सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

सूत्रेष्वपि लक्षणानुगमादरः कृत इत्याह—तथा चेति। अन्यथा न क्वचिदपि साधुशब्दादरः

२४ ] प्रथमाध्याये तृतीयपादः ५४५
अन्येन प्रयोजनमुक्तमन्येन प्रकारेण परिहार इत्यस्यार्थस्यान्यथाशब्दमात्रेण सिद्धेर्नियमेन
प्रयोज्यत्वाभावान्नायं करोति, अन्यथाकृत्वा 'शिरो भुङ्क्ते इति वदसिद्धप्रयोग इत्याशयः।
एतच्च प्रयोजनं परिहारशब्देन निराकार्यतयोपन्यस्तमिति सूचितत्वादाशङ्कामात्रं नाभि-
मतमिति, द्योतनार्थं महाभाष्यगतं प्रयोजनमुक्तमितिपाठं तात्पर्यतो व्याख्यातुं चोदितपदं
तत्स्थानेऽप्रयुक्तम्।
ननु त्वगादिशब्दवत्सिद्धवत्प्रयोगरूपनिपातानां साधुत्वं सेत्स्यतीत्याशङ्क्याह—
न चेति। ननु प्रयोगमूलत्वाद् व्याकरणस्मृतेः, तद्बाधकत्वं न युक्तमित्याशङ्क्य, प्रयोग-
मूलताऽप्याप्यसिद्धेति मत्वा पूर्वोक्तं स्मृतिबलीयस्त्वमाह—स्मृतीति। अतो नैषां निपात-
नात्साधुत्वसिद्धिरित्युपसंहरति—प्रत्यक्षेति।
नन्वेवं सत्येकप्रयोगमात्रेणेतरासाधुत्वानिश्चयात्प्रकृतिप्रत्ययान्वाख्यानं विना प्रयोगमात्रेण
साध्वसाधुत्वविवेकासिद्धेर्निपातानर्थक्यं स्यादित्याशङ्क्याह—प्रत्यक्षेति। निपातानर्थ-
क्यपरिहारायाऽन्वाख्यानमनुमीयत इत्याशयः। ननु लक्षणवाक्यगतानां शब्दानां स्वात्मनि
क्रियाविरोधेन तद्वाक्यगतैलक्ष्यितुमशक्यत्वाल्लौकिकवैदिकशब्दलक्षणार्थत्वेन च व्याकरण-
स्यात्मार्थत्वाभावात्प्रदेशान्तरस्थानामप्यलक्षणयत्वेनानुगमानादराच्च व्याकरणकाराणां.
व्याकरणानुगतशब्दप्रयोगो दोष इत्याशङ्क्याह—न चेति। व्याकरणगतानामपि
शब्दानां लोकवेदाधिकरणन्यायेन लौकिकेभ्यो भेदाभावाल्लक्षणीयत्वोपपत्तिं वक्तुम्—
लक्ष्यभूत इत्युक्तम्।
अत एव व्याख्यातृभिर्वृद्धिरादैजित्यादिषु वृद्धिरादैजदेङ् गुण इति जश्त्वदर्शनेन
पदसञ्ज्ञत्वावगमाच्चोः कुरिति कुत्वेन भवितव्यमित्याशङ्क्य अयस्मयादीनि च्छन्दसीति
सूत्रेष्वपि छन्दोवद्भावेन भसञ्ज्ञत्वात्सन्नुष्टुभा ( सन्नृक्वतेत्यत्र ऋग्युक्तेनेत्यर्थके पदे
ऋच्शब्दस्य वतिपरे पदसञ्ज्ञत्वाच्चोः कुरिति कुत्वे ऋक्वतेति सिध्यति। अत्र पद-.
