अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1178, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] अष्टमं कोशस्थानम् ११५५
यथा चानास्रवादनन्तरमुक्तं वेदितव्यम्,
तथा शुद्धात् क्लिष्टं चापि स्वभूमिकम् ॥ १५ ॥
स्वभूमिकं क्लिष्टमधिकं शुद्धकादनन्तरमुत्पद्यते । शेषं यथैवानास्रवात् ।
अनास्रवस्य हि समनन्तरं क्लिष्टोत्पत्तिर्नास्तीति ॥ १५ ॥
क्लिष्टात् स्वं शुद्धं क्लिष्टम्,
क्लिष्टात् समापत्तिद्रव्यादनन्तरं स्वभूमिके शुद्धकक्लिष्टे उत्पद्येते ।
' एवं चाधरशुद्धकम् ।
क्लेशोत्पीडितो ह्यधरमपि समापत्ति शुद्धकं बहु मन्यते । यदि
क्लिष्टं परिच्छिद्याधः सञ्चरति । कुशलात् सञ्चरितो भवति न क्लिष्टात् ।
अथापरिच्छिद्य कथं सञ्चरति ? पूर्वविघात् । पूर्वं हि स एवंकामो भवति—
वरमधस्तात् शुद्धकं नोपरिष्टात् क्लिष्टमिति । पूर्वाभिप्रायं च सन्ततिरनु-
वर्तते सत्त्वानाम्, प्रणिधाय सुप्तस्याभिप्रेतकालप्रबोधवत् । अनास्रवं तु
क्लिष्टादनन्तरं सर्वथा नोत्पद्यते । समापत्तिकालं प्रत्येतदुक्तम् । शुद्धात्
क्लिष्टाच्च समनन्तरं स्वभूमिकमेव क्लिष्टमुत्पद्यते, नान्यभूमिकमिति ।
व्युत्तौ तु शुद्धात् क्लिष्टं सर्वम्,
लम्बनम् । तस्याधराश्रयत्वालम्बनत्वान्न धर्मज्ञानानन्तरमारूप्यान् समा-
पद्यन्ते ।
शेषं यथैवानास्रवादिति । स्वभूमिके च शुद्धानास्रवे उत्पद्येते;
ऊर्ध्वाधोभूमिके च, यावत् तृतीयादिति ॥ १५ ॥
प्रणिधायेति विस्तरः । यदि कश्चिदेवं बुद्धिमुत्पाद्य 'अर्धरात्रे चन्द्रोदये
चन्द्रास्तमये वा मया प्रबोद्धव्यम्' इति स्वपेद् स पूर्वाभिप्रायानुवर्तनात्
सन्ततेः, तस्मिन्नेव काले प्रबुद्ध्यते । यथाऽस्यैवं प्रणिधाय सुप्तस्य
तस्याभिप्रेते काले प्रबोधो भवति । तद्वदेतत् । सर्वथा नोत्पद्यत
इति । नापि स्वभूमिकम्, नाप्यधरभूमिकमुत्पद्यते-इत्यर्थः । समापत्तिकालं
प्रत्येतदित्युक्तमिति । शुद्धात् क्लिष्टाच्च समनन्तरं स्वभूमिकमेव
क्लिष्टमुत्पद्यते, नान्यभूमिकमिति । कथम् ? तथा शुद्धात् क्लिष्टं वापि
स्वभूमिकम्, क्लिष्टात् स्वं शुद्धं क्लिष्टमित्येवम् ।
१. शेषान्—जा० ।