अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
१०४० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
अनास्रवेणाप्येवं जानातीत्यपरे ।
दर्शनवचनं तु भाष्याक्षेपात् । प्रत्यक्षवृत्तित्वाद्वा । अत एवोक्तम्—
“यत्१ तावत्१ ज्ञानं दर्शनमपि तत्” ( ) इति ।
इत्येतानि दश ज्ञानानि भवन्ति यदुत धर्मज्ञानम्, अन्वयज्ञानम्,
संवृतिज्ञानम्, दुःखज्ञानम्, समुदयज्ञानम्, निरोधज्ञानम्, मार्गज्ञानम्, परचित्त-
ज्ञानम्, क्षयज्ञानम्, अनुत्पादज्ञानं च ।
तत्र संवृतिज्ञानमेकं ज्ञानमेकस्य च भागः ।
ज्ञापितो दर्शितः । अत एव तदुपादायेत्युक्तम् । तदुपादायेति पूर्वीकृत्य । तत्पु-
रस्कृत्येत्यर्थः । निष्पन्दने तयोर्निर्विकल्पयोर्विशेषोऽनुमीयत इत्यभिप्रायः ।
अनास्रवेणाप्येवं जानातीति । षोडशाकारव्यतिरिक्तोऽस्त्यनास्रव
आकारः, तेनैवं जानातीत्यपरे ।
यदि 'तदुपादाय यज्ज्ञानं दर्शनम्' इति शास्त्रवचनेन दुःखपरिज्ञानादि-
संवृतिज्ञानफलमनास्रवं क्षयानुत्पादज्ञानमुच्यते, यदिदमुच्यते—'क्षयानुत्पादधोर्न
दृक्' (अभि० को० ७.१) इति न दृष्टिः" इति, तद्विरुध्यते ? तेनाह—
दर्शनवचनं तु भाष्याक्षेपादिति । यदेतच्छास्त्रे वचनम् 'यज्ज्ञानं दर्शनम्'
इति, तद् भाष्याक्षेपाद् भवति । दुःखज्ञानादिषु हि ज्ञानम् 'दर्शनम्',
'विद्या', 'बुद्धिः', 'बोधिः' इति पठ्यते, तत्पाठाक्षेपायोपतिष्ठते तत्पाठिनां
पाठः । न तु ते क्षयानुत्पादज्ञाने दर्शनस्वभावे । न दृष्टिभावे इत्यर्थः ।
प्रत्यक्षवृत्तित्वाद्वेति । प्रत्यक्षा वृत्तिरस्य ज्ञानद्वयस्य तदियं प्रत्यक्षवृत्तिः,
तद्भावात् । अनयोर्दर्शनवचनम् । न ह्येतज्ज्ञानद्वये आनुमानिकवद्
आगमिकवद् वा परोक्षवृत्तिः । प्रत्यक्षवृत्तिश्च दर्शनमिष्यते । तद्यथा—
चक्षुर्विज्ञानम् । तत्साधर्म्यादितदपि ज्ञानद्वयं दर्शनमित्युक्तम् । अत
एवोक्तमिति । अत एव प्रत्यक्षवृत्तित्वादुक्तं शास्त्रे—यत् तावद् ज्ञानं
दर्शनमपि तत् । स्यात् ॰ दर्शनं न ज्ञानम्, अष्टावाभिसमयान्तिकाः क्षान्तयः ।
तदिदमुक्तं भवति—दर्शनत्वमनयोरिष्यते, न दृष्टित्वमिति ।
तत्रेति । तेषु दशसु ज्ञानेषु । संवृतिज्ञानम् । संवृतिज्ञानमेव । स्वभाव-
संग्रहतः । एकस्य च परचित्तज्ञानस्य भाग एकदेशः । तस्य हि सास्रवानास्रवस्य
सास्रवो भागः संवृतिज्ञानम्, नानास्रवो भाग इति । धर्मज्ञानं दशसु ज्ञानेष्वेकं
१-१. यावत्—का० ।
निर्देशः ] सप्तमं कोशस्थानम् १०४१
धर्मज्ञानमेकं ज्ञानं सप्तानां च भागो¹ दुःखसमुदयनिरोधमार्गक्षयानु-
त्पादपरचित्तज्ञानानाम् ।
एवमन्वयज्ञानम् ।
दुःखज्ञानमेकं ज्ञानं चतुर्णां च भागो धर्मान्वयक्षयानुत्पादज्ञानानाम् ।
एवं समुदयनिरोधज्ञाने चतुर्णां भागः ।
मार्गज्ञानमेकं ज्ञानं पञ्चानां च भागो चतुर्णामनन्तरोक्तानाम् पर-
चित्तस्य च ।
परचित्तज्ञानमेकं ज्ञानं चतुर्णां च भागो धर्मान्वयमार्गसंवृतिज्ञानानाम् ।
ज्ञानं धर्मज्ञानमेव । सप्तानां च भागो दुःख-समुदय-निरोध-मार्ग-परचित्त-
क्षयानुत्पादज्ञानानाम् । कथम् ? दुःखज्ञानं धर्मान्वयज्ञानस्वभावम्, तस्य यो
धर्मज्ञानभागः तद् धर्मज्ञानम् । एवं समुदयज्ञानस्य, यावद् अनुत्पादज्ञानस्य
धर्मान्वयज्ञानस्वभावस्य यो धर्मज्ञानभागः तद् धर्मज्ञानम्; न त्वन्वयज्ञानभाग
इति । परचित्तज्ञानस्य तु धर्मान्वयमार्गसंवृतिज्ञानस्वभावस्य धर्मज्ञानभागो
धर्मज्ञानमिति ।
एवमन्वयज्ञानम् । एकमन्वयज्ञानमेव । सप्तानां च भागः । तेषामेव
दुःखज्ञानादीनां योऽन्वयज्ञानभागः, तदन्वयज्ञानमिति योज्यम् ।
दुःखज्ञानं दशसु ज्ञानेष्वेकं ज्ञानम् । तदेव दुःखज्ञानम् । चतुर्णां च
भागो धर्मान्वयक्षयानुत्पादज्ञानानाम् । एतानि हि धर्मज्ञानादीनि चत्वारि
चतुःसत्यालम्बनानि भवन्ति । य एषां दुःखसत्यालम्बनो भागः तद्
दुःखज्ञानम्, नान्यो भाग इति ।
एवं समुदय-निरोधज्ञाने योज्ये । प्रत्येकम् । एकं ज्ञानं समुदयज्ञानम्
निरोधज्ञानं वा । चतुर्णां च भागः । धर्मान्वयक्षयानुत्पादज्ञानानां यः
समुदयालम्बनभागः, निरोधालम्बनभागो वा । तत् समुदयज्ञानम्, निरोध-
ज्ञानं च ।
मार्गज्ञानं दशसु ज्ञानेष्वेकं ज्ञानम् । तदेव मार्गज्ञानम् । पञ्चानां च
भागः । धर्मान्वय-क्षयानुत्पाद-परचित्तज्ञानानाम् । एतानि पञ्च मार्ग-
ज्ञानानि मार्गज्ञानस्वभावानि भवन्ति । य एषां मार्गज्ञानभागः तत् मार्ग-
ज्ञानम्, नेतर इति ।
परचित्तज्ञानं दशसु ज्ञानेष्वेकं ज्ञानं तदेव परचित्तज्ञानम् । चतुर्णां च
१. भागः ।—का० । एवमुपर्यपि सर्वत्र ।
१०४२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ ज्ञान-
क्षयज्ञानमेकं ज्ञानं षण्णां च भागो धर्मान्वयदुःखसमुदयनिरोधमार्ग-
ज्ञानानाम्।
एवमनुत्पादज्ञानम् ॥ ७ ॥
कस्मात् पुनरेतानि त्रीणि सन्ति दश व्यवस्थाप्यन्ते ?
