सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

कोशगतवस्तिगुह्यानां किं न शोभते १ ।
न च प्रयोजनवशादुत्पत्तिः, किं तर्हि ? स्वकारणोत्पद्यत्वाद् २ । इत्यशोभा-
करस्यापि स्यादेव सति हेतावुत्पत्तिः ।
सूत्रं तर्हि विरुध्यते—“अविकला अहीनेन्द्रियाः” इति ? यानि
तत्रेन्द्रियाणि तैरविकला अहीनेन्द्रिया इति कोऽत्र विरोधः । इतरथा हि
पुरुषेन्द्रियस्यापि स्यात् प्रसङ्गः ।
एव तु वर्णयन्ति—स्त एव तत्र घ्राणजिह्वेन्द्रिये, न तु गन्धरसौ ।
आत्मभावमुखेन हि षडायतने तृष्णासमुदाचारः, न विषयमुखेन ।
कथमिति न रूपधातौ पुरुषेन्द्रियमस्ति ? अशोभाकरत्वात्, काणकुण्ठववत् ।
तदनुमानबाधनाच्च विपर्यत्यस्माकमेषा प्रतिज्ञा, ‘यदि दृष्टं न बाधते’ इति
नैयायिकसिद्धान्तादित्यभिप्राय । आचार्य आह—कोशगतवस्तिगुह्याना किं न
शोभते । वस्तौ गुह्यं वस्तिगुह्यम् । वस्तिर्येन तत्पुरुषेन्द्रियं वेष्टितम् । गुह्यम्=
[L1

निर्देशः ] प्रथमं कोशस्थानम् ८७
पुरुषेन्द्रिये तु मैथुनस्पर्शमुखेनेति ।
तस्मात् सिद्धमेतद्—रूपधात्वाप्ताश्चतुर्दश धातव इति ॥ ३० ॥
आरूप्याप्ता मनोधर्ममनोविज्ञानधातवः ।
रूपवीतरागाणां तत्रोपपत्तिः, अतोऽत्र दश रूपस्वभावा धातवस्तदाश्रया-
लम्बनाश्च पञ्च विज्ञानधातवो न सम्भवन्ति ॥
कति सास्रवाः ? २ • कत्यनास्रवाः २ य एते मनोधर्ममनोविज्ञानधातव उक्ताः
सास्रवानास्रवा एते त्रयः;
ये मार्गसत्यासस्कृतसंगृहीतास्तेऽनास्रवाः, अन्ये सास्रवाः ।
शेषास्तु सास्रवाः ॥ ३१ ॥
पञ्चदश धातव शेषास्त्वेकान्तसास्रवाः ॥ ३१ ॥
रूपधातौ, सहेतुकाङ्कुरादिवदिति । अनेन च—'न स्तो रूपधातौ घ्राणजिह्वे-
न्द्रिये निर्हेतुकत्वाद्' इति यत्साधनमुक्तं तदसिद्धमिति प्रतिपादयन्ति । पुरुषेन्द्रिये
तु मैथुनस्पर्शमुखेन । किम् ? तृष्णासमुदाचार इति प्रकृतम् । मैथुनस्पर्शवीत-
रागाश्च रूपावचरा सत्त्वा । तस्मात् तत्र न तृष्णापूर्वकं कर्म भवति । तस्माद-
हेतुकत्वात् तत्र पुरुषेन्द्रियं नास्ति, निर्हेतुकाङ्कुरादिवदिति सिद्धं रूपधातौ
चतुर्दशैव धातव इति ॥ ३० ॥
“आरूप्याप्ताः” इति । विस्तर —“मनोधर्ममनोविज्ञानधातवः” एवारूप्याप्ता
इत्यवधारणादन्ये धातवो न सन्तीत्युक्तं भवति । यस्माद् रूपवीतरागाणां तत्रोप-
पत्तिरतो दश रूपस्वभावा धातवः । चक्षुरादय पञ्च रूपादयश्चापि पञ्च न सन्ति ।
तदाश्रयालम्बनाश्च पञ्च विज्ञानधातवो न सन्तीति । ते चक्षुरादयो रूपादयश्च
यथाक्रममाश्रया आलम्बनानि च येषा त इमे तदाश्रयालम्बना । आश्रयाणा
चक्षुरादीनामाालम्बनानां च रूपादीनामभावात् तेऽपि चक्षुर्विज्ञानादिधातव-
स्तत्र न सन्ति ।
“सास्रवानास्रवा एते त्रयः” इति । एत एव त्रय सास्रवानास्रवा इत्यव-
धारणम् ।
“शेषास्तु सास्रवाः” इति । किमर्थमिदमुच्यते, नन्वेत एव त्रय. सास्रवा-
नास्रवा इत्यवधारणाच्छेषा सास्रवा इति सिद्धम् ? न सिद्धम्, कथम् ? शेषाः
सास्रवा एव नास्रवा एव वा स्युरित्याशङ्का, तन्निवृत्त्यर्थमिदमुच्यते—शेषा.
सास्रवा एवेति ॥ ३१ ॥

८८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
कति सवितर्काः सविचाराः ? कत्यवितर्का विचारमात्राः ? कत्यवितर्का
अविचाराः ?
सवितर्कविचारा हि पञ्च विज्ञानधातवः ।
नित्यमेते वितर्कविचाराभ्यां संयुक्ताः । अवधारणार्थो हि-शब्दः ।
अन्त्यास्त्रयस्त्रिप्रकाराः,
मनोधातुः, धर्मधातुः, मनोविज्ञानधातुश्चान्त्यः । एते त्रयस्त्रिप्रकाराः ।
तत्र मनोधातु , मनोविज्ञानधातु., सम्प्रयुक्तश्च धर्मधातुरन्यत्र वितर्कविचाराभ्यां
कामधातौ प्रथमे च ध्याने सवितर्काः सविचाराः ।, ध्यानान्तरेऽवितर्का विचार-
मात्राः । द्वितीयाद् ध्यानात् प्रभृत्याभवाभावादवितर्का अविचारा ।
सर्वश्चासम्प्रयुक्तो धर्मधातुर्ध्यानान्तरे च विचार. । वितर्कस्तु नित्यम-
वितर्को विचारमात्रः, द्वितीयवितर्काभावात्, विचारसम्प्रयोगाच्च ।
कामधातौ प्रथमे ध्याने विचार एषु त्रिप्रकारेषु, नान्तर्भवति, स कथं
“सवितर्कविचारा हि पञ्च विज्ञानधातवः” इति । सवितर्कसविचारा एवेति
हिशब्दोऽवधारणे ।
“अन्त्यास्त्रयस्त्रिप्रकाराः” इति । अन्त्या एव त्रिप्रकारा इत्यवधारणम् ।
अन्यत्र वितर्कविचाराभ्यामिति । वितर्कविचारौ सम्प्रयुक्तकधर्मधातुस्वभावौ,
तयोरत्र ग्रहणप्रसङ्ग इति परिवर्ज्येते । वितर्को हि द्वितीयप्रकारान्तरेऽन्तर्भावि-
ष्यति । विचारोऽपि ध्यानान्तरजस्तृतीये प्रकारेऽन्तर्भवति । तदन्यस्तु त्रिष्वपि
प्रकारेषु नान्तर्भवतीति वक्ष्यति । त एते मनोधात्वादय. सम्प्रयुक्तकधर्मधातु-
पर्यन्ता. कामधातौ प्रथमे च ध्याने ससामन्तके मौले सवितर्काः सविचाराः,
वितर्कविचारसम्प्रयोगात् । अत एव ध्यानान्तरेऽवितर्काः वितर्काभावात् ।
विचारमात्राः, विचारसम्प्रयोगात् । अत एव द्वितीयात् प्रभृति यावद्भवाग्रं तयोर-
भावादवितर्का अविचाराः। सर्वश्चासम्प्रयुक्तो धर्मधातुरिति यथासम्भवं त्रैधातुक-
रूपचित्तविप्रयुक्ता असंस्कृताश्च । ध्यानान्तरे च विचारोऽवितर्को वितर्काभावात् ।
अविचारो द्वितीयविचाराभावात् ।
विचार एषु त्रिषु प्रकारेषु नान्तर्भवतीति । कामधातुप्रथमध्यानभूमिको
विचार. प्रथमे तावत् प्रकारे नान्तर्भवति-सवितर्कं सविचार इति । स हि
सवितर्क. सम्भवति, न तु सविचार., विचारासम्प्रयोगात् । द्वितीयेऽपि नान्त-

