अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
DevanagariSanskritpublished1,258 पृष्ठ
पृष्ठ 1160, कुल 1258 में से
संदर्भ में पढ़ेंपृष्ठ 1160निर्देशः ] अष्टमं कोशस्थानम् ११३७
आह यदि रूपाणां निःसरणारूप्याः, यत्तह्यं क्तं सूत्रे—"नाहं
निर्देशः ] अष्टमं कोशस्थानम् ११३७
भवेन भवस्यानिःसरणावचनं तु तेनैव तस्यानिःसरणाद्, आस्रवान-
त्यन्तनिःसरणाच्च १ । ध्यानेषु चोक्तं भगवता—"यत्तत्र भवति रूपगतं वा
यावद्विज्ञानगतं वा" इति। आरूप्येषु तूक्तम्—"यत्तत्र भवति वेदनागतं वा
यावद्विज्ञानगतं वा" ( ) इति। सत्यां तेषु रूपजातौ कस्माद्रूपगतं
वेति नावक्ष्यत् । तस्मात्
नारूप्ये रूपसद्भावः,
कथमिदानीमनल्पकल्पोच्छिन्नाद् रूपात् पुनरपि रूपोत्पत्तिस्ततः
प्रच्युतानाम् ?
रूपोत्पत्तिस्तु चित्ततः ॥ ३ ॥
रूपस्य चित्तादेवोत्पत्तिस्तद्विपाकहेतुपरिभाविताल्लब्धवृत्तितः। कथ-
मनाश्रित्य रूपं चित्तं वर्तते ? कस्मान्न वर्तितव्यम् ? इहैवमदर्शनात् ।
कवडीकारान्तरेणाऽपि विना रूपधातौ न वर्तितव्यम् । किं कारणम् ?
इहैवमदर्शनात्। उक्तं २ यथा वर्तते ॥ ३ ॥
गतमेतत् ॥
इदं वक्तव्यम्—किमेषामाकाशानन्त्यायतनादीनामाकाशादय एवा-
लम्बनं यत एवं समाख्यायते ? न हि। कथं तर्हि ? त्रयस्तावत्
आह यदि रूपाणां निःसरणारूप्याः, यत्तह्यं क्तं सूत्रे—"नाहं
भवेन भवस्य निःसरणं वदामि" इति, तत् कथं रूपभवस्यारूप्यभवेन
निःसरणम् ? भवेन भवस्यानिःसरणवचनं तु तेनैव तस्यानिःसरणात् ।
तेनैव भवेन तस्यैव भवस्यानिःसरणादेवमुक्तम् । आस्रवानत्यन्त-
निःसरणाच्च । आस्रवनिःसरणम् । न हि रूपभवेन कामभवस्य
निःसरणमिति । आरूप्यभवस्यापि तेन निःसरणं भवति । न चात्यन्त-
निःसरणं कामभवात् तेन भवति; पुनरागमनात् । तथा आरूप्यभवेन
रूपभवस्य निःसरणम्, न कामभवस्य । न चात्यन्तनिःसरणं रूपभवाना-
मारूप्यभवेन ।
उक्तं यथा वर्तत इति । "निकायं जीवितं चात्र निश्रिता चित्त
सन्ततिः" (अभि० को० ३.३) इत्यादि ॥ ३ ॥
त्रय इति पुल्लिङ्गनिर्देशः । 'आरूप्याः' इत्यभिसम्बन्धनात् ।
१. अस्रवानि०—का० । २. उक्तं च पूर्वं—का० ।