स्वभावप्रतिपक्षाभ्यामाकाराकारगोचरात् ।
प्रयोगकृतकृत्यत्वहेतूपचयतो दश ॥ ८ ॥
सप्तभिः किल कारणैर्दश ज्ञानानि व्यवस्थाप्यन्ते—
१. स्वभावतः संवृतिज्ञानम्; अपरमार्थज्ञानत्वात् ।
भागो धर्मान्वयमार्गसंवृतिज्ञानानाम्। एतानि हि चत्वारि ज्ञानानि
परचित्तापचित्तज्ञानस्वभावानि¹ भवन्ति। य एषां परचित्तज्ञान-
भागः तत् परचित्तज्ञानम्, नेतर इति। क्षयज्ञानं दशसु ज्ञानेष्वेकं
ज्ञानम्, तदेव क्षयज्ञानम्। स्वभावसंगृहीत। षण्णां च भागो धर्मान्वय-दुःख-
समुदय-निरोध-मार्गज्ञानानाम्। 'दुःखं मे परिज्ञातम्' इत्येवमाद्याकार-
ज्ञाननिष्यन्दम्। तत्र यत् कामावचरदुःखाद्यालम्बनं तद् धर्मज्ञाने
ऽन्तर्भवति। यद् रूपावचरदुःखाद्यालम्बनं तद् अन्वयज्ञानेऽन्तर्भवति। यत्
प्रत्येकं दुःखाद्यालम्बनं तद् दुःखज्ञानम्, यावत् मार्गज्ञानं वा भवति।
तत्र य एषां एवंलक्षणो भागः तत् क्षयज्ञानम्, नेतर इति 'षण्णां भागः'
इत्युच्यते।
एवमनुत्पादज्ञानम्। दशसु ज्ञानेष्वेकं ज्ञानम् तदेवानुत्पादज्ञानम्।
षण्णां च भागो धर्मान्वय-दुःख-समुदय-निरोध-मार्गज्ञानानां यो भागः।
'दुःखं मे परिज्ञातं न पुनः परिज्ञेयम्' इत्येवमाद्याकारनिष्यन्दम्,
तदनुत्पादज्ञानम्। रूपारूप्यावचरदुःखाद्यालम्बनम्। तद् अन्वयज्ञानम्,
नेतरो भाग इति षण्णां भाग इत्युच्यते ॥ ७ ॥
“आकाराकारगोचरात्” इति। आकारश्च गोचरश्च आकारगोचरम्,
तस्मात्।
स्वभावतः संवृतिज्ञानमिति। स्वभावेन स्वभावतः संवृतिज्ञानम्।
संवृतौ वा ज्ञानं संवृतिज्ञानम्। कस्माद् ? इत्याह—अपरमार्थज्ञानत्वादिति।
१. ० ज्ञानं स्वभावानि—जा० ।
निर्देशः ] सप्तमं कोशस्थानम् १०४३
२. प्रतिपक्षतो धर्मान्वयज्ञाने; कामधातूर्ध्वधातुप्रतिपक्षत्वात् ।
३. आकारतो दुःखसमुदयज्ञाने; आलम्बनाभेदात् ।
४. आकारालम्बनतो निरोधमार्गज्ञाने; आकारालम्बनभेदात् ।
५. प्रयोगतः परचित्तज्ञानम् । न हि तेन चैत्ता न ज्ञायते, चित्त-
ज्ञानार्थं तु प्रयुक्तस्याभिनिष्पत्तेः परचित्तज्ञानमुक्तम् ।
६. कृतकृत्यतः क्षयज्ञानं कृतकृत्यसन्तानोत्पत्तेः ।
७. प्रथमतः हेतूपचयतोऽनुत्पादज्ञानं सर्वानास्रवहेतुकत्वादिति ॥ ८ ॥
कामधातुप्रतिपक्षो धर्मज्ञानम्, ऊर्ध्वधातुप्रतिपक्षोऽन्वयज्ञानम् । तथा
हि शास्त्रे उक्तम्- "धर्मज्ञानं कतमत् ? कामप्रतिसंयुक्तेषु संस्कारेषु
यदनास्रवं ज्ञानम्, कामप्रतिसंयुक्तानां संस्काराणां हेतौ यदनास्रवं ज्ञानम्,
कामप्रतिसंयुक्तानां संस्काराणां निरोधे यद् अनास्रवं ज्ञानम्, कामप्रति-
संयुक्तानां संस्काराणां प्रहाणाय मार्गे यदनास्रवं ज्ञानम्-इदमुच्यते धर्म-
ज्ञानम् । अपि खलु धर्मज्ञाने धर्मज्ञानभूमौ च यदनास्रवं ज्ञानम्-इदमुच्यते
धर्मज्ञानम् । अन्वयज्ञानं कतमत् ? रूपारूप्यप्रतिसंयुक्तेषु संस्कारेषु
यदनास्रवं ज्ञानम्, रूपारूप्यप्रतिसंयुक्तानां संस्काराणां हेतौ यदनास्रवं ज्ञानम्,
रूपारूप्यप्रतिसंयुक्तानां संस्काराणां निरोधे यदनास्रवं ज्ञानम्, रूपारूप्यप्रति-
संयुक्तानां संस्काराणां प्रहाणाय मार्गे यदनास्रवं ज्ञानम्-इदमुच्यते अन्वय-
ज्ञानम् । अपि खलु अन्वयज्ञाने अन्वयज्ञानभूमौ च यदनास्रवं ज्ञानम्-
इदमुच्यतेऽन्वयज्ञानम्" ( ) इति ।
आकारतो दुःखसमुदयज्ञाने इति । आकारत एव, नालम्बनतः ।
पञ्चोपादानस्कन्धलक्षणत्वेन तयोरभेदात् । तथा हि शास्त्रे उक्तम्-
“दुःखज्ञानं कतमत् ? पञ्चोपादानस्कन्धान् अनित्यतो दुःखतः शून्यतो-
ऽनात्मतश्च मनसिकुर्वतो यद् अनास्रवं ज्ञानम्-इदमुच्यते दुःखज्ञानम् ।
समुदयज्ञानं कतमद् ? सास्रवं हेतुकं हेतुतः समुदयतः प्रभवतः प्रत्ययतश्च
मनसिकुर्वतो यदनास्रवं ज्ञानम्-इदमुच्यते समुदयज्ञानम्” ( ) ।
आकारालम्बनतो निरोध-मार्गज्ञाने इति । आकारतश्च आलम्बनतश्च
निरोधमार्गज्ञाने व्यवस्थाप्येते । तथा हि शास्त्रे उक्तम्--"निरोधज्ञानं
कतमत् ? निरोधं निरोधतः शान्ततः प्रणीततो निःसरणतश्च मनसिकुर्वतो
यदनास्रवं ज्ञानम्-इदमुच्यते निरोधज्ञानमिति । मार्गज्ञानं कतमत् ?
मार्गं मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश्च मनसिकुर्वतो यदनास्रवं
ज्ञानम्-इदमुच्यते मार्गज्ञानम्" ( ) इति ।
प्रथमत इति ग्रहणम् अनुत्पादज्ञानविशेषणार्थम् । तदपि हि कृतकृत्य-
१०४४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
सकलस्य सकलप्रतिपक्षत्वात् कामधातुप्रतिपक्षो धर्मज्ञानमित्युक्तम् ।
अपि तु
धर्मज्ञानं निरोधे यन्मार्गे वा भावनापथे ।
त्रिधातुप्रतिपक्षस्तत्,
निरोधमार्गज्ञाने भावनामार्गसंगृहीते त्रिधातुप्रतिपक्षः ।
कामधातोस्तु नान्वयम् ॥ ९ ॥
सन्तान उत्पद्यते । सर्वनास्रवहेतुकत्वादिति । प्रथमोत्पन्नानि दश
ज्ञानान्यधिकृत्य सभागहेतुना सर्वनास्रवहेतुकमनुत्पादज्ञानम् । क्षयज्ञानं तु
न सर्वनास्रवहेतुकमनुत्पादज्ञानम् । न हि अनुत्पादज्ञानमस्य हेतुर्भवति;
विशिष्टत्वात् ॥ ८ ॥
सकलस्य सकलप्रतिपक्षत्वादिति । सकलस्य कामधातोः दर्शन-
भावना-प्रहातव्यसंगृहीतस्य पञ्चप्रकारस्य सकलं धर्मज्ञानं दर्शन-भावना-
मार्गसंगृहीतं चतुरार्यसत्यालम्बनं प्रतिपक्ष इति कृत्वा कामधातोरेव प्रतिपक्षो
धर्मज्ञानमित्युक्तम् । अपि त्वस्ति सम्भवो यद् रूपारूप्यधातोरपि धर्मज्ञानं
