अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1164, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] अष्टमं कोशस्थानम् ११४१
समाधिश्च । समाधिपर्यायो हि स्थितिः । "सम्यक्समाधिः कतमः ? या
चित्तस्य स्थितिः" इति सूत्रे वचनात् ।
चत्वार्यन्तेऽसुखादुःखोपेक्षास्मृतिसमाधयः ॥ ८ ॥
चतुर्थं ध्यानमन्त्यम् । तत्र चत्वार्यङ्गानि—अदुःखासुखा वेदना,
उपेक्षापरिशुद्धिः, स्मृतिपरिशुद्धिः, समाधिश्च ।
तान्येतान्यष्टादश ध्यानाङ्गानि भवन्ति ; प्रथमतृतीययोः पञ्चाङ्ग-
त्वात्, द्वितीयचतुर्थयोश्चतुरङ्गत्वात् ॥ ८ ॥
नामत एवम् ,
द्रव्यतो दश चैकं च,
द्रव्यत एतान्येकादश भवन्ति । प्रथमध्यानिकानि१ पञ्च ।
द्वितीयेऽध्यात्मसम्प्रसादो वर्धते । तृतीये उपेक्षास्मृतिसम्प्रज्ञानसुखानि ।
चतुर्थेऽदुःखासुखा वेदनेति । अत एवोच्यते—यान्यङ्गानि प्रथमे ध्याने
द्वितीयेऽपि तानीति । चतुष्कोटिकम् । प्रथमा कोटिर्वितर्कविचारौ । द्वितीया
अध्यात्मसम्प्रसादः । तृतीया प्रीतिः सुखं चित्तैकाग्रता च । चतुर्थी
धर्मा इति । एवं सर्वाणि ध्यानाङ्गानि परस्परं
योज्यानि ।
सम्प्रज्ञानता सम्प्रज्ञानम् । चतुर्थे उपेक्षापरिशुद्धिः । उपेक्षायाः परिशुद्धिः
उपेक्षापरिशुद्धिः; । अष्टावपक्षाला अपक्षीयन्ते ।
एवं स्मृतिपरिशुद्धिः ॥ ८ ॥
प्रथमध्यानिकानीति । प्रथमध्याने भवन्ति । अत एवोच्यत इति ।
यस्माद् द्वितीयादिषु अध्यात्मसम्प्रसादादयो वर्धन्ते । कथम् ? चतुष्कोटिकम् ।
स्यात् प्रथमे ध्याने न द्वितीये । स्याद् द्वितीये न प्रथमे । स्यादुभयोः । स्या-
न्नोभयोः । एवं सर्वाणि ध्यानाङ्गानि परस्पर योज्यानि । कथम् ? यान्यङ्गानि
प्रथमे ध्याने, तृतीयेऽपि तानि । चतुष्कोटिकम् । प्रथमा कोटिः—
वितर्कविचारप्रीतिसुखानि । द्वितीया—उपेक्षास्मृतिसम्प्रज्ञानसुखानि ।
तृतीया समाधिः । चतुर्थी कोटिः—उक्तनिर्मुक्ता धर्माः । यान्यङ्गानि
प्रथमे ध्याने, चतुर्थेऽपि तानि । चतुष्कोटिकम् । प्रथमा कोटिः—वितर्क-
विचारप्रीतिसुखानि । द्वितीया—अदुःखासुखा वेदना । तृतीया—समाधिः ।
१. प्रथम०—का० ।