निर्देशः ] प्रथमं कोशस्थानम् ८९
वक्तव्यः ? अविचारो वितर्कमात्र ; द्वितीयविचाराभावात् , वितर्कसम्प्रयोगाच्च ।
अत एवोच्यते—"स्युः सवितर्कसविचाराया भूमौ धर्माश्चतुःप्रकाराः—सवितर्काः
सविचारा विचारवितर्कवर्ज्याः सम्प्रयुक्ताः, अवितर्को विचारमात्रो वितर्कः;
अवितर्का अविचारा असम्प्रयुक्ताः, अविचारो वितर्कमात्रो विचारः" इति ।
शेषा उभयवर्जिताः ॥ ३२ ॥
दश रूपिणो धातवः शेषा नित्यमवितर्का अविचाराः; असम्प्रयोगित्वात् । ३२ ॥
यदि पञ्च विज्ञानकायाः सवितर्काः सविचाराः, कथमविकल्पका इत्युच्यन्ते ?
निरूपणानुस्मरणविकल्पेनाविकल्पकाः ।
त्रिविधः किल विकल्पः—स्वभाव-अभिनिरूपण-अनुस्मरणविकल्पः ।
तदेषां स्वभावविकल्पोऽस्ति, नेतरौ । तस्मादविकल्पका इत्युच्यन्ते । यथा—
भवति—अवितर्को विचारमात्र इति, वितर्कसंप्रयोगाद् द्वितीयविचारा-
भावाच्च । तृतीयोऽपि नान्तर्भवति—अवितर्कोऽविचार इति । स हि यद्यप्य-
विचारो द्वितीयविचाराभावात्, न त्ववितर्को वितर्कसंप्रयोगात् । स कथं
वक्तव्यः ? इत्यत आह—अविचारो वितर्कमात्र इति । द्वितीयविचाराभावादविचारः ।
वितर्कसंप्रयोगाद् वितर्कमात्रः । अत एवेति । यस्मात् सवितर्कसविचाराणां
भूमौ विचार एव चतुर्थप्रकारो भवति । अविचारो वितर्कमात्र इति ।
शेषा उभयवर्जिताः इति । शेषा दशरूपिणो धातव उक्ताः । तेऽवितर्का
विचारमात्रा वा अवितर्का अविचाराः स्युरित्याशङ्कायामवधार्यं तदुभयवर्जिता
एव, शेषा अवितर्का अविचारा एवेत्यर्थः ॥ ३२ ॥
कथम् अविकल्पका इत्युच्यन्त इति । "चक्षुर्विज्ञानसंसर्गी नीलं विजानाति
नो तु नीलम्" इति वचनात् । त्रिविधः किल विकल्प इति । किलशब्दः परमतद्यो-
तनार्थः । स्वाभिप्रायस्तु—चेतनाप्रज्ञाविशेष एव वितर्क इति, न स्वभाव-
विकल्पोऽन्यो धर्मोऽस्तीति। तथा ह्यनेन पञ्चस्कन्धके उक्तम्—"वितर्कः कतमः ?
पर्येषको मनोजल्पश्चेतनाप्रज्ञाविशेषो या चित्तस्यौदारिकता । विचारः कतमः ?
प्रत्यवेक्षको मनोजल्प, तथैव या चित्तस्य सूक्ष्मता अनभ्यूहावस्थाया चेतना,
अभ्यूहावस्थाया प्रज्ञेति व्यवस्थाप्यते" । तदेषा स्वभावविकल्पोऽस्तीति । तदिति
वाक्योपन्यासे निपात, तस्मादर्थे वा । स्वभावेनेव विकल्प औदारिकलक्षण-
त्वात् । स्वभावविकल्पो वितर्कः । स एषां पञ्चाना विज्ञानकायाना सम्प्रयोगतो-
ऽस्ति । तस्मात् सविकल्पा उक्ताः । नेतरा॒वभिनिरूपणानुस्मरणविकल्पावेषां

६० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [धातु-
एकपादकोऽप्योऽपादक इति । तत्र स्वभावविकल्पो वितर्कः । स चैतेषु
पश्चान्निर्देश्यते ।
इतरौ पुनः किंस्वभावौ ? यथाक्रमम्—
तौ प्रज्ञा मानसी व्यग्रा स्मृतिः सर्वैव मानसी ॥ ३३ ॥
मनोविज्ञानसम्प्रयुक्ता प्रज्ञा मानसीत्युच्यते । असमाहिता व्यग्रेत्युच्यते ।
सा ह्यभिनिरूपणाविकल्पः । मानस्येव सर्वा स्मृतिः—समाहिता चासमा-
हिता च अनुस्मरणविकल्पः ॥ ३३ ॥
कति सालम्बनाः, कत्यनालम्बनाः ?
सप्त सालम्बनाश्चित्तधातवः,
चक्षुःश्रोत्रघ्राणजिह्वाकायमनोविज्ञानधातवः, मनोधातुश्च—एते सप्त चित्त-
धातवः सालम्बना; विषयग्रहणात् ।
अर्धं च धर्मतः ।
सालम्बनं यच्चैतसिकस्वभावम् । शेषा दश रूपिणो धातवो धर्मधातुप्रदेश-
श्चासम्प्रयुक्तोऽनालम्बना इति सिद्धम् ।
स्तः । तस्मादविकल्पा उच्यन्ते । यथैकपादकोऽप्यापादक इति । 'पादत्रये छिन्न
एकस्मिन्नपि पादे सत्यपादक इत्युच्यते । तद्वदेकविकल्पा अविकल्पका इति ।
सा ह्यभिनिरूपणाविकल्प इति । सा मानस्यसमाहिता प्रज्ञा श्रुत-चिन्तामयी,
उपपत्तिप्रतिलम्भिका च । सा हि मनसि भवा मानसी । व्यग्रा विविधाग्रा
व्यग्रा, विविधालम्बनेत्यर्थः । विगतप्रधाना वा । मुहुर्मुहुरालम्बनान्तराश्रयणाद्
व्यग्रा । कस्मादभिनिरूपणाविकल्प इत्युच्यते ? तत्र तत्रालम्बने नामापेक्षया-
भिप्रवृत्तेः, रूपं वेदना अनित्यं दुःखमित्याद्यभिनिरूपणाच्च । समाहिता तु
भावनामयी नामानपेक्ष्यालम्बने प्रवर्तत इति नैषाभिनिरूपणाविकल्प
इत्युच्यते । मानस्येव सर्वा स्मृतिरिति । समाहिता च, असमाहिता च । सा
किल नामानपेक्षानुभूतार्थमात्रालम्बना प्रवर्तते, “स्मृतिः कतमा ? चेतसो-
ऽभिलाषः” इति लक्षणात् । पञ्चविज्ञानकायसम्प्रयुक्ता तु नानुभूतार्थाभिलाष-
प्रवृत्तेति नानुस्मरणविकल्प इतीष्यते ॥ ३३ ॥
“सप्त सालम्बनाः” इति । उभयावधारणम् । सप्तैव सालम्बनाः, सालम्बना
एव च सप्तेति ।
“अर्धं च धर्मतः” सालम्बनमिति । उक्तव्यतिरेकेणेदमुच्यते । अत्राप्युभया-

निर्देशः ] प्रथमं कोशस्थानम् ९१
कत्युपात्ताः ? कत्यनुपात्ताः ?
नवानुपात्ताः,
कतमे नव ? ये सप्त सालम्बना उक्ताः अष्टमस्यार्धेन सार्धम् ।
ते चाष्टौ शब्दश्च,
इमे ते नवानुपात्ताः—सप्त चित्तधातवः, धर्मधातुः, शब्दधातुश्च ।
अन्ये नव द्विधा ॥ ३४ ॥
उपात्ताः, अनुपात्ताश्च । तत्र चक्षुःश्रोत्रघ्राणजिह्वाकायाः प्रत्युत्पन्नाः
उपात्ताः; अतीतानागताः अनुपात्ताः । रूपगन्धरसस्प्रष्टव्यधातवः प्रत्युत्पन्ना
इन्द्रियाविनिर्भागिणः उपात्ताः; अन्येऽनुपात्ताः । तद्यथा—मूलवर्जेषु केशरोम-
नखदन्तेषु विण्मूत्रखेटसिङ्घाणकशोणितादिषु भूम्युदकादिषु च ।
उपात्तमिति कोऽर्थः ? यच्चित्तचैत्तैरधिष्ठानभावेनोपगृहीतम्; अनुग्रहोप-
घाताभ्यामन्योन्यानुविधानात् । यल्लोके 'सचेतनम्' इत्युच्यते ॥ ३४ ॥
वधारणम्—धर्मार्धमेव सालम्बनम्, सालम्बनमेव च धर्मार्धमिति । यस्माच्च
सप्तैव सालम्बना धर्मार्धं चैव सालम्बनमित्यवधारणमस्ति, तस्माच्छेषा दश
रूपिणो धातवो धर्मधातुप्रदेशश्चासम्प्रयुक्तोऽनालम्बना इति सिद्धमित्युक्तम् ।
तथा ह्यनवधारण ह्ययमर्थो न सिध्येत् ।
“नवानुपात्ताः” इति । नवानुपात्ता एवेत्यवधारणम् ।
“ते चाष्टौ” इति । ते च सप्त चित्तधातवो धर्मधातुश्च यस्यार्धं सालम्बन-
मुक्तम् । अष्टमस्यार्धेन सार्धमिति । सहेति यावत् । अष्टग्रहण सकलधर्मधातु-
ग्रहणार्थम् । मा धर्मधात्वर्धग्रहणं विज्ञायीति । ते चाष्टौ शब्दश्चापर इति
नवानुपात्ता इत्युक्ता ।
“अन्ये नव द्विधा” इति । चक्षुरादयः