प्रतिपक्षः । कतमत् तद् धर्मज्ञानम् ? यत् निरोधे मार्गे च धर्मज्ञानम् ।
निरोध-मार्गौ हि अधातुपतितौ । तावाधारावपि न हीनौ व्यवस्थाप्येते ।
दुःखसमुदयसत्ये त्वाधारभूमिके निहीने । न तदालम्बनं धर्मज्ञानं रूपारूप्य-
धातुप्रतिपक्ष इत्यवगन्तव्यम् ।
भावनापथग्रहणं तु रूपारूप्यावचराणां दर्शनहेयानामन्वयज्ञानक्षान्ति-
बाध्यत्वात् । अन्वयज्ञानं तर्हि निरोधमार्गालम्बनभावनामार्गसंगृहीतं कस्मात्
त्रिधातुप्रतिपक्षो न भवति ? कामधातोजितत्वात् । धर्मज्ञानेनैव कामधातुः
पूर्वतरजितो भवति, ततः पश्चादन्वयमुत्पाद्यते, ततः कामधातोजितत्वान्न
तत् कामधातुप्रतिपक्ष इति । धर्मज्ञानं तु रूपारूप्यधातोरजितत्वात् प्रतिपक्षो
युज्यते । कस्मात्¹ निरोधमार्गधर्मज्ञानाभ्यामेव त्रैधातुकभावनाप्रहात-
व्यक्लेशप्रहाणम्, न पूर्वाभ्याम् ? शान्तनैर्याणिकतासभागात्² । न
हि कामावचरसंस्काराणां निरोधात् प्रतिपक्षाद् वा रूपारूप्यावचरसंस्काराणां
निरोधस्य प्रतिपक्षस्य वाऽस्ति कश्चिद् विशेषः । सर्वो हि निरोधः
कुशलः, असंस्कृतः; मार्गश्च नैर्याणिकः ।
१. कस्मान्-जा० । २. ०साभागात्-जा० । साभाव्यात्-इत्यन्यपुस्तके ।
निर्देशः ] सप्तमं कोशस्थानम् १०४५
अन्वयज्ञानं तु सर्वथा नास्ति कामधातुप्रतिपक्षः ॥ ९ ॥
एषां दशानां ज्ञानानां
धर्मज्ञानान्वयज्ञानं षोडशाकारम्,
तान् पुरस्तादुपदेक्ष्यामः ।
अन्यथा ।
तथा च सांवृतम् ,
संवृतिज्ञानं षोडशाकारमन्यथाकारं च; सर्वधर्माणां स्वसामान्य-
लक्षणादिग्रहणात् ।
स्वैः स्वैः सत्याकारैश्चतुष्टयम् ॥ १० ॥
दुःखसमुदयनिरोधमार्गज्ञानानि स्वैः स्वैः सत्याकारैः प्रवर्तन्त इत्येकैकं
चतुराकारं भवन्ति ॥ १० ॥
तथा परमनोज्ञानं निर्मलम् ,
अनास्रवं परचित्तज्ञानं तथैव; स्वसत्याकारत्वाच्चतुराकारं
मार्गज्ञानत्वात् ।
समलं पुनः ।
अन्वयमिति । अन्वेतीत्यन्वयम् = ज्ञानम् ।
सर्वथेति । भावनामार्गसंगृहीतमपि ॥ ९ ॥
तान् पुरस्तादिति । तान् अनित्यादीन् आकारान् ऊर्ध्वं व्याख्या-
स्यामः । षोडशाकारमूष्मगतादिषु । स्वसामान्यलक्षणादिग्रहणादिति ।
स्वलक्षणग्रहणात्, सामान्यलक्षणग्रहणाच्च । आदिशब्देन 'भुङ्क्ष्व', 'तिष्ठ',
'गच्छ' इत्येवमाकारं च । न ह्येते स्वलक्षणाकाराः, किं तर्हि ? एवमाकारा
एवेति ॥ १० ॥
उभयमपि त्विति । सास्रवानास्रवम् । यत्तर्हीति विस्तरः । रागस्य
चित्तस्य च युगपद् ग्रहणमित्यभिप्रायः । सूत्रं पुनरेवं पठ्यते— “सरागं चित्तं
सरागं चित्तमिति यथाभूतं प्रजानाति, विगतरागं चित्तं विगतरागं चित्त-
मिति यथाभूतं प्रजानाति । यथा सरागम् विगतरागम्; एवं सद्वेषम् विगत-
द्वेषम्, समोहम् विगतमोहम्, संक्षिप्तम् विक्षिप्तम्, लीनं प्रगृहीतम्, उद्ध-
तम् अनुद्धतम्, अव्युपशान्तं भावितम्, अविमुक्तं विमुक्तमिति यथाभूतं
१०४६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
ज्ञेयस्वलक्षणाकारम्,
सास्रवं परचित्तज्ञानं ज्ञेयानां चित्तचैत्तानां यत् स्वलक्षणं तदाकारयति;
स्वलक्षणग्राहकत्वात् ।
उभयमपि तु
एकैकद्रव्यगोचरम् ॥ ११ ॥
यदा चित्तं गृह्णाति न तदा चित्तानाम्, यदा वेदनां न तदा संज्ञामित्येव-
मादि ।
यत्तर्हि भगवतोक्तम्—“सरागं चित्तं सरागं चित्तमिति यथाभूतं
प्रजानाति” इत्येवमादि । न तयोर्युगपद्ग्रहणम्; वस्त्रमलयुगपद्ग्रहणवत् ।
सरागं चित्तमिति द्विधा सरागता—संसृष्टसरागता, संयुक्तसरागता१
च । तत्र सरागसंप्रयुक्तं चित्तं द्वाभ्यां सरागं ततोऽन्यत् सास्रवं संयोगसरागता
सरागम् ।
अत्र तु सूत्रे रागसम्प्रयुक्तं सरागं रागप्रतिपक्षे विगतमित्येके । यदि
रागेणासम्प्रयुक्तं विगतरागं स्यात्, अन्यक्लेशसम्प्रयुक्तमपि स्यात् ।
प्रजानाति । वस्त्रमलयुगपद्ग्रहणवदिति । यथा वस्त्रमलयोर्न युगपद् गृह-
णम्, तद्वत् । कथम् ? यथा यदा वस्त्रमिति परिच्छिन्नाकारं विज्ञानमुत्पद्यते,
न तदा मलं गृह्णाति; यदा च मलमिति परिच्छिन्नाकारं विज्ञानमुत्पद्यते, न
तदा वस्त्रं गृह्णाति ।
संसृष्टसरागता संयुक्तसरागता चेति । संसृष्टसरागता, सम्प्रयोगात् ।
संयुक्तसरागता रागप्राप्त्यनुबन्धादित्येके । अनुशयानरागालम्बनत्वादित्यपरे ।
द्वाभ्यामिति । संसृष्टसर्गतया, संयुक्तसर्गतया चेति । ततोऽन्य
निर्देशः ] सप्तमं कोशस्थानम् १०४७
एवं तर्हि तदप्रतिपक्षः सास्रवं चित्तमक्लिष्टं नैव सरागं न विगतरागं
स्यादित्येवमादि ? तस्माद्रागसम्प्रयुक्ततयापि सरागं चित्तमत्रेष्टव्यमित्यपरे ।
एवं यावत् समोहं विगतमोहं च वेदितव्यम् ।
संक्षिप्तं कुशलमालम्बनाभिसंक्षेपात् । विक्षिप्तं क्लिष्टं विक्षेप-
सम्प्रयोगात् ।
संक्षिप्तं मिद्धसंप्रयुक्तं विक्षिप्तमन्यत् क्लिष्टमिति पाश्चात्त्याः । तदेतन्न
वर्णयन्ति । तदेव हि चित्तं संक्षिप्तविक्षिप्तं स्यात्; क्लिष्टमिद्धसम्प्रयोगात् ।
शास्त्रविरोधश्च स्यात्—"संक्षिप्तं चित्तं यथाभूतं सम्प्रजानाति" १ ।
एवं तर्हीति विस्तरः । यदि रागसम्प्रयुक्तं चित्तं सरागम्, रागप्रति-
पक्षो विगतरागम् । तदप्रतिपक्षः सरागचित्तस्याप्रतिपक्षः । चित्तमक्लिष्टम् ।
अनिवृताव्याकृतम् । नैव सरागम् । रागेणासम्प्रयोगात् । नैव विगतरागम् ।
रागस्याप्रतिपक्षत्वात् । एवमादीति । आदि-शब्देन 'सद्वेषम्' 'समोहम्' इति