सञ्ज्ञत्वात् झलाञ्जशोऽन्ते इति जश्त्वेन नग्नस्य जकारः कस्य ढकारो वा न भवति।
अयस्मयादीनि च्छन्दसीत्युक्त्या भसञ्ज्ञया पदसञ्ज्ञाबाधात्। न च पदत्वाभावात्कुत्वमपि
न स्यादिति वाच्यम्। प्रयोगानुसारित्वाद्धचाकरणस्य, तेन यथा तत्र मत्वा जश्त्वाभावः।
पदत्वाच्च कुत्वमिति सञ्ज्ञाद्वयसमावेशः, तथा प्रकृतेऽपीति भावः । अत्र वृद्धिरादै-
जित्यादिसहोच्चारणं सिद्धं कृत्वोक्तम् (अन्यदेव तु 'उपदेशेऽजनुनासिक' इतीत्याद्युदाहार्यम्')।
सन्नृक्वता गणेनेतिवत्सञ्ज्ञाद्वयाविरोधात्कुत्वाभावोपपत्तिरित्यादिपरिहाराभिधानवत् 'समर्थः
पदविधिर्, त्यत्र च विधिशब्द कर्मसाधनो भावसाधनः करणादिसाधनो वेति पृष्ट्वा
विपूर्वाद्धातोः कर्म्मसाधने इकारो विधीयत इति कर्म्मसाधनतया व्याख्यानाल्लक्षण-
सूत्रेष्वपि लक्षणानुगमादरः कृत इत्याह—तथा चेति। अन्यथा न क्वचिदपि साधुशब्दादरः
स्यादित्याह—यदि चेति। न त्वाचारे नियम इत्यत्र वार्त्तिके भाष्यकृता याज्ञे कर्म्मणि
१. अयं पा० २ पु० ना० ।
३५

५४६ मीमांसादर्शनम् [ सू०
स नियमः, अन्यत्रानियम इत्युक्तत्वाच्च व्याकरणे कल्पसूत्रादिषु चापशब्दप्रयोगो
दुष्यतीत्याशङ्कते-अथेति । फलवत्त्वेन क्रत्वर्थत्वायोगात्क्रतुविषयत्वानुपपत्तिरिति परिहरति-
तदस्रदिति । आहिताग्निग्रहणानर्थक्यापत्तेश्च न यज्ञविषयतेत्याह - सारस्वतीति ।
ननु तस्माद् ब्राह्मणेन 'न म्लेच्छितवै' इत्यपशब्दनिषेधस्य प्रकरणाज्ज्योतिष्टोमाङ्गत्व्वा-
वगतेरन्यत्रानियमोऽवसीयत इत्याशङ्क्याह-योऽपि चेति । आदित एव च व्याकरणे
निरुपपत्तिकपूर्वापरविरुद्धामिधानादनाप्तप्रणीतत्वात्त्रसोयत इत्याह-यदपि चेति ।
भाष्यकृता हि शास्त्रादावथ शब्दानुशासनमिति शास्त्रस्य विषयमुक्त्वा, केषां
शब्दानामिति पृष्ट्वा, लौकिकानां वैदिकानां चेत्युत्तरं दत्तम् । तत्तावद् बहूनां शब्दानां
लोकवेदसाधारण्याद्युक्तमित्यर्थः ।' उभयत्रापि च साधारणशब्दोदाहरणमत्यन्तमयुक्त-
मित्याह-न चेति । ननु वेदादिवाक्योदाहरणत्वेनैषां लौकिकेभ्यो भेदोऽस्तीत्या-
शङ्कयाह - न चेति । कानि तर्हि वैदिकत्वेनोदाहार्याणीत्यपेक्षायामाह - अत इति ।
ननु गव्यादिपदानार्माप नियतस्वरत्वादिनो छान्दसत्वाद्युक्तोदाहरणतेत्याशङ्कयाह-
छान्दसेति ।
एवमपि सिद्धे शब्दार्थसम्बन्ध इति शास्त्रारम्भवात्तिकव्याख्यानावसरे कथं पुनज्ञायते ?
सिद्धः शब्दोऽर्थः सम्बन्धश्चेत्याशङ्क्यानराकरणार्थत्वेन लोकत इति वार्तिकावयवस्य
यद्व्याख्यानं करिष्यते, तद्वयाहन्येत स्वरनियमादेर्लोकतः सिद्धचमावादित्याशयः ।
गव्यादिशब्दानन्वाख्यानात्, लौकिकान्वाख्याने प्रतिज्ञा न युक्तेत्याह-यदि चेति ।
गवादि शब्दानां तु केवलवैदिकत्वस्यापि वक्तुं शक्यत्वात्तदन्वाख्यानमात्रेण लौकिकान्वाख्या-
नासिद्धिरित्याह-गवादयः पुनरिति । एतदेव च सर्वेषां च स नामानि कर्माणि च
पृथक्पृथगित्यादिना मनुवचनेनोगदयति-तथा चेति । ननु लौकिकार्थविवक्षायां वैदिक-
शब्दप्रयोगो न युक्त इत्याशङ्क्याह-दृश्यन्ते चेति । वैदिकानां च पाठसिद्धत्वादनानर्थकं
लक्षणमित्याह -- न चेति । दोधीवेवीटामित्येतत्सूत्रदूषणार्थं न दीधीवेव्योश्छन्दोविषय-
त्वाद् दृष्टानुविधित्वाच्च छन्दस्यदीधेददीध्युरिति च गुणदर्शनादप्रतिषेध इति वार्तिके
दीधीवेव्यौ छन्दोविषयौ, दृष्टानुविधिः छन्दसि भवति । तत्र च होत्रा वृत्तः कृपयन्नदीधेत्