९२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
कति धातवो भूतस्वभावाः ? कति भौतिकाः ?
स्प्रष्टव्यं द्विविधं,
भूतानि, भौतिकं च । तत्र भूतानि चत्वारि । भौतिकं श्लक्ष्णत्वादि सप्त-
विधम् ; भूतेषु भवत्वात् ।
शेषा रूपिणो नव भौतिकाः ।
पञ्चेन्द्रियधातवश्च, चत्वारो विषयाः—एते नव धातवो भौतिका एव ।
धर्मधात्वेकदेशश्च
अविज्ञप्तिसंज्ञको भौतिकः, शेषाः सप्त चित्तधातवो धर्मधातुश्चाविज्ञप्ति-
वर्ज्यो नोभयथा । "भूतमात्रं दशायतनानि" ( ) इति
भदन्तबुद्धदेवः । तच्च नैवम्; भूतानां चतुष्कखक्खटादिलक्षणावधारणात्¹
सूत्रे तेषां स्प्रष्टव्यत्वात् । न हि काठिन्यादीनि चक्षुरादिभिर्गृह्यन्ते, नापि
वर्णादयः कायेन्द्रियेण ।
"स्प्रष्टव्यं द्विविधम्" इति । उभयावधारणम्—स्प्रष्टव्यमेव द्विविधम्,
द्विविधमेव स्प्रष्टव्यमिति ।
"शेषा रूपिणो नव भौतिकाः" भौतिक इत्यत्राप्युभयावधारणम् । "धर्म-
धात्वेकदेशश्च" भौतिक इत्यत्राप्युभयावधारणम् । यस्माच्चैत उभयावधारिता-
स्तस्माच्छेषाः सप्त चित्तधातवो धर्मधातुश्चाविज्ञप्तिवर्ज्यो नोभयथेति सिद्धम् ।
भूतानां चतुष्कखक्खटादिलक्षणावधारणादिति । चतुष्कावधारणात् पृथि-
व्यप्तेजोवायुधातवः स्प्रष्टव्यधातौ चत्वारि भूतानि । श्लक्ष्णत्वादयस्तत्र चक्षुरा-
दयश्च न भूतानि । खक्खटादिलक्षणावधारणाच्च पृथिव्यप्तेजोवायुधातुष्वन्ये
धर्माश्चक्षुरादयो नान्तर्भावं गच्छन्ति । कथम् ? चत्वारि महाभूतानि—पृथिवी-
धातुः, अब्धातुः, तेजोधातुः, वायुधातुः । पृथिवीधातुः कतमः ? खक्खटत्वमिति
विस्तरः । तेषां च स्प्रष्टव्यत्वादिति । तेषां च खक्खटत्वादीनां स्प्रष्टव्यत्वात् ।
यस्मात् तानि स्प्रष्टव्यानि; वर्णादयस्तु द्रष्टव्याः, श्रोतव्याः, घ्रातव्याः, स्वादियि-
तव्याः । कथं गम्यते स्प्रष्टव्यानि तानि ? इत्यत आह—न हि काठिन्यादीनि
चक्षुरादिभिर्गृह्यन्ते । किं तर्हि ? कायेन्द्रियेणैवेत्यतोऽवगम्यते—स्प्रष्टव्यानि
तानीति । स्यान्मतम्—तेऽपि वर्णादयः स्प्रष्टव्याः ? इत्यत आह—नापि
वर्णादयः कायेन्द्रियेण । किम् ? गृह्यन्त इति प्रकृतम् ।
१. चतुष्ट०—का० ।

निर्देशः ] प्रथमं कोशस्थानम् ९३
उक्तं च सूत्रे "चक्षुर्भिक्षो आध्यात्मिकमायतनं चत्वारि महाभूतान्युपादाय-
रूपप्रसादो रूप्यनिदर्शनं सप्रतिघम्। एवं यावत् कायः। रूपाणि भिक्षो बाह्यमाय-
तनं चत्वारि महाभूतान्युपादायरूपि सनिदर्शनं सप्रतिघम् । शब्दो भिक्षो बाह्य-
मायतनं चत्वारि महाभूतान्युपादायरूप्यनिदर्शनं सप्रतिघम् । एवं गन्धरसाः ।
स्प्रष्टव्यानि भिक्षो बाह्यमायतनं चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय-
रूप्यनिदर्शनं सप्रतिघम्" ( ) इति । स्प्रष्टव्यायतनैकदेशेनैव
भूतानां संग्रहाच्छेषं न भूतानीति स्पष्टमादर्शितम् ।
यत् तर्हि सूत्रे उक्तम्—"यच्चक्षुषि मांसपिण्डे खक्खटं खरगतम्”
( ) इति ² तेनाविनिर्भागवर्तिनो मांसपिण्डस्यैष उपदेशः !
“षड्धातुरयं भिक्षो पुरुषः” इति गर्भावक्रान्तौ मूलसत्त्वद्रव्यसन्दर्श-
नार्थम्; पुनः षट्स्पर्शायतनवचनात् । चैताभावप्रसङ्गाच्च ।
उक्तं च सूत्र इति विस्तर । अपरस्मिन्नपि सूत्रे स्पष्टमादर्शितम् । कथमिति
विस्तरेण यावदिदमुक्तम् । स्प्रष्टव्यानि भिक्षो बाह्यमायतनम् । चत्वारि महाभूतानि
चत्वारि महाभूतान्युपादायरूप्यनिदर्शनं सप्रतिघमिति । शेषं चक्षुराद्यायतनं न
भूतानीति स्पष्टमादर्शितम् ।
यत्तर्हि सूत्र उक्तमिति । विस्तर.—यच्चक्षुषि मासपिण्डे खक्खटं खरगतम्,
खरप्रकार इत्यर्थः । चक्षुरिन्द्रियं खक्खटस्वभावमिति मत्वा चोदयन्ति—
तेनाविनिर्भागवर्तिनो मांसपिण्डस्यैष उपदेश इति । तेन चक्षुरिन्द्रियेणाविनिर्भाग-
वर्तिनोऽधिष्ठानस्यैतद् वचनम् । भवति हि चक्षुरधिष्ठानेऽपि चक्षुरूपचारः । अत
एव मासपिण्ड इति ग्रहणम् । अन्यथा चक्षुषीत्येवावक्ष्यत् यदिन्द्रियमेवेष्यते ।
षड्धातुरयं भिक्षो पुरुष इति विस्तरः । गर्भावक्रान्तिसूत्रे कल्लाद्यवस्थाया-
मिति भूतमात्रोपदेशान्न भौतिकमस्तीति चोद्यमाशङ्क्याह—मूलसत्त्वद्रव्यसन्दर्श-
नार्थमिति । मूलस्य सत्त्वद्रव्यस्य सन्दर्शनार्थमेव । पृथिवीधात्वादयश्चत्वारो
मूलसत्त्वम्; पञ्चाना चक्षुरादीना स्पर्शायतनाना तत उत्पत्ते । मनोधातुरपि
मूलसत्त्वम्; मनःस्पर्शायतनस्य तत उत्पत्ते । अथ वा—चतुर्णां पृथिवीधात्वा-
दीनामुपादायरूपाश्रयत्वात्, विज्ञानधातोश्च चैतसिकानामाश्नयत्वात् त एव
मूलसत्त्वम् ।
' कथं गम्यते ? पुनः षट्स्पर्शायतनवचनात् । तत्रैव सूत्रे पश्चादुक्तम्—"षड्
स्पर्शायतनानि' इति । चक्षु.स्पर्शायतनं यावन्मनःस्पर्शायतनमिति । अतो