तुल्यप्रसङ्गो योज्यः । कथम् ? "अत्र तु सूत्रे द्वेषसम्प्रयुक्तं चित्तं सद्वेषम्,
द्वेषप्रतिपक्षो विगतद्वेषमिति । यदि हि द्वेषेणासम्प्रयुक्तं विगतद्वेषं स्यात्,
अन्यक्लेशसम्प्रयुक्तमिति स्यादित्येके । एवं तर्हि तदप्रतिपक्षश्चित्तमक्लिष्टं
नैव सद्वेषं स्यात्, न विगतद्वेषम् । इत्येवं समोहं चित्तं विगतमोहम्" इति
वक्तव्यम् ।
तस्माद् रागसंयुक्ततयापि सरागं चित्तमत्रेष्टव्यम् । अपि-शब्दात्
रागसम्प्रयुक्ततयापीत्यपरे । आभिधार्मिकाः ।
एवं यावत् समोहं विगतमोहं चेति । तस्माद् द्वेषसंयुक्ततयापि
सद्वेषम्, मोहसंयुक्ततयापि समोहमत्र सूत्रे एष्टव्यमिति ।
आलम्बनाभिसंक्षेपादिति । कुशलं चित्तं विक्षेपेण न सम्प्रयुज्यते ।
तस्मात् तदालम्बने तस्याभिसङ्क्षेप इति ।
संक्षिप्तं विक्षिप्तं च स्यात्, क्लिष्टमिद्धसम्प्रयोगादिति । द्विविधं
मिद्धम्—क्लिष्टम्, अक्लिष्टं च । तदेव हि चित्तं क्लिष्टं मिद्धसम्प्रयुक्तमिति
संक्षिप्तं स्यादिति । क्लिष्टमिति च विक्षिप्तं स्यादिति साङ्कर्यदोषः ।
शास्त्रविरोधश्चेति । कथम् ? संक्षिप्तं चित्तं यथाभूतं सम्प्रजानाति
१. प्रजानाति—का० ।
अभि० को० ४ : २
१०४८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
तज्ज्ञानं चत्वारि ज्ञानानि-धर्मज्ञानम्, अन्वयज्ञानम्, संवृत्तिज्ञानम्, मार्ग-
ज्ञानम्" ( ) इति ।
लीनं चित्तं क्लिष्टम्; कौसीद्यसम्प्रयोगात् । प्रगृहीतं कुशलम्; वीर्य-
सम्प्रयोगात् । परीत्तं क्लिष्टम्; व्यवदानपरीत्तैर्निषेवितत्वात् । महद्गतं
कुशलम्; तद्विपर्ययात् । मूलमूल्यपरिवारानुपरिवर्तकवलालपबहुत्वाच्च ।
क्लिष्टचित्तं हि¹ द्वाभ्यामकुशलमूलाभ्यां समूलम् । कुशलं त्रिभिः
कुशलमूलैः । क्लिष्टमल्पमूल्यम्; अयत्नसाध्यत्वात् । कुशलं बहुमूल्यम्;
महाभिसंस्कारसाध्यत्वात् । क्लिष्टं तज्जातीयानागतभावनाऽभावान्न
महापरिवारं त्रिभिश्च स्कन्धैः सानुपरिवर्तम् । कुशलं तु महापरिवारं चतुर्भिश्च
विस्तरेण यथा वृत्तौ । तेषामन्वयज्ञानं तावत् संक्षिप्तचित्तालम्बनं न भवति ।
कामधातोरूर्ध्वं मिद्धाभावात्, अन्वयज्ञानस्य च कामधातवनालम्बनत्वात् ।
मार्गज्ञानमपि संक्षिप्तचित्तालम्बनं न सम्भवति । मार्गज्ञानं हि मार्गा-
लम्बनम् । न च मार्गसंगृहीतं चित्तं मिद्धसम्प्रयोगीति । तेनैवं वक्तव्यम-
भविष्यत्-तज्ज्ञानं द्वे ज्ञाने धर्मज्ञानं संवृत्तिज्ञानं चेति ।
ये तु वर्णयन्ति-संक्षिप्तं चित्तं कुशलम्, आलम्बनाभिसंक्षेपादिति,
तेषामेतद् दोषद्वयं न भवति । तद् अक्लिष्टेन मिद्धेन न सम्प्रयुज्यत
इति संक्षिप्तं विक्षिप्तं च न प्राप्नोति । नापि शास्त्रविरोधः । कुशलं
त्रिधातुकसंगृहीतम् असंगृहीतं च संक्षिप्तं चित्तं तज्ज्ञानं चत्वारि ज्ञानानीति
सिद्धम् । रूपारूप्यकुशलचित्तालम्बनमनास्रवं ज्ञानम् अन्वयज्ञानं भवति ।
मार्गसंगृहीतकुशलालम्बनं मार्गज्ञानमपीति ।
व्यवदानपरीत्तं निषेवितत्वादिति । अल्पकुशलमूलैर्निषेवितत्वादि-
त्यर्थः । तद्विपर्ययादिति । व्यवदानमहद्भिर्निषेवितत्वादित्यर्थः । मूलादीनां
बलान्तानामल्पबहुत्वम् । एकैकस्य मूलस्याल्पबहुत्वाद् यथाक्रमं परीत्तं महद्गतं
च वेदितव्यम् । कथम् ? इत्याह-क्लिष्टं हि द्वाभ्यामकुशलमूलाभ्यां समूलं
मोहेन लोभद्वेषयोश्चान्यतरेण; एकस्मिन् कल्पेऽनयोरसमवधानात् । कुशलं
त्रिभिरलोभाद्वेषमोहैः; एषामविनाभावात् । तज्जातीयानागतभावनाभावा-
दिति । क्लिष्टजातीयस्यानागतस्य भावनायाः प्रतिलम्भस्याभावात् 'कुशल-
संस्कृता धर्मा भावयितव्याः' इति न्यायात् । त्रिभिश्च स्कन्धैः सानुपरिवर्तनम् ।
वेदना-संज्ञा-संस्कारस्कन्धैः । न विज्ञानस्कन्धेन; एकस्मिन् कल्पे द्वितीय-
विज्ञानाभावात् । न च स्वात्मना; स्वात्मनि वृत्तिविरोधात् । कुशलं तु
१. का० -पुस्तके नास्ति ।
निर्देशः ] सप्तमं कोशस्थानम् १०४६
स्कन्धैः सानुपरिवर्तम् । अल्पबलं खल्वपि क्लिष्टं बहुबलं कुशलम् । एकया
हि दुःखधर्मज्ञानक्षान्त्या¹ दशानुशयात्यन्तसमुच्छेदः² क्रियते । तस्मादपि
क्लिष्टं परीत्तं कुशलं महद्गतम् । उद्धतं क्लिष्टमौद्धत्यसम्प्रयोगात् । अनुद्धतं
कुशलं तत्प्रतिपक्षत्वात् । एवमव्युपशान्तं व्युपशान्तं च ।
असमाहितं क्लिष्टं विक्षेपसं प्रयोगात् । समाहितं कुशलं तत्प्रतिपक्ष-
त्वात् । अभावितं क्लिष्टं प्रतिलम्भनिषेवणाभावनाभ्यामभावितत्वात् ।
भावितं कुशलं ताभ्यां भावितत्वात् । अविमुक्तं क्लिष्टं स्वभावसन्तान-
विमुक्तिभ्यामविमुक्तत्वात् । विमुक्तं कुशलं ताभ्यां विमुक्तत्वादिति वैभा-
षिकाः । एवं तु सूत्रं नानुलोमितं भवति । एषां च पदानां नार्थविशेष उक्तो
भवति ।
महापरिवारम्; तज्जातीयानागतभावनासद्भावात् । चतुर्भिश्च स्कन्धैः
सानुपरिवर्तम् । तैश्च वेदनादिभिस्त्रिभिः, रूपस्कन्धेन च ध्यानानास्रवसंवर-
संगृहीतेन; चित्तानुपरिवर्तनासम्भवयोगेन । अल्पबलं खल्वपि क्लिष्टमिति ।
ननु च कुशलमपि दुर्बलम्, एकेन मिथ्यादृष्टिक्षणेन कुशलपक्षस्कन्धसमुद्घा-
तात् । न तदत्यन्तमुच्छिद्यते; पुनः प्रतिसन्धानात् । दुःखधर्मज्ञानक्षान्त्या तु
दशानामनुशयानामत्यन्तच्छेद इति । तस्मादपीति । अपि-शब्देन पूर्वोक्ताद-
