद्यमस्ति । न चापि तयोः पर्यायेण ध्याने
वृत्तिर्युक्ता; पञ्चाङ्गवचनादिति ।
चतुर्थी—उक्तनिर्मुक्ता धर्माः । यान्यङ्गानि द्वितीये ध्याने, तृतीयेऽपि
तानि। चतुष्कोटिकम् । प्रथमा कोटिः—अध्यात्मसम्प्रसाद-प्रीति-सुखानि।
द्वितीया—उपेक्षा-स्मृति-सम्प्रज्ञानसुखानि । तृतीया—समाधिः। चतुर्थी
उक्तनिर्मुक्ता धर्माः । यान्यङ्गानि द्वितीये ध्याने, चतुर्थेऽपि वा तानि ।
चतुष्कोटिकम् । प्रथमा कोटिः—अध्यात्मसम्प्रसादप्रीतिसुखानि । द्वितीया—
तदङ्गानि, समाधि हित्वा । तृतीया—समाधिः। चतुर्थो—उक्तनिर्मुक्ता
धर्माः । यान्यङ्गानि तृतीये ध्याने, चतुर्थेऽपि तानि । चतुष्कोटिकम् । प्रथमा
कोटिः-समाधिवर्ज्यानि तदङ्गानि । द्वितीयापि—एवम् । तृतीया-
समाधिः। चतुर्थी—उक्तनिर्मुक्ता धर्माः । एतच्च तदेकावचरं नाम ।
कस्मात् तृतीये ध्याने सुखं द्रव्यान्तरमुच्यते इति । कथमुच्यते—
तान्येतानि अष्टादशध्यानाङ्गानि भवन्तीति विस्तरेणोक्त्वा पुनराह—नामत
एवम् । "द्रव्यतो दश चैकं च" (अभि० को० ८.९) द्रव्यत एतान्येकादश
भवन्ति । प्रथमध्यानिकानि पञ्च, द्वितीयेऽध्यात्मसम्प्रसादो वर्धते, तृतीये
उपेक्षास्मृतिसम्प्रज्ञानसुखानीति वचनात् ।
सुखेन्द्रियायोगादिति !। सुखेन्द्रियासम्भवात् । नास्त्येव चैतसिकं
सुखेन्द्रियं त्रिष्वपि हि ध्यानेषु, किं तर्हि ? कायिकमेव सुखमङ्गगणव्यवस्था-
पितम्; समाहितावस्थान्तरालसमुदाचारात् । दार्ष्टान्तिकानां किलैष पक्षः ।
तेषां हि न द्विभूमिकमेव सुखेन्द्रियं [मुद्रणदोषः/अस्पष्ट:] किं तर्हि ?
चतुर्भूमिकमपि सुखेन्द्रियं भवति । कामावचरम्, यावत्, तृतीयध्यान-
भूमिकमिति । अत एव च विभाषायां भदन्तेन सौत्रान्तिकेनोक्तम्—
'आभिधर्मिकाणाम् अरघट्टेनेव चक्षुर्विज्ञानादिकमधस्तादूर्ध्वं कृष्यते'