९४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे
न च युक्त—‘चित्तमेव चैत्ता.’ इत्यभ्युपगन्तुम्¹; “संज्ञा च वेदना च चैत-
सिक एष धर्मश्चित्तान्वयाच्चित्तनिश्रितः” ( ) इति सूत्रवचनात्²,
सरागादिचित्तादिवचनाच्च । तस्माद् यथोक्तं धातूनां भूतमौतिकत्वम् ॥
कति सञ्चिताः ? कत्यसञ्चिताः ?
सञ्चिता दश रूपिणः ॥ ३५ ॥
विज्ञायते—मूलसत्त्वद्रव्यसन्दर्शना॑र्थत्वात् ‘षड्धातुरयं भिक्षो पुरुष.’ इति
वचनम्, न तु भूतमात्रत्वादिति । ननु च यथा विज्ञानधातोरव्यतिरिक्तमपि
मनःस्पर्शायतनं पुनरुच्यते, एवं चक्षुरादीन्यपि चतुर्धात्वव्यतिरिक्तानि पुन-
रुच्येरन्निति, अतो न पुनः षट्स्पर्शायतनवचनेन तद्व्यतिरिक्तभौतिकास्तित्व-
सिद्धि. ? नैतदेवम्, यदि हि पृथिवीधात्वादय एव स्पर्शायतनान्यभविष्यन्,
भूतान्येव स्पर्शायतनानीत्येवावक्ष्यत् । न त्वेवम्, किं तर्हि ? चक्षु स्पर्शायतनं
यावन्मन स्पर्शायतनमिति । अतोऽवगम्यते—पृथिवीधात्वादिव्यतिरिक्तानि
चक्षुरादीनीति । विज्ञानधातुस्तु चक्षुरादिस्पर्शायतनवचनानुषङ्गेण पुनरुच्यते ।
स्पर्शायतनमिति कोऽर्थः ? स्पर्शस्य चैतसिकस्याश्रय इत्यर्थः ।
चैत्ताभावप्रसङ्गाच्चेति । यदि “षड्धातुरयं भिक्षो पुरुष ” इति यथाभूतमेव
द्रव्याणि गृह्येरन्, नान्यानि तदाश्रितानि द्रव्याणि, तेनैतत् प्राप्तम् । विज्ञानधातु-
मात्रग्रहणादत्र चैतसिकाना तदाश्रितानामग्रहणप्रसङ्ग । इष्टत्वाददोष इति
चेत् ? न, सापक्षालत्वादस्य पक्षस्य । सापक्षालो ह्ययं पक्ष—‘चित्तविशेषा
एव चैतसिका.’ इति, स्वसिद्धान्तविरोधात् ।
तेनाह—न च युक्तं चित्तमेव चैत्ता इत्यभ्युपगन्तुम् । कस्मात् ? संज्ञा च
वेदना च चैतसिक एष धर्मश्चित्तनिश्रित इति सूत्रवचनात् । साधनं चात्रोप-
तिष्ठते—‘चित्तादर्थान्तरभूते संज्ञावेदने, स्कन्धदेशनाया पृथग्देशितत्वात्,
रूपस्कन्धवद्’ इति । अथ वा—‘स्वाश्रयादर्थान्तरभूते संज्ञावेदने, तदाश्रितत्वात्,
यत् स्वाश्रयाश्रितं तत् स्वाश्रयादर्थान्तरभूतम्, तद्यथा कुड्याश्रितं चित्रम्’ ।
सरागादिचित्तवचनाच्चेति । “सरागं चित्तं सरागं चित्तमिति यथाभूतं
प्रजानाति । विगतरागं चित्तं विगतरागं चित्तमिति यथाभूतं प्रजानाति ।
सदोषं चित्तं सद्वेषं चित्तमिति यथाभूतं प्रजानाति” इति ( )
विस्तरः । अत्र साधनम्—‘सरागं चित्तमिति चित्तरागयो परस्परतोऽर्थान्तर-
त्वम्, सहयोगनिर्दिष्टत्वात्, सपुत्रश्चैत्र इति सहयोगनिर्दिष्टचैत्रपुत्रवद्’ इति ॥
१. ०भ्युपेतुम्—का० । २. सूत्रे वचनात्—का० ।

निर्देशः ] प्रथमं कोशस्थानम् ९५
पञ्चेन्द्रियधातवः, पञ्च विषयाः—सञ्चिताः । परमाणुसङ्घातत्वात् । शेषा
न सञ्चिता इति सिद्धं भवति ॥ ३५ ॥
अष्टादशानां धातूनां कश्छिनत्ति, कश्छिद्यते, को दहति, को दह्यते,
कस्तुलयति, कस्तुल्यते ?
छिनत्ति च्छिद्यते चैव बाह्यं धातुचतुष्टयम् ।
रूपगन्धरसस्प्रष्टव्याख्यं परशुदार्वादिसंज्ञकम् ।
छेदो नाम क एष धर्मः ? सम्बन्धोत्पादिनः सङ्घातस्रोतसो विभक्तोत्पाद-
नम् । न कायेन्द्रियादीनि छिद्यन्ते; निरवशेषाङ्गच्छेदे तदद्वैधीकरणात् । न
हीन्द्रियाणि द्विधा भवन्ति; छिन्नस्याङ्गस्य निरिन्द्रियत्वात् ।
"सञ्चिता दश" इति । परमाणूसञ्चयस्वभावा दशैवेत्यर्थः । अन्ये तु
धातवोऽस्मादवधारणान्न सञ्चिता इति सिद्धम् ॥ ३५ ॥
तुलयतीति कस्य धातोरतद्रूपम्, तथा हि "तुल उन्माने" (मा० धा० चु०
५४) इत्यस्य धातोस्तोलयतीति रूपं भवति ? नैष दोषः, तुलां करोति तुलयतीति
प्रातिपदिकधातोरतद्रूपमिष्यते । कर्मणि च तुल्य इति रूपं भवति ।
"बाह्यं धातुचतुष्टयम्" इति । रूपादिकं शब्दवर्ज्यम् । परशुदार्वादिसंज्ञक-
मिति । परश्वादिसंज्ञकम् ।
"छिनत्ति" दार्वादिसंज्ञकम् । "छिद्यते" सम्भवे प्रत्येवमुच्यते । कदाचित्
परश्वादिसंज्ञकं छिद्यते, दार्वादिसंज्ञकमपि छिनत्ति ।
सम्बन्धोत्पादिन इति विस्तरः । सम्बन्धेनाविभागेनोत्पत्तुं शीलमस्येति
सम्बन्धोत्पादि । सङ्घातस्रोतः । रूपादिसङ्घातसन्तान इत्यर्थः । तस्य विभक्तो-
त्पादनं विभक्तजननं यत् स छेदः । क्षणिकानां हि भावानां विनापि परश्वा-
दिना छेदो भवत्येव । सन्ताननिरोधस्तु परश्वादिनेति परश्वादिकं छिनत्ती-
त्युच्यते । कारणसामग्रीविशेषवशाद्धि कार्यविशेषोत्पत्तिर्भवति । तत्र धातु-
चतुष्टयमेव छिनत्ति छिद्यते चेत्यवधार्यते । तथावधारणाच्चान्ये धातवो नोभय
थेति सिद्धम् । अत एव चाह—न कायेन्द्रियादीनि छिद्यन्त इति । विस्तर.—
अत्र न चक्षुरिन्द्रियादीनीति वक्तव्ये कस्मात् कायेन्द्रियादीनीति वचनम् ?
यस्मात् कायेन्द्रिये परिस्फुटच्छेदो भवति, यदि भवेदित्यतः कायेन्द्रियपुरःसरा-
णीन्द्रियाणि कथ्यन्ते । निरवशेषाङ्गच्छेदे सर्वाङ्गप्रत्यङ्गच्छेदे । तदद्वैधीकरणात् तेषां
कायेन्द्रियादीनामद्वैधीकरणात् । कथं पुनर्गम्यते तदद्वैधीकरणमिति ? अतः
पुनराह—न हीन्द्रियाणि द्विधा भवन्ति । छिन्नस्याङ्गस्य कायादपगतस्य निरि
न्द्रियत्वात् । इदमपि कथं गम्यते—निरिन्द्रियं तदङ्गं यच्छिन्नं कायादपगत