पीति । तत्प्रतिपक्षत्वादिति । औद्धत्यप्रतिपक्षत्वादित्यर्थः । एवमव्युपशान्तं
व्युपशान्तं चेति । अव्युपशान्तं क्लिष्टम्; औद्धत्यसम्प्रयोगात् । व्युपशान्तं कुशलं
तत्प्रतिपक्षत्वादिति । क्लेशसम्प्रयोगासम्प्रयोगतो वा तदव्युपशान्तं व्युपशान्तं
च भवति ।
समाहितं कुशलं तत्प्रतिपक्षत्वादिति । विक्षेपप्रतिपक्षत्वात् । प्रति-
लम्भनिषेवणभावनाभ्यामिति । अलब्धपूर्वस्य प्राप्तिः = प्रतिलम्भः । सम्मुखी-
भावः = निषेवणम् । ते एव भावने । ताभ्यामभावितत्वाद् अभावितम् ।
न हि क्लिष्टं कुशलवदनागतं भाव्यते । न च निषेवणार्हं भवति, निहीन-
त्वात् । “प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने ।” (अभि० को० ७.२७)
इति ।
ताभ्यामिति । प्रतिलम्भनिषेवणाभ्यामित्यर्थः । स्वभावसन्तानविमुक्ति-
भ्यामविमुक्तत्वादिति । क्लेशैः सम्प्रयोगान्न स्वभावविमुक्त्या विमुक्तः ।
क्षीणक्लेशसन्तानानुत्पत्तेश्च न सन्तानविमुक्त्या च विमुक्तम् । कुशलं तु
क्लेशसम्प्रयोगात्, क्षीणक्लेशसन्तानोत्पत्तेश्च विमुक्तम् ।
१. दुःखे धर्म०—का० । २. ॰समुद्घातः—का० ।
१०५० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ ज्ञान-
कथं सूत्रं नानुलोमितं भवति ? सूत्र उक्तम्—"कथं चित्तमध्यात्मं
संक्षिप्तं भवति । यच्चित्तं स्त्यानमिद्धसहगतमध्यात्मं सन्निरोधसहगतं न तु
विपश्यनया समन्व्यागतम् । कथं बहिर्विक्षिप्तं भवति ? यच्चित्तं पञ्चसु काम-
गुणेष्वनुविक्षिप्तं भवत्यनुविसृतम्" इति ।
ननु चोक्तम्—तदेव चित्तं संक्षिप्तं स्याद्विक्षिप्तं चेति ? उक्तमिदम्,
अयुक्तं तूक्तम्; मिद्धसहगतस्य क्लिष्टस्य विक्षिप्तत्वाप्रतिज्ञानात् ।
ननु चोक्तं शास्त्रविरोधः स्यादिति । वरं शास्त्रविरोधः, न सूत्र-
विरोधः । कथम् ? एषां पदानां नार्थविशेष उक्तो भवति । विक्षिप्तलीनोद्धता-
ऽव्युपशान्तसमाहिताभाविताविमुक्तानां चित्तानामभिन्नलक्षणवचनात् संक्षिप्त-
प्रगृहीतादीनां च । न वै नोक्तः पदानामर्थविशेषो भवति; क्लिष्टसामान्येऽपि
तद्दोषविशेषसन्दर्शनात्¹ । इत्यप्येतत् क्लिष्टं चित्तं विक्षिप्तं लीनमिति
विस्तरः ।
स्त्यानमिद्धसहगतमिति । स्त्यानमिद्धसम्प्रयुक्तमध्यात्मं सन्निरोधसह-
गतमिति । एतदेव निगमयति—न तु विपश्यनया समन्व्यागतमिति । अनु-
विक्षिप्तमित्यस्य निर्देशं करोति—अनुविसृतमिति ।
मिद्धसहगतस्य क्लिष्टस्य विक्षिप्तत्वाप्रतिज्ञानादिति । किमिति
कृत्वा विक्षिप्तत्वमत्र न प्रतिज्ञायते, किं मिद्धसहगते क्लिष्टे चित्ते विक्षिप्तत्वं
नास्तीति न प्रतिज्ञायते ? आहोस्विद् विद्यमानमप्यत्र विक्षिप्तत्वं संक्षिप्तत्वे-
नैव स्थापितत्वान्न प्रतिज्ञायते ? उभयथापि व्याचक्षते । केचिद् व्याचक्षते—
मिद्धसहगताद्धि क्लिष्टाद्यदन्यत् क्लिष्टम्, तद्विक्षिप्तं प्रतिज्ञायते । मिद्धसह-
गतं तु क्लिष्टमक्लिष्टं चाविशेषेण संक्षिप्तमेवेति । अपरे पुनः व्याचक्षते—
यन्मिद्धसम्प्रयुक्तं तत् संक्षिप्तमेव, न विक्षिप्तम् । यत्तु विषयेषु विसृष्टं तदेव
विक्षिप्तमित्यतोऽत्र मिद्धसम्प्रयुक्ते चित्ते न प्रतिज्ञायत इति । वरं शास्त्रविरोध
इति । अबुद्धोक्तमभिधर्मशास्त्रमित्यभिप्रायः । अभिन्नलक्षणवचनादिति ।
सर्वाणि तानि क्लिष्टानि उक्तानि । क्लिष्टत्वलक्षणमेषां विक्षिप्तादीनाम-
विमुक्तान्तानाम् । क्लिष्टत्वं पुनः क्लेशमहाभूमिकैः सम्प्रयोगः । संक्षिप्त-
प्रगृहीतादीनां चाभिन्नलक्षणवचनान्नार्थविशेष उक्तो भवतीति सम्बन्ध
आदि-शब्देन महद्गतानुद्धत-व्युपशान्त-समाहित-भावित-विमुक्तानां ग्रहणम् ।
कुशलमेषामभिन्नम् । किं पुनः कुशलत्वम् ? कुशलं महाभूमिकैः सम्प्रयोगः ।
१. तद्दोषदश॑नात्—का० ।
एवं कुशलस्यापि गुणविशेषसन्दर्शनादुक्त एवार्थविशेषो भवति ।
सूत्रविरोधस्यापरिहारान्नैव एषां पदानामर्थः ।
यदि च सूत्रे तदेव लीनं चित्तं तदेवोद्धतमित्यभिप्रेतं स्यात्, इदं नोक्तं
स्यात्—'यस्मिन्समये लीनं चित्तं भवति लीनाभिशङ्कि¹ वा, अकालस्त-
स्मिन् समये प्रस्रब्धिसमाध्युपेक्षासम्बोध्यङ्गानां भावनायाः । यस्मिन् समये
उद्धतं चित्तं भवति औद्धत्याभिशङ्कि वा, अकालस्तस्मिन् समये धर्मविचय-
न वै नोक्त इति विस्तरः । 'वै' इति निपातः । न नोक्त इति द्वौ प्रतिषेधौ ।
उक्त एवेत्यर्थः । क उक्तः ? पदानामर्थविशेषः । कथम् ? इत्याह—क्लिष्ट-
सामान्येऽपि विक्षिप्तादीनां तुल्ये क्लिष्टत्वे तेषां दोषविशेषसन्दर्शनादित्यप्ये-
तत् क्लिष्टं चित्तं विक्षेपयोगाद् विक्षिप्तं क्लिष्टम्, कौशीद्ययोगाल्लीनम्,
औद्धत्ययोगादुद्धतम्—इत्येवमादिदोषे विशेषसन्दर्शनाद् उक्त एवार्थविशेषो
भवति । एवं कुशलस्यापि संक्षिप्तादेर्गुणविशेषसन्दर्शनादित्यप्येतत् कुशलं
चित्तं संक्षिप्तं प्रगृहीतमिति विस्तरेण उक्त एवार्थविशेषो भवति । सूत्र-
विरोधस्यापरिहारादिति । सूत्रे हि स्त्यानमिद्धसहगतं संक्षिप्तमुक्तम् ।
स्त्यानयोगेन यत् क्लिष्टं मिद्धसम्प्रयुक्तम्, तत् संक्षिप्तम्, न कुशलम् ;
स्त्यानस्य क्लेशमहाभूमिकत्वात् ।
यदि च सूत्रे इति विस्तरः । यदि युष्मन्नीत्या सूत्रे लीनमेवोद्धतं
भगवता अभिप्रेतं स्यात्, लीनोद्धतयोः पृथग् वचनं नोक्तं स्यात् । कथम् ?
