अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1168, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] अष्टमं कोशस्थानम् ११४५
कामावचरेण कायविज्ञानेन$^१$ रूपावचरस्प्रष्टव्यविज्ञानानुत्पत्तिरिति चेत् ?
न; प्रस्रब्धिविज्ञानस्योत्पत्तेः ।
अनास्रवे अपि स्प्रष्टव्यकायविज्ञाने स्याताम् । मा भूत् किञ्चिदङ्गं
सास्रवं किञ्चिदनास्रवमिति चेत् ? कायिकप्रस्रब्धिसम्बोध्यङ्गवचनात्$^२$ ।
इष्टे बोध्यङ्गानुकूलत्वादिति चेत् ? अनास्रवत्वमप्येवम् ।
“सास्रवा धर्मा कतमे ? चक्षर्यावदेव स्प्रष्टव्यम्” इत्यस्य सूत्रस्य
विरोधादिति चेत् ? न; अन्यस्प्रष्टव्यकायविज्ञानाभिसन्धिवचनात् । न
भावान्तरं हि पुनरुपतिष्ठते समाधिः—इत्यभिप्रायः । कामावचरेण
कायविज्ञानेन कामावचरस्य स्प्रष्टव्यस्याग्रहणात् रूपावचरमेतत् कायविज्ञानम्,
न कामावचरम् । अत एव तत्सम्प्रयोगि सुखं ध्यानाङ्गं ने सिद्धयति ।
प्रस्रब्धिविज्ञानस्योत्पत्तेरिति । रूपावचरस्य कामावचरेण कायविज्ञानेन
कायेन्द्रियेण समाधिवलाधानात् । तद्धि कायेन्द्रियं समाहितस्य तामवस्थां
गतम दृष्टधंभूमिकस्य कायविज्ञानस्याश्रयो भवतीति ।
अनास्रवे अपीति । स्प्रष्टव्यं च प्रस्रब्धिलक्षणं तदालम्बनं च
कायविज्ञानं स्प्रष्टव्यकायविज्ञाने अनास्रवे अपि स्याताम् । किं कारणम् ?
इत्याह- मा भूत् किञ्चिदङ्गं सास्रवं किञ्चिदनास्रवमिति चेत् । यद्येवं
मन्येत । कायिकप्रस्रब्धिसम्बोध्यङ्गवचनादिष्टेः । 'यापि कायप्रस्रब्धिः तदपि
प्रस्रब्धिसम्बोध्यङ्गप्रभिज्ञायै सम्बोधये निर्वाणाय संवर्तते । यापि
चित्तप्रस्रब्धिः, यावदेव स्प्रष्टव्यानि सम्बोध्यङ्गमभिज्ञायै सम्बोधये निर्वाणाय
संवर्तन्ते”—इति वचनात् । बोध्यङ्गवचनादिष्टे स्प्रष्टव्यकायविज्ञाने अनास्रवे
इति । बोध्यङ्गानुकूलत्वादिति चेत् । अथैवं परिह्रियेत - यस्मात् कायिकी
प्रस्रब्धिर्बोध्यङ्गानुकूला, तस्माद् बोध्यङ्गमित्युपचर्यते, न तु बोध्यङ्गमिति ।
अनास्रवत्वमप्येवम् । अनास्रवत्वानुकूलत्वात् ते स्प्रष्टव्य-कायविज्ञाने
अनास्रवे इत्युपचर्येते । न त्वनास्रवे एवेति । एवमनयोरनास्रवत्वम् ।
सास्रवा धर्मा इति विस्तरः । “सास्रवा धर्माः कतमे ? यावदेव
चक्षुः, यावन्त्येव रूपाणि, य वदेव चक्षुर्विज्ञानम्, यावत् यावानेव कायः,
यावन्त्येव स्प्रष्टव्यानि, यावदेव कायविज्ञानम्” ( ) इति । अस्य
सूत्रस्य विरोध इति एवं चेन् मन्येत । तन्न; अन्यस्प्रष्टव्यकायविज्ञानाभि-
१. कायेन्द्रियेण-का० ।
२. ०बोध्यङ्ग०-का० ।