९६ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
न चापि च्छिन्दन्ति, मणिप्रभावदच्छत्वात् ।
यथा छिनत्ति छिद्यते चैव बाह्यं धातुचतुष्टयम्,
दह्यते तुलयत्येवं,
तदेव दह्यते, तदेव तुलयति । नेन्द्रियाणि; अच्छत्वात्, मणिप्रभावत् ।
न शब्दः; उच्छेदित्वात् ।
विवादो दग्धृतुल्ययोः ॥ ३६ ॥
केचिदाहुः—तदेव धातुचतुष्टयं दाहकं तुल्यं च । केचिदाहुः—
तेजोधातुरेव दग्धा गुरुत्वमेव च तुल्यमिति ॥ ३६ ॥
मिति ? यस्मात् तत्प्रतीत्य स्प्रष्टव्यादिकं च कायादिविज्ञानानुपपत्तिः । कथं
तर्हि छिन्नेन पुनर्लग्नेन नासिकाग्रेण कायविज्ञानोत्पत्तिः ? नासिकामूलसम्बन्धेन
पुनः कायेन्द्रियोत्पत्तेरदोष । कथमिह गृहगोधिकादीना पुच्छानि छिन्नानि
स्पन्दन्ते, यदि तत्र कायेन्द्रियं नास्ति ? वायुधातोरेष विकार., नेतत्
कायेन्द्रियस्य कर्मेत्यवगन्तव्यम् । न चापि छिन्दन्ति मणिप्रभावदच्छत्वात् । यथा
मणिप्रभा न छिनत्ति, अच्छत्वात्, तद्वदिन्द्रियाणि ।
"दह्यते तुलयत्येवम्” इति । एवम्-शब्देन तदेव बाह्यं धातुचतुष्टयं
तथात्वेन प्रदर्श्यते । काष्ठादीनामग्निकृतो विकार.=दाह । स चेन्द्रियाणां न
भवति; मणिप्रभावदच्छत्वात् । न हि तानि काष्ठादिवच्चर्मादिवद्वा विक्रियन्ते ।
किं तर्हि ? तत्सम्बन्धात् प्रवाहच्छेदो भवति । तुलादिभूतं च तदेव धातुचतुष्टयं
तुलयति, नेन्द्रियाणि, तथैवाच्छत्वात् । अमूर्तानां तु धातूनाममूर्तत्वादेव छेदा-
द्यसम्भव इति तेषा छेदादि न चिन्त्यते । न शब्द उच्छेदित्वादिति । किञ्च ?
छिनत्ति छिद्यते, दह्यते तुलयति वा, अप्रवाहवर्तित्वात् ।
“विवादो दग्धृतुल्ययोः” इति । उत्तरत्रापीदमनुवर्तते—न शब्द उच्छेदित्वा-
दिति । तदेव धातुचतुष्टयं दाहकं तुल्यं चेति । अग्निक्षारादि दाहकम्, समस्त-
स्यात्र धातुचतुष्टयस्य भस्मादिविकारहेतुत्वात् । लवणादि तुल्यम् । तत्रापि
समस्तस्य तुलावन्नतिहेतुत्वादित्येकेषामभिप्रायः ।
तेजोधातुरेव दग्धा गुरुत्वमेव च तुल्यमिति । तेजोधातुरेवाग्निज्यालादिगन्न
उद्भूतवृत्तिर्वहति, पृथिवीधात्वादीनामुद्भूतस्ववृत्तित्वेऽप्यदाहकत्वदर्शनात् ।
गुरुत्वमेव चोपादाय रूपमुद्भूतवृत्ति तुल्यते; आतपादिक्षु लघुद्रव्येषु रूपादीना-
मुद्भूतवृत्तित्वेऽप्यतुल्यत्वदर्शनात् ॥ ३६ ॥

निर्देशः ] प्रथमं कोशस्थानम् ९७
कति विपाकजाः धातवः ? कत्यौपचयिकाः ? कति नैःष्यन्दिका ? कति
द्रव्ययुक्ताः ? कति क्षणिका ? आह—
विपाकजौपचयिकाः पञ्चाध्यात्मम्,
अध्यात्मं तावत् पञ्च धातवः चक्षुरादयो विपाकजाश्चौपचयिकाश्च ।
नैःष्यन्दिका न सन्ति, तद्व्यतिरिक्तनिष्यन्दाभावात् ।
तत्र विपाकहेतोर्जाताः विपाकजाः । मध्यपदलोपात् गोरथवत् । फलकाल-
प्राप्तं वा कर्म 'विपाकः' इत्युच्यते, विपच्यत इति कृत्वा, तस्माज्जाता विपा-
कजाः । फलं तु विपाक्तिरेवेति विपाकः । भवतु वा¹ हेतौ¹ फलोपचार , यथा
फले हेतूपचार.—“षडिमानि स्पर्शायतनानि पौराणं कर्म वेदितव्यम्” (
) इति ।
“पञ्चाध्यात्मम्” इति । पञ्च-ग्रहणं मनोनिवृत्त्यर्थम् । अध्यात्मग्रहणं रूपा-
दिनिवृत्त्यर्थम् ।
विपाकजौपचयिकाः एव पञ्चाध्यात्मिका न नैष्यन्दिका इत्यवधारणम् ।
कस्मात् ? तद्व्यतिरिक्तनिष्यन्दाभावान् । विपाकजा औपचयिकाश्च यद्यपि नैष्य-
न्दिका भवन्ति, “निष्यन्दो हेतुसदृश'' ( अभि० को २ ५८ ) इति कृत्वा ।
ते तु विपाकजौपचयिकत्वेनैव संगृहीतत्वान्न नैष्यन्दिका इति गृह्यन्ते । य तु
स्वहेतुसदृशा न च विपाकजा न चौपचयिका., त इह नैष्यन्दिका अभिप्रेता ।
न चैवंविधाश्चक्षुरादयो भवन्ति, किं तर्हि ? विपाकजा वा औपचयिका वा
भवन्तीत्यत एवमुच्यते—तद्व्यतिरिक्तनिष्यन्दाभावादिति । कथं पुनज्ञायते—
नैष्यन्दिकास्ते न सन्तीति ? मृतस्याननुवृत्ते । न हि रूपादिवन्मृतस्य चक्षु-
र्धात्वादयोऽनुवर्तन्ते ।
विपाकहेतोर्जाता इति । विपाकस्य फलस्य हेतुर्विपाकहेतुः, विपाकहेतो-
र्जाता विपाकजा । मध्यपदलोपाद्धेतुशब्दलोपात् । गोरथवत् । यथा गोभिर्युक्तो
रथो गोरथ इति । फलकालप्राप्तं वा कर्मेति । विपाकफलोत्पत्त्यनन्तरक्षणावस्थ-
मित्यर्थः । विपच्यत इति विपाकः । कमकर्तरि घञ् । विपाकाज्जाता विपाकजा ।
फल तु विपाक्तिरेवेति विपाक इति भावे घञ् । भवतु वा हेतौ फलोपचार इति ।
विस्तर.—अविपाकस्वभावोऽपि कर्मलक्षणो हेतुर्विपाक इत्युच्यते, तदुत्पाद
कत्वात् । यथा फले हेतूपचार इति । विस्तर —षडिमानि स्पर्शायतनानि चक्षुरा-
दीनि पौराणं कर्म । पुराणे जन्मनि भवं पुराणमेव वा पौराणं कर्म । तानि
१-१. फलहेतौ—का० ।
अभि० को० ७