इत्याह—यस्मिन् समये चित्तं लीनं नोत्तेजयन्नाग्लानम् लीनामिशङ्कि लीन-
मेतत् भविष्यतीत्यभिशङ्कतो लीनाभिशङ्कि । अकालस्तस्मिन् समये प्रस्रब्धि-
समाध्युपेक्षासम्बोध्यङ्गानां भावनाया इत्येष नियमो न स्यात् । एवं च वक्तव्यं
स्यात्—अकालस्तस्मिन् समये धर्म-विचय-वीर्य-प्रीतिसम्बोध्यङ्गानां भाव-
नाया अपीति । किं कारणम् ? तत एव लीनं चित्तमुद्धतमिति कृत्वा । तथा
यस्मिन् समये उद्धतं चित्तं भवत्यौद्धत्याभिशङ्कि अकालस्तस्मिन् समये धर्म-
विचय-वीर्य-प्रीतिसम्बोध्यङ्गानां भावनाया इत्येष नियमो न स्यात् । एवं च
वक्तव्यं स्यात्—'अकालस्तस्मिन् समये प्रस्रब्धि-समाध्युपेक्षासम्बोध्यङ्गानां
भावनाया अपि' इति । किं कारणम् ? तदेवोद्धतं चित्तं लीनमिति कृत्वा ।
अविभागेन वा वक्तव्यं स्यात्— 'यस्मिन् समये चित्तं लीनं भवति, लीनाभि-
शङ्कि, उद्धतं वा भवति औद्धत्याभिशङ्कि; अकालस्तस्मिन् समये प्रस्रब्धि-
१. लयामिशङ्कि—का० ।
१०५२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
वीर्यप्रीतिसम्बोध्यङ्गानां भावनायाः” इति । कि पुनरत्र¹ बोध्यङ्गानां
व्यग्रा भावना ? मनसिकरणं तेषां भावनेष्टा न सम्मुखीभाव इत्यदोष एषः ।
कौसीद्याधिकमत्र चित्तं लीनमित्युक्तम्, औद्धत्याधिकं चोद्धतमित्य-
विरोधः । तयोस्तु सहभावात्तदेव चित्तं लीनं तदेवोद्धतमिति ब्रूमः । आभि-
प्रायिकं² वचनं वार्यते । सूत्रे तु नायमभिप्राय इति ब्रूमः ।
यत्तूक्तम्— “सर्वमेव रागसंप्रयुक्तं चित्तं सरागम्” इति । कतमच्चित्तं
समाध्युपेक्षा-धर्मविचय-वीर्य-प्रीति-सम्बोध्यङ्गानां भावनायाः' इति ।
स्मृतिसम्बोध्यङ्गस्याग्रहणम्, सर्वत्रगत्वात् स्मृते । उभयेऽपि चित्तेऽनुक्त-
सिद्धितः । 'स्मृति खल्वहं सर्वत्रगतां वदामि' इति सूत्रे वचनात् । कथं पुनः
निर्देशः ] सप्तमं कोशस्थानम् १०५३
रागसंप्रयुक्तम् ? रागप्राप्तिसहितं चेत्, 'अनास्रवमपि'१ सरागं प्राप्नोति शैक्षं
चित्तम्। रागालम्बनं चेत्, अर्हंतोऽपि सास्रवं चित्तं सरागमिति गृह्णीयात्;
रागालम्बनत्वात्। कथं वा तत्सास्रवम् ? सामान्यक्लेशालम्बनत्वादिति चेत्,
एवमपि समोहं गृह्णीयान्मोहालम्बनत्वात्। न च परचित्तज्ञानं प्राप्त्या-
लम्बनम्, नापि तच्चित्तालम्बनरागालम्बनम्²। तस्मादपि³ न रागसम्प्रयोगात्
सरागं चित्तमत्रेष्टम्। किं तर्हि ? रागसम्प्रयुक्तं चित्तं सरागमसम्प्रयुक्तं
विगतरागमिति सूत्राभिप्रायो दृश्यते।
यत् तूक्तम्—"विगतरागस्य तच्चित्तं भवति विगतद्वेषं विगतमोह-
रागसम्प्रयुक्तं चित्तं द्वाभ्यां सरागम्; 'ततोऽन्यत् सास्रवं संयोगसरागम्'
इति वचनात्। तत्र रागसंयुक्ततयापि सरागं चित्तमत्रेष्टव्यमिति वचनात्।
अनास्रवमपि सरागं प्राप्नोति शैक्षं चित्तमिति। शैक्षस्थाने रागस्य साव-
शेषत्वात्। रागालम्बनं चेत्। अथ मतम्—रागस्य यदालम्बनं तद् राग-
संयुक्तं सरागं च भवति अर्हतोऽपि सास्रवं चित्तं परकीयस्य रागालम्बन-
त्वात् रागसंयुक्तमिति कृत्वा सरागमिति गृह्णीयात् परचित्तवित् परचित्तज्ञानं
वा। अथ मतम्—न तद् रागेणालम्ब्यत इति ? तत उच्यते—कथं वा तत्
सास्रवमिति। सामान्यक्लेशालम्बनत्वादिति चेत्। अथ मतम्—सामान्य-
क्लेशानां दृष्टिविचिकित्साऽविद्यानामालम्बनं तत्, अतः सास्रवमिति ?
एवमपि समोहं गृह्णीयात्। अर्हतः सास्रवं चित्तं मोहालम्बनत्वात्।
मोहोऽपि सामान्यक्लेशः। परकीयस्य च मोहस्यार्हच्चित्तमालम्बनीभव-
तीति। न च परचित्तज्ञानं प्राप्त्यालम्बनमिति। यस्मात् परचित्तज्ञानं
चित्तचित्तालम्बनमिष्यते, तस्मान्न रागप्राप्तिसहितत्वेन रागसंयुक्तत्वात्
सरागमिति। नापि तच्चित्तालम्बन-रागालम्बनमिति। तदिति, यत्
परकीयं चित्तं परचित्तज्ञानेन गृह्यते तत् तच्छब्देनोच्यते। तस्यालम्बनः
तच्चित्तालम्बनः। तच्चित्तालम्बनो रागः। आलम्बनमस्य परचित्त-
ज्ञानस्येति तद् भवति तच्चित्तालम्बनरागालम्बनम्। यस्मादेवंविधं रागं
नालम्बते परचित्तज्ञानं विप्रकृष्टत्वात्। एकैकद्रव्यगोचरं हि परचित्त-
ज्ञानम्। न च परकीयचित्तज्ञानं तस्य चित्तस्यालम्बनं गृह्णाति; "आकारा-
लम्बननिरपेक्षं हि तत्" इति वचनात्। "रक्तमिदं चित्तं जानाति" इति
वचनाच्च। तस्मादपि न रागसम्प्रयोगात्४ सरागं चित्तमिति। असम्प्रयुक्तं
१. असास्रवमिति—का०। २. ०लम्बनं रागा०—का०।
३. तस्मान्न—का०। ४. रागसंयोगात्—जा०।
१०५४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ ज्ञान-
मनावार्तिकधर्मि कामभवे रूपभवे आरूप्यभवे" इति । तत्र तत्प्राप्तिविगमं
सन्धायोक्तम् । ननु चोक्तम्—अन्यक्लेशसम्प्रयुक्तमपि चित्तं रागविप्रयुक्त-
त्वाद्विगतरागं स्यात्" इति ? एतेनाभिसन्धिना न दोषः। न तु
तद्विगतरागमिति कृत्वा गृह्यते । किं तर्हि ? सद्वेषं समोहमित्येवमादि ।
अलं प्रसङ्गेन । सिद्धान्तो वर्ण्यताम् ।
किं परचित्तज्ञानं परचित्तस्याकारमालम्बनं वा गृह्णाति ? न गृह्णाति ।
आकारालम्बननिरपेक्षं हि तद्रक्तमिदं चित्तमिति जानाति । न त्वमुष्मिन् रूपे
रक्तमिति जानाति । अन्यथा हि तद्रूपालम्बनमपि स्यात्, तदालम्बनं च
परचित्तं गृह्णतः स्वभावग्रहणं प्राप्नुयात् । सर्वं च परचित्तज्ञानं द्रव्यस्व-
लक्षणचित्तचैत्तप्रत्युत्पन्नपरसन्ततिकामरूपप्रतिसंयुक्ताप्रतिसंयुक्तविषयं दर्शन-
विगतरागमिति । सत्यामपि रागप्राप्तावित्यभिप्रायः। तत्र तत्१ प्राप्ति-
विगमं सन्धायोक्तमिति१ । रागादिप्राप्तिविगमं सन्धायोक्तम्, न सम्प्रयोग-
मिति दर्शयति—अनावार्तिकधर्मि कामभवे रूपभवे आरूप्यभवे इति ।
त्रैधातुकवैराग्यसन्दर्शनादित्यभिप्रायः । ननु चोक्तमिति विस्तरः । क्वोक्तम् ?
