अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 1070, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] सप्तमं कोशस्थानम् १०४७
एवं तर्हि तदप्रतिपक्षः सास्रवं चित्तमक्लिष्टं नैव सरागं न विगतरागं
स्यादित्येवमादि ? तस्माद्रागसम्प्रयुक्ततयापि सरागं चित्तमत्रेष्टव्यमित्यपरे ।
एवं यावत् समोहं विगतमोहं च वेदितव्यम् ।
संक्षिप्तं कुशलमालम्बनाभिसंक्षेपात् । विक्षिप्तं क्लिष्टं विक्षेप-
सम्प्रयोगात् ।
संक्षिप्तं मिद्धसंप्रयुक्तं विक्षिप्तमन्यत् क्लिष्टमिति पाश्चात्त्याः । तदेतन्न
वर्णयन्ति । तदेव हि चित्तं संक्षिप्तविक्षिप्तं स्यात्; क्लिष्टमिद्धसम्प्रयोगात् ।
शास्त्रविरोधश्च स्यात्—"संक्षिप्तं चित्तं यथाभूतं सम्प्रजानाति" १ ।
एवं तर्हीति विस्तरः । यदि रागसम्प्रयुक्तं चित्तं सरागम्, रागप्रति-
पक्षो विगतरागम् । तदप्रतिपक्षः सरागचित्तस्याप्रतिपक्षः । चित्तमक्लिष्टम् ।
अनिवृताव्याकृतम् । नैव सरागम् । रागेणासम्प्रयोगात् । नैव विगतरागम् ।
रागस्याप्रतिपक्षत्वात् । एवमादीति । आदि-शब्देन 'सद्वेषम्' 'समोहम्' इति
तुल्यप्रसङ्गो योज्यः । कथम् ? "अत्र तु सूत्रे द्वेषसम्प्रयुक्तं चित्तं सद्वेषम्,
द्वेषप्रतिपक्षो विगतद्वेषमिति । यदि हि द्वेषेणासम्प्रयुक्तं विगतद्वेषं स्यात्,
अन्यक्लेशसम्प्रयुक्तमिति स्यादित्येके । एवं तर्हि तदप्रतिपक्षश्चित्तमक्लिष्टं
नैव सद्वेषं स्यात्, न विगतद्वेषम् । इत्येवं समोहं चित्तं विगतमोहम्" इति
वक्तव्यम् ।
तस्माद् रागसंयुक्ततयापि सरागं चित्तमत्रेष्टव्यम् । अपि-शब्दात्
रागसम्प्रयुक्ततयापीत्यपरे । आभिधार्मिकाः ।
एवं यावत् समोहं विगतमोहं चेति । तस्माद् द्वेषसंयुक्ततयापि
सद्वेषम्, मोहसंयुक्ततयापि समोहमत्र सूत्रे एष्टव्यमिति ।
आलम्बनाभिसंक्षेपादिति । कुशलं चित्तं विक्षेपेण न सम्प्रयुज्यते ।
तस्मात् तदालम्बने तस्याभिसङ्क्षेप इति ।
संक्षिप्तं विक्षिप्तं च स्यात्, क्लिष्टमिद्धसम्प्रयोगादिति । द्विविधं
मिद्धम्—क्लिष्टम्, अक्लिष्टं च । तदेव हि चित्तं क्लिष्टं मिद्धसम्प्रयुक्तमिति
संक्षिप्तं स्यादिति । क्लिष्टमिति च विक्षिप्तं स्यादिति साङ्कर्यदोषः ।
शास्त्रविरोधश्चेति । कथम् ? संक्षिप्तं चित्तं यथाभूतं सम्प्रजानाति
१. प्रजानाति—का० ।
अभि० को० ४ : २