९८ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
आहारसंस्कारस्वप्नसमाधिविशेषैरुपचिता औपचयिकाः । ब्रह्मचर्येण चेत्येके ।
अनुपघातमात्रं तु तेन स्यात्, नोपचयः । विपाकसन्तानस्योपचयसन्तानः
प्रतिप्राकार इवारक्षा ।
शब्द औपचयिको नैःष्यन्दिकश्चास्ति ।
विपाकजः ।
न शब्दः,
किं कारणम् ? इच्छात्तः१ प्रवृत्तेः ।
यत्तर्हि प्रज्ञप्तिशास्त्रे उक्तम्—"पारुष्यविरतेः सुभावितत्वाद् ब्रह्मस्वरता
स्पर्शायतनान्यपौराणकर्मस्वभावान्यपि पौराणं कर्मेत्युच्यन्ते, तज्जातत्वात् ।
एवमिह विपर्ययोपचारो द्रष्टव्यः ।
आहारसंस्कारस्वप्नसमाधिविशेषैरुपचिता औपचयिका इति । विशेषशब्द
प्रत्येकमभिसम्बध्यते । तत्राहारस्वप्नौ लोके प्रतीतौ, संस्कारोऽभ्यङ्गस्नानानु-
वासनादिस्वभावः, समाधिश्चित्तैकाग्रतालक्षणः । समीपे चय उपचयः, उपचये
भवा औपचयिकाः, सैनिकवत् । उपचया एव वा औपचयिकाः, वैनयिकवत्,
स्वार्थे तद्धितविधानात् । ब्रह्मचर्येण चेत्येक इति । ब्रह्मचारिणामुपशान्तेन्द्रियाणां
शरीरोपचयदर्शनात् । अनुपघातमात्रं तु तेन स्यादिति । अब्रह्मचर्येण शरीरा-
पचयः । ब्रह्मचर्येण तु शरीरापचयो न भवति । तस्मादाह—अनुपघातमात्रं
तु तेन ब्रह्मचर्येण स्यात्, नोपचयः । उपचयस्त्वाहारादिभिरेव । कस्मात्
तर्हि प्रव्रजिताना केषाञ्चिच्छरीरापचयो भवति ? कामपरिदाहादियोगादसौ
भवेत् । प्रतिप्राकार इवारक्षेति । उपचयसन्तानो विपाकसन्तानस्य परिवार्या-
वस्थानेनारक्षा ।
शब्द औपचयिक इति । अनुपचितकायस्य शब्दसौष्ठवादर्शनात् ।
इच्छात्तः प्रवृत्तेरिति । 'शब्दो मे स्यात्' इतीच्छया शब्दः प्रवर्तते, अनिच्छया
न प्रवर्तते । विपाकजश्च धर्मोऽनिच्छतोऽपि प्रवर्तते । तस्मान्न विपाकजः शब्दः ।
साधनं चात्रोच्यते—'न विपाकजः शब्दः, इच्छात्तः प्रवृत्तेः, योनिशो मनसि-
कारचैतसिकवत् । यत्तु विपाकजं न तस्येच्छया प्रवृत्तिः, तद्यथा—चक्षुरिन्द्रि-
यस्य' इति ।
यत्तर्हीति विस्तरः । अनेन स्वसिद्धान्तविरुद्धता प्रतिज्ञाया उद्ग्राहयति ।
१. इच्छातः—का० ।

निर्देश: ] प्रथमं कोशस्थानम् ९९
महापुरुषलक्षणं निर्वर्तते" ( ) इति ? तृतीयाऽसौ पर-
म्परेत्येके—कर्मभ्यो हि भूतानि, भूतेभ्यः शब्दः इति। पञ्चम्यसौ परम्परे-
त्यपरे—कर्मभ्यो¹ विपाकजानि भूतानि², तेभ्यश्चौपचयिकानि, तेभ्यो
नैःष्यन्धिकानि, तेभ्यः शब्द इति।
एवं तर्हि शारीरक्यपि वेदना कर्मजभूतसम्भूतत्वान्न विपाकजा³ स्यात्³ ?
यदि शब्दवद् युक्तिविरोधः स्यात्।
अप्रतिघा अष्टौ नैःष्यन्दिकविपाकजाः ॥ ३७ ॥
कतमेऽष्टौ ? सप्त चित्तधातवः, धर्मधातुश्च। नैःष्यन्दिकाः सभाग-
सर्वत्रगहेतुजनिताः।
विपाकजा विपाकहेतुजनिताः। नहि⁴ ते औपचयिकाः, सञ्चयभावात्⁴ ३७
तृतीयासौ परम्परेत्येक इति विस्तरः। भूतानि पारुष्यविरतेः कर्मपथस्य कण्ठे
विपाकस्वभावानि निर्वर्तन्ते, तेभ्यः शब्दः।
द्वितीयेऽपि पक्षे—कर्मभ्यो विपाकजानि भूतानि। तेभ्य_औपचयिकानि।
आहारोपचयतः समाध्युपचयतो वा भूतान्तराणि। तेभ्यो नैष्यन्धिकानि।
पूर्वभूतव्यतिरिक्तान्यागन्तुकानि भूतानि। तेभ्यः शब्द इति। अतो न विपाकजः
शब्द इति। परम्पराभिनिर्वर्तनं त्वभिसन्धाय "पारुष्यविरतेर्ब्रह्मस्वरता
निर्वर्तते" इत्युक्तम्। अनेन स्वसिद्धान्तविरुद्धता तस्याः प्रतिज्ञायाः परिह्रियते।
यदि शब्दवद् युक्तिविरोधः स्यादिति। 'शब्द इच्छातः प्रवर्तते' इति विपाक-
युक्तिविरोधान्न विपाकज उक्तः। तद् यदि तद्वच्छारीरक्यपि वेदना इच्छातः
प्रवर्तते, न विपाकजा स्यात्। न त्विच्छातः सा प्रवर्तते, किं तर्हि ? अनिच्छ-
यापि सा प्रवर्तते चक्षुरादिवत्। तस्माद् विपाकजेति युज्यत इत्यभिप्रायः।
कीदृशी पुनः सा ? या सुखदुःखप्रत्ययोपसंहारमन्तरेणापि प्रवर्तते।
नैष्यन्दिकाः सभागसर्वत्रगहेतुजनिता इति। सभागसर्वत्रगहेतुभिरेव जनिता,
न विपाकहेतुनेत्यवधारणम्। विपाकजा विपाकहेतुजनिता इति। विपाकहेतुना
जनिता एव। न तु विपाकहेतुनैव जनिता इत्यवधारणम्। सभागहेतुनापि
जनिता विपाकजा भवन्ति। तत्र चाष्टावप्रतिघा नैष्यन्दिका विपाकजा एवेत्य-
वधार्यन्ते। न हि त औपचयिकाः सञ्चयाभावात्। अपरमाणुसञ्चयस्वभाव-
त्वादित्यर्थः ॥ ३७ ॥
१. कर्मभ्यो हि—का० । २. महाभूतानि—का० । ३-३. विपाकः प्राप्नोति—का० ।
४-४. औपचयिका न सन्त्यप्रतिघानां सञ्चयाभावात्—का० ।

१०० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
त्रिधाऽन्ये,
अन्ये चत्वारः शेषा रूपरसगन्धस्प्रष्टव्यधातवः । ते विपाकजा अपि, औप-
चयिका अपि, नैःष्यन्दिका अपि ।
द्रव्यवानेकः,
असंस्कृतं हि सारत्वाद् द्रव्यम् । तच्च धर्मधातावस्ति, अतो धर्मधातुरेको
द्रव्ययुक्तः ।
क्षणिकाः पश्चिमास्त्रयः ।
मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च पाठक्रमेण पश्चिमाः । ते प्रथमानास्रवे
दुःखे धर्मज्ञानक्षान्तिकलापे क्षणमेकमनैःष्यन्दिका भवन्ति, अतः क्षणिका इत्यु-
च्यन्ते। अन्यसम्भूतसंस्कृतो नास्ति कश्चिदनैःष्यन्दिकः। तत्र दुःखे धर्मज्ञानक्षान्ति-
सम्प्रयुक्तं चित्तं मनोधातुः, मनोविज्ञानधातुश्च । शेषास्तत्सहभुवो धर्मधातुः ॥
त्रिधान्ये इति । त्रिधैवान्य अन्य एव त्रिधेत्यवधार्यते । तत्र विपाकजा
इन्द्रियाविनिर्भागिण एव । "विपाकोऽव्याकृतो धर्म, सत्त्वाख्य" ( अभि० को०
२।५१) इति वचनात् । नैष्यन्दिकौपचयिकास्त्विन्द्रियविनिर्भागिणोऽपि । कथं
पुनर्गेम्यते—इन्द्रियविनिर्भागिणोऽपि नैष्यन्दिका. सन्तीति ? मृतस्यापि तदनु-
वृत्तिदर्शनात् । न ह्यसत्त्वसंख्याता विपाकजा इष्यन्ते ।
“द्रव्यवानेकः” इति । एक एव द्रव्यवानित्यवधारणम् । सारत्वाद् द्रव्य-
मिति । अविनाशात् ।
क्षणमेकमनैष्यन्दिका भवन्तीति । क्षणमेकमसभागहेतुनिर्वर्तिताः । पूर्वक्षणा-
नास्रवाभावात् क्षणिका , न तु क्षणान्तरविनाशिन इत्ययमर्थोऽभिप्रेतः ।
अन्यथा, हि 'पश्चिमा एव धातव. क्षणिका' इत्यवधारणात् तदितरेषा धातू-
नामक्षणिकत्वप्रसङ्गः । कथं पुनर्दुःखधर्मज्ञानक्षान्तिकलापे मनोधातुर्मनोविज्ञान-
धातुश्च युगपद्भवत., न हि विज्ञानद्वयसमवधानमिष्यते ? नोच्यते—युगपत्तौ
भवत इति, किं तर्हि ? एकमत्र विज्ञानं धातुद्वयत्वेन व्यवस्थाप्यते । नाम-
द्वयेन कथ्यत इत्यर्थ तेन व्याचष्टे—दुःखधर्मज्ञानक्षान्तिसम्प्रयुक्तं चित्तं मनो-
धातुर्मनोविज्ञानधातुश्चेति । शेषास्तत्सहभुवो धर्मधातुरिति । तत्र क्षान्तिकलापे
चित्तादन्ये धर्माः शेषाः । तत्सहभुव. तया क्षान्त्या सहभुवः । तद्यथा—
अनास्रवसंवरो रूपम् । वेदनासंज्ञाचेतनादयः सम्प्रयुक्ता. । तेषां च प्राप्तिजात्या-
दयो धर्मधातुरिति ।