अत्र तु सूत्रे इति विस्तरेण, यावद्, यदि हि रागेणासम्प्रयुक्तं चित्तं विगतरागं
स्यात् अन्यक्लेशसम्प्रयुक्तमपि विगतरागं स्यादित्यत्र । एतेनाभिसन्धिना
रागविप्रयुक्तत्वाद् विगतरागम् अन्यक्लेशसम्प्रयुक्तमपीत्यनेन । यद्येवम्,
'सद्वेषं समोहम्' इत्येवमादि न वक्तव्यं स्यात् इति ? अत आह—न तु तद्
विगतरागमत्यादि । न तु तद् द्वेषादिसम्प्रयुक्तं चित्तं विगतरागमपि सत्
विगतरागमिति कृत्वा गृह्यते । किं तर्हि ? सद्वेषं समोहमित्येवमादि ।
द्वेषादिसम्प्रयोगितया विशिष्टत्वात् । आदि-शब्देन चात्र संक्षिप्तं विक्षिप्त-
मित्येवमादिसूत्रोक्तानि पदानि गृह्यन्ते ।
अन्यथा हीति विस्तरः । यद् यस्मिन् वस्तुनि रूपादिके रक्तमिति
विजानीयात्, तद् रूपालम्बनमपि स्यात् । तथा च सति न तत् परचित्तज्ञानं
स्यात्; रूपालम्बनत्वात् । तदालम्बनं च परचित्तं गृह्णतः स्वभावग्रहणं
प्राप्नुयादिति । सालम्बनपरचित्तग्रहणे हीष्यमाणे स्वात्मा परचित्तज्ञानेन
गृह्येत । अस्ति हि सम्भवो यत् परचित्तविद् यस्य चित्तं गृह्णाति, असावपि
तस्य परचित्तविदश्चित्तमालम्बेत । ततश्च परचित्तज्ञानस्य स्वालम्बन-
परिज्ञानात् स्वमेवासौ परचित्तवित् चित्तमालम्बेत । न चैतत् प्राप्यम्
यत् तेनैव चित्तेन तदेव गृह्यते । सर्वं चेति विस्तरः । द्रव्यस्य स्वलक्षणं च
चित्तचैत्ताश्च प्रत्युत्पन्नाश्च परसन्ततिश्च कामरूपप्रतिसंयुक्ताश्चाप्रतिसंयुक्ताश्च
१-१. तत्सन्धायो०—जा० ।
निर्देशः ] सप्तमं कोशस्थानम् १०५५
मार्गप्रतिषिद्धं भावनामार्ग उपलभ्यते। शून्यताऽनिमित्तविप्रयुक्तं¹ क्षयानु-
उक्तं परचित्तज्ञानम्॥
शेषे चतुर्दशाकारे शून्यानात्मविवर्जिते।
क्षयानुत्पादज्ञाने शेषे ते चतुर्दशाकारे शून्यानात्माकारौ वर्जयित्वा।
पारमार्थिकयोरपि संवृतिभजनात्। क्षीणा मे जातिर्नापरमस्माद्भवं
प्रजानामीति तद्बलेनानुव्यवहारतः²।
विषयोऽस्येति समासविग्रहः। द्रव्यग्रहणं संवृतिसन्निरासार्थम्। स्वलक्षणग्रहणं
सामान्यलक्षणनिवृत्त्यर्थम्। चित्तचैत्तग्रहणं रूपादिविशेषणार्थम्। प्रत्युत्पन्न-
ग्रहणं स्वसन्ततिव्युदासार्थम्। [परसन्ततिग्रहणं कामरूपिधात्वोर्न त्व]आरूप्य-
प्रतिबन्धप्रतिषेधार्थम्। दर्शनमार्गप्रतिषिद्धमिति। दर्शनमार्गे वर्तमानः
परचित्तज्ञानं न सम्मुखीकरोति, अतो दर्शनमार्गसंगृहीतं नास्ति। न हि
दर्शनमार्गो व्यवच्छिन्नचित्तचैत्तालम्बनो भवति। भावनामार्ग उपलभ्यते
इति। भावनामार्गसंगृहीतं भवतीत्यर्थः। शून्यतानिमित्तविप्रयुक्तमिति।
शून्यतासमाधिना, अनिमित्तसमाधिना च विप्रयुक्तम्। शून्यतासमाधिः
दुःखज्ञानसंयुक्तः, अनिमित्तसमाधिर्निरोधज्ञानसम्प्रयुक्तः। न च परचित्तज्ञानम्
दुःखज्ञानं दुःखनिरोधज्ञानं वा भवति, आकारालम्बनभेदात्। अतस्ताभ्यां
विप्रयुक्तमुच्यते। अर्थादुक्तं भवति अप्रणिहित[समाधिसम्प्रयुक्तं] सम्भवतीति।
क्षयानुत्पादज्ञानासङ्गृहीतमिति। क्षयज्ञानेनानुत्पादज्ञानेन न संगृहीतम्। न
क्षयानुत्पादज्ञानस्वभावमित्यर्थः। किं कारणम् ? द्रव्यस्वलक्षण-सन्तीरण-
परिमार्गणाशय परचित्तज्ञानम्। न चैव क्षयज्ञानमनुत्पादज्ञानं चेति
ताभ्यामसंगृहीतम्। आनन्तर्यमार्ग प्रतिषिद्धं चेति। स हि प्रहाणमार्गो
भवति; परचित्तज्ञानं च विमुक्तिविशेषमार्ग इति ॥ ११ ॥
पारमार्थिकयोरपि संवृतिभजनादिति। परमार्थनिमित्ते, परमार्थेन वा
दीव्यतः पारमार्थिके। तयोः संवृतिभजनात्। यस्मादेते संवृतिं भजेते,
अतः शून्यतात्माकारौ न स्तः। कथं पुनरेते संवृतिं भजेते ? क्षीणा मे
जातिः, नापरमस्माद् भवं प्रजानातीति यथाक्रमम्। कथमेते अनास्रवे सतो
एवमाकारे ? तद्बलेनानुव्यवहारतः। अन्येन ज्ञानेनेति वाक्यशेषः। यस्मात्
१. ॰निमित्तसमाधि०-का०। २. तद्बलानुव्य०-का०।
किमनास्रवः स्वलक्षणाकारोऽस्ति ? अथ न ? काश्मीराणां तावत्
नामलः षोडशेभ्योऽन्य आकारः,
नास्त्यनास्रवाकारः षोडशाकारनिर्मुक्तः ।
अन्येऽस्ति शास्त्रतः ॥ १२ ॥
अन्ये पुनरस्तीत्याहुर्बहिर्देशकाः । कथं गम्यते ? शास्त्रत इति ।
शास्त्रे ह्येवमाह - "स्यादप्रतिसंयुक्तेन चित्तेन कामप्रतिसंयुक्तान् धर्मान्
विजानीयात् । अनित्यतो दुःखतः शून्यतोऽनात्मतः हेतुतः समुदयतः प्रभवतः
प्रत्ययतः । अस्त्येतत्स्थानमस्त्येतद्वस्त्विति योगविहिततो विजानी-
यात्" ( ) इति ।
नास्यायमर्थो यदस्त्येतत् स्थानमस्त्येतद्वस्त्वित्येवं विजानीयादिति,
अपि त्वस्त्येतत् स्थानमस्त्येतद्वस्तु यदनित्यादितो विजानीयादिति चेत् ?
न ; अन्यत्रावचनात् । एष चेच्छास्त्रार्थोऽभविष्यत्, यदिदं पठ्यते-
"स्याद्दर्शनप्रहातव्येन चित्तेन कामप्रतिसंयुक्तान्धर्मान्विजानीयादिति ? आह-
विजानीयात् । आत्मत आत्मीयत उच्छेदतः शाश्वततः अहेतुतोऽक्रियातो-
तत्पृष्ठनिर्जाते संवृतिज्ञाने एवमाकारे प्रवर्तेते, अतस्तन्निष्यन्देन तयोः
संवृतिभाजनमित्युच्यते । न तु मुख्यवृत्त्या तयोः संवृतिभाजनमित्यभिप्रायः ।
यतश्चैव निष्यन्देनात्मदृष्टिं भजमाने इव ते प्रवर्तेते, अत्र तस्माच्छू-
न्यानात्माकारविवर्जितेश्चतुर्दशभिरेवाकारैः सम्प्रयुक्ते इति ।
अप्रतिसंयुक्तेनेति । अनास्रवेण । अनित्यमिति । अनित्यतः । अयं हि
तसिप्रत्ययः स्वार्थे प्रयुक्तः । एवं सर्वत्रायं प्रत्ययो ज्ञातव्यः । अथ वा-
अन्तरेणापि भावप्रत्ययं भावप्रधानो निर्देशो भवति-अनित्येन रूपेण
भावोऽनित्यत इति । एवमन्यत्रापि योज्यम् । अस्त्येतत् स्थानम्, अस्त्येतद्
वस्तु इति । एतावपि द्वावाकारावनास्रवौ । अस्त्येतत्स्थानमिति अस्त्ये-
तल्लक्षणमित्यर्थः । अस्त्येतद्वस्तु इति, अयं हेतुरित्यर्थः । योगविहिततो
विजानीयादिति । अविपरीततो विजानीयादित्यर्थः ।
नास्यायमर्थ इति विस्तरः । अस्त्येति, वाक्यस्य पदद्वयस्य वा-अस्त्येतत्
स्थानम् अस्त्येतद् वस्तु । अस्त्ययं सम्भवोऽस्त्ययं योगो यद् अनित्यादितो
विजानीयादिति मतं चेत्, न; नेतदस्ति । अन्यत्रावचनात् । अन्यत्र
