अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1179, कुल 1258 में से
संदर्भ में पढ़ें११५६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ समापत्ति-
च्युतिकाले तु उपपत्तिलाभिकाच्छुद्धकादनन्तरं सर्वभूमिकं क्लिष्ट-
मुत्पद्यते।
क्लिष्टात्तु नोत्तरम् ॥ १६ ॥
क्लिष्टात्तु ध्यानादारूप्यादनन्तरं च्युतिकाले स्वाधरभूमिकं क्लिष्ट-
मुत्पद्यते। नोर्ध्वभूमिकम् ॥ १६ ॥
न च सर्वस्माच्छुद्धकादनास्रवं
चतुर्धा शुद्धकं हानभागीयादि,
हानभागीयम्, विशेषभागीयम्, स्थितिभागीयम्, निर्वेधभागीयमिति
चतुर्विधं शुद्धकम्। भवाग्रं तु त्रिविधम्; अन्यत्र विशेषभागीयात्।
किमस्य लक्षणम् ?
यथाक्रमम्।
क्लेशोत्पत्तिस्वभूम्यूर्ध्वानास्रवानुगुणं हि तत् ॥ १७ ॥
क्लेशोत्पत्त्यनुगुणं ; स्वभूम्यनुगुणं स्थितिभागीयम्, ऊर्ध्व-
भूम्यनुगुणं विशेषभागीयम्, अनास्रवानुगुणं निर्वेधभागीयम्। तस्मादनास्रव-
मुत्पद्यते ॥ १७ ॥
च्युतिकाले तु। मरणभवे। उपपत्तिलाभिकाच्छुद्धकादिति विस्तरः।
उपपत्तिध्यानेषु यदुपपत्तिलाभिकं कुशलं समाहितम्, तदपि शुद्धकं
ध्यानमित्युच्यते। अत इदमुच्यते—च्युतिकाले त्विति विस्तरेण। किं
कारणम् ? असमाहितत्वान्मरणभवस्य। न हि तदानीं शुद्धकं समापत्ति-
ध्यानमस्तीति।
अथ सर्वभूमिकं क्लिष्टमुत्पद्यत इति। स्वभूमिकाधरोर्ध्वभूमिकं
प्रतिसन्धिश्चित्तं क्लिष्टमसमाहितमुत्पद्यते—इत्यर्थः।
नोर्ध्वभूमिकमिति। क्लिष्टसद्भावे सति तत्रोपपत्त्यसम्भवात् ॥ १६ ॥
अन्यत्र विशेषभागीयादिति। इत ऊर्ध्वभूम्यभावात्।
तस्मादनास्रवमुत्पद्यत इति। निर्वेधभागीयात् ॥ १७ ॥