निर्देशः ] प्रथमं कोशस्थानम् १०१
इदं विचार्यते—यश्चक्षुर्धातुनाऽसमन्वागतः समन्वागमं प्रतिलभते चक्षु-
र्विज्ञानधातुनापि सः ? यो वा चक्षुर्विज्ञानधातुना चक्षुर्धातुनापि सः ? आह—
चक्षुर्विज्ञानधात्वोः स्यात् पृथग् लाभः सहापि च ॥ ३८ ॥
पृथक् तावत् स्याच्चक्षुर्धातुना, न चक्षुर्विज्ञानधातुना । कामधातौ क्रमेण
चक्षुरिन्द्रियं प्रतिलभमानः । आरूप्यधातुच्युतश्च द्वितीयादिषु ध्यानेषूपपद्यमानः ।
स्याच्चक्षुर्विज्ञानधातुना, न चक्षुर्धातुना । द्वितीयादिध्यानोपपन्नश्चक्षुर्विज्ञानं
सम्मुखीकुर्वाणस्ततश्च्युतश्चाधस्तादुपपद्यमानः ।
समन्वागमं प्रतिलभत इति । प्राप्तिमलब्धपूर्वां लभत इत्यर्थः । चक्षुर्विज्ञान-
धातुनापि स इति । किम् ? समन्वागमं प्रतिलभत इत्यधिकृतम् ।
“पृथग्लाभः” इत्यनेन प्रथमद्वितीये कोट्यौ दर्शिते । “सहापि च” इत्यनेन
तृतीया कोटिर्दर्शिता । चतुर्थी तूक्तनिर्मुक्तेति सुगमत्वान्न दर्शिता । चशब्देन
वा साप्युक्ता—अपृथक्सह चेति ।
कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमान इति । कामधातौ स्थित पुद्गल
क्रमेण कललादिक्रमेण मृत्युक्रमेण वा चक्षुरिन्द्रियं लभते । किंप्रतिसंयुक्तं किं
कामधातावेव ? नेत्युच्यते, अविशेषेण कामप्रतिसंयुक्तं वा रूपप्रतिसंयुक्तं वा
प्रतिलभमानः । कललाद्यवस्थाया तथा क्रमेण मरणस्याचक्षुष्मन्मरणस्य च
काले चक्षुर्धातुनाऽसमन्वागतः ; कललाद्यवस्थाया तथा मरणावस्थाया वा
तदभावात् । षडायतनोत्पत्त्यवस्थाया भवस्यान्तराले वा तेनेदानीं समन्वागमं
प्रतिलभते । न तु चक्षुर्विज्ञानधातुनाऽसमन्वागत समन्वागमं प्रतिलभते,
यस्मादसौ कुशलक्लिष्टेन तेनातीतानागतेन समन्वागत एव पूर्वमन्तराभव-
प्रतिसन्धिकाले । विप्रकृतावस्था ह्येषाधिक्रियते, न प्रतिलब्धवत्प्रतिलप्स्य-
मानावस्था ।
चक्षुर्विज्ञानधातुनेति विस्तरः । द्वितीयादिध्यानोपपन्नः । तत्र तस्य चक्षु-
र्विज्ञानधातोरभावात् तेन पूर्वमसमन्यागत इदानीं चक्षुर्विज्ञानं प्रथमध्यान-
भूमिकमनिवृताव्याकृतस्वभावं सम्मुखीकुर्वाणः । तेन चक्षुर्विज्ञानधातुना समन्वा-
गमं प्रतिलभते । न तु चक्षुर्धातुनाऽसमन्वागतः समन्वागमं प्रतिलभते; प्रति-
लब्धवत्समन्यागतत्वात् । ततश्च्युतश्चाधस्तादुपपद्यमान इति । द्वितीयादिध्यान-
प्रच्युतोऽधस्तात्प्रथमे ध्याने कामधातौ चोपपद्यमानश्चक्षुर्विज्ञानधातुनाऽसमन्वा-

१०२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ धातु-
सहापि स्यादुभयेन समन्वागमं प्रतिलभते । आरूप्यधातुच्युतः कामधातौ
ब्रह्मलोके चोपपद्यमानः ।
नोभयेन एतानाकारान् स्थापयित्वा । यश्चक्षुर्धातुना समन्वागतश्चक्षुर्विज्ञान-
धातुनाऽपि सः । चतुष्कोटिकः ।
प्रथमा कोटिर्द्वितीयादिषु ध्यानेषूपपन्नश्चक्षुर्विज्ञानासम्मुखीकुर्वाणः ।
द्वितीया कामधातावलब्धविहीनचक्षुः ।
गत समन्वागमं प्रतिलभतेऽन्तराभवप्रतिसन्धाने कुशलक्लिष्टेन अतीतानागतेन,
न तु चक्षुर्धातुनाऽसमन्वागत. समन्वागमं प्रतिलभते, प्रतिलब्धवत्समन्वा-
गतत्वात् ।
स्यादुभयेनेति विस्तरः । आरूप्यधातुच्युतः उभाभ्यां चक्षुर्धातुचक्षुर्विज्ञान-
धातुभ्यां पूर्वमसमन्वागत अन्तराभवप्रतिसन्ध्यवस्थायामेव चक्षुर्धातुनोत्पादा-
भिमुखेन चक्षुर्विज्ञानधातुना च कुशलक्लिष्टेनातीतानागतेन समन्वागमं प्रति-
लभते । अविकलेन्द्रिया ह्यन्तराभविकाः ।
नोभयेन एतानाकारान् स्थापयित्वेति । कोटित्रयोक्तान् धर्मप्रकारान् त्यक्त्वे-
त्यर्थः । आरूप्यधातुच्युतस्तत्रैवोत्पद्यमानो नोभाभ्यामसमन्वागत. समन्वागमं
प्रतिलभते । असमन्वागतत्वं तत्रास्ति, न तु समन्वागमप्रतिलम्भः । द्वितीया-
दिध्यानोपपन्नश्च चक्षुर्विज्ञानमसम्मुखीकुर्वाणो नोभाभ्यामसमन्वागत. समन्वा-
गमं प्रतिलभते । कथम् ? चक्षुर्धातुना यद्यपि समन्वागमं प्रतिलभते न तु चक्षु-
र्धातुना असावसमन्वागतः, चक्षुर्विज्ञानधातुना यद्यप्यसावसमन्वागतो न तु
समन्वागमं प्रतिलभते, तदससम्मुखीकुर्वाणत्वात् । चक्षुष्मान् कामधातुस्थः
सकृन्मरणादन्तराभवप्रतिसन्धौ नोभाभ्यामसमन्वागत समन्वागमं प्रतिलभते;
ताभ्यां समन्वागतत्वात् । यश्च चक्षुर्धातुना समन्वागतश्चक्षुर्विज्ञानधातुनापि स
इति । "पृथग्लाभः सहापि च" इत्यनेनैव सूत्रेणेदमपि चतुःकोटिकं वर्तयति ।
लाभो हि प्रतिलम्भः, प्राप्तिमात्रेऽपि विवक्षया कदाचिद्भवति । प्रथमे चतु-
ष्कोटिके प्रतिलम्भोऽधिकृतः, द्वितीये तु प्राप्तिमात्रम् ।
प्रथमा कोटिरिति । विस्तर—द्वितीयादिध्यानोपपन्नोऽवश्यं चक्षुर्धातुना
समन्वागतः; इन्द्रियैरविकलत्वात् । चक्षुर्विज्ञानधातुनात्रासमन्वागतः; तत्रा-
भावात् । प्रथमध्यानभूमिकस्य चक्षुर्विज्ञानस्यासम्मुखीक्रियमाणत्वात् ।
कामधातावलब्धविहीनचक्षुरिति । अलब्धं विहीनं वा चक्षुरस्यालब्धविहीन-
चक्षुः । अलब्धचक्षु. कललाद्यवस्थः, विहीनचक्षुः विनष्टचक्षुः । स कामधातौ