वाक्ये पदद्वयस्यावचनात् । दर्शनप्रहातव्येनेति । दर्शनप्रकारेण । आत्मत
आत्मीयतश्चेति । सत्कायदृष्ट्या सम्प्रयुक्तेन चित्तेन । उच्छेदतः शाश्वतत
निर्देशः ] सप्तमं कोशस्थानम् १०५७
ऽपवादतोऽग्रतः श्रेष्ठतो विशिष्टतः परमतः शुद्धितो मुक्तितो नैर्याणिकतः
काङ्क्षातो विमतितो विचिकित्सातः । रज्येत द्विष्यान्मन्येत मुह्येद्योग-
विहिततो विजानीयाद्" इति, अत्राप्येवं पाठोऽभविष्यत्-अस्येतत्स्थान-
मस्येतद्वस्त्विति, न चैवं पठ्यते । तस्मान्नास्यायमर्थः ॥ १२ ॥
किं पुनरिमे षोडशाकारा नामतः ? आहोस्विद् द्रव्यतः ? सप्त द्रव्यतः,
नामतः षोडशेत्येके । दुःखाकाराश्चत्वारः;
मेकैकद्रव्यत्वात् । एवं तु वर्णयन्ति-
द्रव्यतः षोडशाकाराः,
तत्प्रत्ययाधीनत्वाद् अनित्यम् । पीडनात्मकत्वात्¹ दुःखम् ।
इति । अन्तग्राहदृष्टया । अहेतुतः, अक्रियतः, अपवादत इति । मिथ्यादृष्ट्या ।
अग्रतः, श्रेष्ठत विशिष्टतः, परमत इति । दृष्टिपरामर्शेन । शुद्धितः,
मुक्तितः, नैरात्म्यत इति । शीलव्रतपरामर्शेन । कांक्षात:, विमतितः,
विचिकित्सात इति । विचिकित्सातः । रज्येतेति । रागेण । द्विष्यादिति ।
द्वेषेण । मन्येत इति । मानेन । मुह्येदिति । मोहेन । अयोगविहिततो²
विजानीयादिति । एवमात्मादिभिर्विपरीततो³ विजानीयादिति निगमयति ।
अत्रापि वाक्ये एवं पाठोऽभविष्यदिति । न चैवम् । अतो गम्यते नायमस्यार्थ
इति ॥ १२ ॥
सप्त द्रव्यत इति । दुःखाकाराश्चत्वारो द्रव्यतो भवन्ति । समुदयाकारा-
द्व्याकारास्त्वेकैक इति सप्त । य एव हेत्वाकार स एव समुदयः, प्रभवः,
प्रत्ययश्च प्रत्ययमात्रं नार्थभेदः । शक्रः, इन्द्रः, पुरन्दर इति यथा । एवं
निरोध एव शान्तः प्रणीतो निःशरणम्-इत्येक आकारः । मार्ग एव च
न्यायः, प्रतिपत्, नैर्याणिक :-इत्येक आकार इति । तदिदमुक्तं भवति-
दुःखाकारांश्चतुरः पृथग्योगिनः सम्मुखीकुर्युः, हेत्वाकारास्त्वेकैकमित्येकीय-
मतम् ।
द्रव्यतः षोडशेति वैभाषिका वर्णयन्ति । दुःखाकारत्वान् समुदयाद्या-
काराणां सर्वेषामपि पृथक् पृथक् सम्मुखीकर्तव्यत्वात् । प्रज्ञास्वभावा
ह्याकारा इति ब्रुवते । प्रत्ययाधीनत्वादिति विस्तरः । न नियतभाव -
नित्यम् । प्रत्ययाधीनत्वात् । प्रत्ययप्रतिबद्धजन्मत्वादित्यर्थः । पीडनात्म-
१. पीडात्म०-क० । २. ०विहितता-जा० ।
३. ०विपरीतता-जा० ।
। आदिवीजवत् । योगशब्दोऽत्र न्यायार्थः । समुदायः
प्रादुर्भावयोगेनेति । संनिकृष्टावस्थां हेतोर्दर्शयति । यतः क्षणादनन्तर-
मुत्पद्यते, समुदेत्यस्मादिति कृत्वा । प्रभवः प्रबन्धयोगेनेति । सन्ततियोगे-
नानुच्छेदं दर्शयति । वीजाङ्कुरकाण्डनालादिवत् । अभिनिष्पादनार्थेन
प्रत्यय इति । हेत्वादिभ्यो बहुभ्य उत्पद्यत इति दर्शयति । तद्यथा
मृत्पिण्डदण्डादिभ्यो बहुभ्यो निष्पाद्यते घटः, तद्वत् । अग्निनिर्वाणादिति ।
रागद्वेषमोहाग्निनिर्वाणादित्यर्थः । निरुपद्रवत्वादिति । निर्दुःखत्वादित्यर्थः ।
सर्वोपक्षालवियुक्तत्वादिति । सर्वदुःखकारणविमुक्तत्वात् । गमनार्थेन ।
निर्वाणस्य । योगयुक्तत्वाद् ! उपाययुक्तत्वाद्वा ।
सम्यक्प्रतिपादनार्थेन प्रतिपदिति । प्रतिपद्यते निर्वाणमनयेति प्रतिपत् ।
नैर्याणिक इति । अत्यन्तं निर्याणाय प्रभवतीति नैर्याण
निर्देशः ] सप्तमं कोशस्थानम् १०५९
णार्थेन प्रत्यय इति । असम्बन्धः सम्बन्धोपरमान्निरोधः १ । त्रिसंस्कृत-
लक्षणविमुक्तत्वाच्छान्तः । कुशलत्वात् प्रणीतः । परमाश्वासत्वान्निःसरणा-
मिति । कुमार्गविपक्षेण मार्गः । अन्यायविपक्षेण न्यायः । निर्वाणपुराविरोध-
नार्थेन प्रतिपत् । सर्वभवप्रतिपक्षत्वान्नैर्याणिक इति । एषां व्याख्यान-
मनेकपर्यायः । यथाभिप्रेतं प्रवक्ष्यामः । उदयव्ययत्वादनित्यम् । प्रतिकूल-
भावात् दुःखम् । आत्मरहितत्वाच्छून्यम् । स्वयमनात्मत्वादनात्मा ।
हेतुसमुदयप्रभवप्रत्ययत्वं तु यदेव सूत्र उक्तम्- "इमे पञ्चोपादानस्कन्धा-
श्छन्दमूलकाश्छन्दसमुदयाश्छन्दजातीयाश्छन्दप्रभवाः" इति । प्रभवशब्दः
केवलं पश्चात् पठितव्यः शास्त्रे ।
कः पुनरेषां छन्दानां विशेषः ? चतुर्विधो हि छन्दः । अस्मीत्यभेदे-
नात्मभावच्छन्दः । स्यामित्यभेदेन पुनर्भवच्छन्दः । इत्थं स्यामिति भेदेन
पुनर्भवच्छन्दः । प्रतिसन्धिवन्धच्छन्दश्चतुर्थः । कर्माभिसंस्कारच्छन्दो वा ।
अस्मादुत्पद्यत इत्यर्थः । उन्मज्जनयोगेनेति । अनागताध्वन उन्मज्जती-
वेति अर्थः । प्रसरणयोगेनेति । प्रबन्धयोगेन । प्रतिसरणार्थेन प्रत्यय
इति । जनिक्रियाप्रतिप्रधानभूत इत्यभिप्रायः । असम्बन्धः सम्बन्धोपरमा-
दिति । पूर्वस्य दुःखस्योपरमात् । उत्तरस्य सम्बन्धोपरमो निरोध इत्यर्थः ।
त्रिसंस्कृतलक्षणविमुक्तत्वाद् । उत्पाद-व्यय-स्थित्यन्यथात्वविमुक्तत्वात् ।
परमाश्वासत्वादिति । सर्वदुःखोच्छित्या परमक्षेमत्वात् । निर्वाणपुरा-
विरोधनार्थेन प्रतिपदिति । यस्मादनेन निर्वाणपुरं न विरोध्यते, न विसंवा-
द्यते, किं तर्हि ? प्रतिपद्यत एवेत्यतः प्रतिपत् । प्रतिपद्यत अनयेति कृत्वा ।
छन्दमूलका इति । छन्दहेतुका इत्यर्थः । तृष्णापर्याय इह छन्दः ।
छन्दसमुदया इति । छन्दसमुद्गमा इत्यर्थः । छन्दजातीया इति । छन्द-
प्रत्यया इत्यर्थः । प्रभवशब्दः केवलं पश्चात् पठितव्यः । आभिधर्मिकैरिति
वाक्याध्याहारः । सूत्रानुसरणं हि कर्तव्यमित्यभिप्रायः । हेतुतः समुदयतः
प्रत्ययतः प्रभवतश्चेति ।
कः पुनरेषां छन्दानां विशेषः ? अस्मीत्यभेदेनात्मभावश्छन्द इति ।
अनवधार्यकं द्रव्यं समस्तेषु पञ्चसूपादानस्कन्धेषु अस्मीत्यभेदेन प्रकारान्तर-
विशिष्टस्य प्रत्युत्पन्नस्यात्मभाववस्तुनोऽनालम्बनतः त्रैध्विकात्मभावाना-
लम्बनतो वा आत्मभावप्रार्थना आत्मभावच्छन्द इति प्रथमः । स्यामित्य-
भेदेनेति । पुनर्भवमात्रप्रार्थना, न विशेषरूपा प्रार्थनेति द्वितीयः । इत्थं
१ ०परमत्वा०-का० ।