"
Wait, "प्रतिलभमान ।" (no visarga).
Then single quote: 'स्याद्

Line 21:
"रूपधातुना न चक्षुर्धातुना' इति इयं कोटिर्नास्ति । सहापि स्यात् । उभयेना-"

Line 22:
"समन्वागतः समन्वागमं प्रतिलभते, आरूप्यधातोश्च्युतो रूपधातौ कामधातौ"

Line 23:
"चोपपद्यमान । नोभयेनेतानाकारान् स्थापयित्वा । यश्चक्षुर्धातुना समन्वा"
Wait, at the end of line 23: "समन्वा" without hyphen, wraps to "गतो" on line 24.
And "चोपपद्यमान ।" - no visarga.

Line 24:
"गतो रूपधातुनापि स-इति पूर्वपादक. । यस्तावच्चक्षुर्धातुना समन्वागतो"
Wait, "स-इति पूर्वपादक. ।" -> hyphen between स and इति! And dot after पूर्वपादक.

Line 25:
"रूपधातुनापि सः । स्याद् रूपधातुना न चक्षुर्धातुना कललाद्यवस्थास्वलब्ध-"

Line 26:
"चक्षुर्लब्धविहीनचक्षुश्च । यश्चक्षुर्विज्ञानधातुनाऽसमन्वागत. समन्वागमं

१०४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ धातु-
कत्याध्यात्मिका धातवः ? कति बाह्याः ?
द्वादशाध्यात्मिकाः,
कतमे द्वादश ?
हित्वा रूपादान् ,
षड् विज्ञानानि षडाश्रयाः—इत्येते द्वादश धातव आध्यात्मिकाः ।
रूपादयस्तु षड् विषयधातवो बाह्याः ।
आत्मन्यसति कथमाध्यात्मिकम् ? बाह्यं वा ? अहंकारसंनिश्रयत्वाच्चित्तम्
'आत्मा' इत्युपचर्यते ।
“आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डित” ( )
इत्युक्तम् । चित्तस्य चान्यत्र दमनमुक्तं भगवता—
“चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्” इति ।
द्वितीयादिषु ध्यानेषूपपद्यमानः । सहापि स्यात्—उभयेनासमन्वागत समन्वागमं
प्रतिलभते, आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोत्पद्यमानः । नोभयेन
एतानाकारान् स्थापयित्वा—यश्चक्षुर्विज्ञानधातुना समन्वागतो रूपधातुनापि
सः । यो वा रूपधातुना चक्षुर्विज्ञानधातुनापि सः पूर्वपादक । यस्तावच्चक्षु-
र्विज्ञानधातुना समन्वागतो रूपधातुनापि सः । स्याद् रूपधातुना न
चक्षुर्विज्ञानधातुनापि । द्वितीयादिध्यानोपपन्नश्चक्षुर्विज्ञानमसंमुखीकुर्वाणः ।
यथा चेयं चक्षुर्विज्ञानरूपधातूना प्रतिलम्भसमन्वागमचिन्ता, तथा श्रोत्र-
विज्ञानशब्दधातवादीनामपि प्रतिलम्भसमन्वागमचिन्ता कर्तव्या—श्रोत्रविज्ञान-
धात्वोः स्यात्पृथग्लाभः सहापि चेत्यादि ॥ ३८ ॥
“द्वादशाध्यात्मिकाः” इति । उभयावधारणम् । अवधारणादेव चान्ये
रूपादयो बाह्या इति सिद्धम् । आत्मनि अधि अध्यात्मम् । अधि आत्मानमिति
वा अध्यात्मम् । अध्यात्ममेवाध्यात्मिका । अध्यात्मं वा भवा आध्यात्मिकाः ।
अहङ्कारसंनिश्रयत्वाच्चित्तमात्मेत्युपचर्यत इति । “अहङ्कारसंनिश्रय आत्मा’
इत्यात्मवादिनः सङ्कल्पयन्ति । चित्तं चाहङ्कारनिश्रय इति ‘आत्मा’ अप्युपचर्यते ।
कथम् ? इत्याह—आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः (
) इत्युक्तं गाथायाम् । कथं पुनर्गम्यते—‘चित्तमात्मशब्देनोच्यते’ इति ?
तत आह—चित्तस्य चान्यत्र दमनमुक्तं भगवतेति । अन्यत्र गाथायामुक्तम्—

निर्देशः ] प्रथमं कोशस्थानम् १०५
अत आत्मभूतस्य चित्तस्याश्रयभावेन प्रत्यासन्नत्वात् चक्षुरादीनामाध्यात्मि-
कत्वम्, रूपादीनां विषयभावाद् बाह्यत्वम् ।
एवं तर्हि षड् विज्ञानधातव आध्यात्मिका न प्राप्नुवन्ति, न ह्येते मनो-
धातुत्वमप्राप्ताश्चित्तस्याश्रयीभवन्ति ? यदा तदा त एव ते भवन्तीति लक्षणं नाति-
वर्तन्ते । अन्यथा हि मनोधातुरतीत एव स्यान्नानागतप्रत्युत्पन्नः । इष्यन्ते
चाष्टादश धातवस्त्रैयध्विकाः ।
यदि चानागतप्रत्युत्पन्नस्य¹ विज्ञानस्य मनोधातुलक्षणं न स्यात्, अतीते-
ऽप्यध्वनि मनोधातुर्न व्यवस्थाप्येत । नहि लक्षणस्याध्वसु व्यभिचारोऽस्तीति ॥
कति धातवः सभागाः ? कति तत्सभागाः ? एकान्तेन तावत्—
“चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्” (ध० प० ३६) इति ।
तेनायमर्थः—आत्मनि चित्तीकार्ये । आत्मानं वा चित्तमधिकृत्य ये धर्माः
प्रत्यासन्नभावादाश्रयभावेन वर्तन्ते त आध्यात्मिकाः । ये तु विषयभावेन वर्तन्ते
ते बाह्या इति । कः पुनः प्रत्यासन्नभाव, येन विज्ञानं तद्विकारमनुविघत्ते ।
चक्षुरादिष्वेव हि विज्ञानं लक्ष्यते, न रूपादिष्विति । तथा हि चित्तमिन्द्रिय-
सम्बद्धे शरीरदेशे परिच्छिद्यते, न विषयदेश इति ।
एवं तर्हि षड्विज्ञानधातव इति । विस्तरः—इह पञ्च तावद्विज्ञानधातवो
वर्तमाना एव गृह्यन्ते; इन्द्रियविषयसमानकालत्वात् । वर्तमानविषया हि पञ्च
विज्ञानकायाः । मनोविज्ञानधातुरपि वर्तमान एवेह व्यवस्थाप्यते; यस्मा-
न्मनोधातुरस्याश्रयोऽनन्तरातीतो व्यवस्थाप्यते । अथ भेदादेव हि मनोधातु-
मनोविज्ञानधात्वोः पृथग्व्यवस्थानम् । तस्मात्त आध्यात्मिका न प्राप्नुवन्ति । न
ह्येते मनोधातुत्वमप्राप्ता अतीतत्वमप्राप्ताः चित्तस्याश्रयीभवन्ति यदा तदा त एव
ते भवन्तीति लक्षणं नातिवर्तन्त इति । किमनेन वाक्येन साधितम् ? इदमनेन
साधितम्—वर्तमानानामप्येषामाश्रयभावो भविष्यतीति, भविष्यादाश्रयभावे-
नाध्यात्मिकत्वं भवतीति ।
यदि चानागतप्रत्युत्पन्नस्येति विस्तर । अतीतेऽध्वनि यन्मनोधातुलक्षणं
तदनागतप्रत्युत्पन्नयोरप्यध्वनोरस्त्येवेत्यभिप्रायः । न हि लक्षणस्याध्वसु व्यभि
चारोऽस्ति । न हि स्वभावपरित्यागोऽस्तीत्यर्थः ।
१. चा०—का० ।