अदीध्युर्दशरात्रे वृत्तास इति गुणस्य दर्शनादनर्थकः प्रतिषेध इत्येवं व्याचक्षाणेन
भाष्यकृता स्वयमेव वैदिकशब्दलक्षणानर्थक्याभिधानाच्छान्दसोदाहरणं व्याहतमित्याह-
दृष्टेति । मन्दशब्दो मृदूक्त्यर्थः । आनर्थक्यमेव दृष्टान्तेनोपपादयति - यथैवेति ।
न च भाष्यकृतैव कानि पुनरस्य शब्दानुशासनस्य प्रयोजनानीति पृष्ट्वा, 'रक्षोहाग-
मलध्वसन्देहाः प्रयोजनमिति' मुख्यानि च पञ्चप्रयोजनान्यभिधाय, इमानि भूयः, शब्दानु-
शासनस्य प्रयोजनानीत्यानुषङ्गिकाणां त्रयोदशानामुक्तत्वात् कथमानर्थक्यमित्याशङ्कयाह -
रक्षाद्यपीति । वेदरक्षणस्यान्यतः सिद्धिमपपादयति-शिष्येति । महच्छब्देन व्यापकतोक्ता ।
तच्च क्रमरक्षानादरणीयेत्याह-तद्विनाशेऽपि चेति । ननु लोपागम-वर्णविकारद्वारा पदरक्षा

व्याकरणाधीनेत्याशङ्क्यानिरकरणार्थत्वेनाल्पसिद्धेः स्वतोऽपि चेति व्याख्यातुं वृद्धवाक्य-
मुदाहरति - उक्तं चेति । नन्वाम्नायप्रसिद्धानामपि प्रस्ता वोद्गीथप्रतीहारोपद्रवनिधनानां
सामपर्वाणां लक्षणार्थस्योच्छिष्याख्यग्रन्थस्येव व्याकरणस्याप्यर्थवत्त्वं भविष्यतीत्याशङ्कते-
समाम्नायेति । वैषम्यमाह-तद्युक्तोत । प्रतिकृत्स्नस्य साम्नः सिद्धियंस्मात्तत्कृत्स्नसिद्धिः
तस्य भावः कृत्स्नसिद्धित्वम् । ननु कृत्स्नसिद्धित्वेऽप्याम्नायसिद्धत्वाल्लक्षणानर्थक्यमित्या-
शङ्क्य, कर्त्तव्येन ऋगन्तरसञ्चारणी येन प्रस्तावादिनाथेनाथवदित्यक्तम् । कृत्स्नसिद्धित्वा-
दिति व्याचष्टे— औच्छिष्ये हीति । कर्त्तव्यार्थेन वेति व्याचष्टे - ब्राह्मणेति । यद् योन्यां
गायति, तदुत्तरयोर्गायतीत्यादिब्राह्मणगतविधिवशेन योन्यामप्याम्नातस्य साम्न उत्तर
ऋगन्तरे सञ्चारणायामित्यर्थः । व्याकरणे त्वेतद्द्वयमपि नास्तीत्याह-पदेति । विशिष्ट-
पदरचनात्मकानां वाक्यानां संघातो रूपं येषां वेदानामिति व्याकरणसाध्यसंज्ञाभिधानं न
सम्भवति । कर्त्तव्यानि पदानि वाक्यानि वा येषु वेदेष्विति कर्त्तव्यार्थंतवाभावाभिधानम् ।
ननु प्रकृतिप्रत्ययान्वाख्यानरूपस्य पदानुगमस्यान्यतः सिद्धेः कर्त्तव्यत्वाच्च कर्त्तव्यार्थत्वाभाव
इत्याशङ्क्याह- लक्ष्येष्विति । वेदरक्षार्थत्वं च व्याकरणस्य वैदिकवर्णमात्रादिनिर्णयो
वैयाकरणाधीनः प्रसज्येतेत्याह - किं चेति । एतदेव दृष्टान्तेनोपपादयति - वृक्षेति । ननु
करकवत् वैयाकरणानां सन्निधानाभावादनादरो भविष्यतीत्यांशङ्क्याह-लोक इति । यस्य
यदर्थत्वमित्यत्रोदाहरणमापादयन्नाह-आयुर्वेदमिति । आज्ञा वेत्यत्रोदाहरणमाह-व्याधि-
तव्वोत । ननु वेदाध्यायिना व्याकरणम्, वैय्याकरणैर्वाद्रियन्त इत्याह-न हीवात । कस्तर्हि
वेदरक्षाहेतुरित्यपेक्षायामाह- सहाध्यायिभिरेवेति । एतदेव विवृणोति-तस्मादिति ।
उपाध्यायग्रहणं सहाध्याय्युपलक्षणार्थं दानभोजनादिषु वेदपरीक्षाधिकारः करणशब्दे-
नाभिप्रेतः, तत्संयुक्ताः कारणिकाः तेषां दयालूनां दोषान्वेषणतात्पर्याभावात् - दृष्टे-
रित्युक्तम् । अध्येतॄणामेव वेदरक्षाहेतुतेतितात्पर्यार्थः । वेदरक्षाप्रयोजनत्वाभावमुपसंहति-
तस्मादिति ।
एवं वेदरक्षार्थत्वे निराकृते, यदि कश्चिल्लौकिकवाक्यरक्षार्थत्वं ब्रूयात्तं प्रत्याह-
लोके द्विति । ननु सुव्यवहारवाक्यरक्षार्थत्वाभावेऽपि काव्यादिरक्षार्थं व्याकरणं भविष्य-
तीत्याशङ्कयाह - काव्यादिष्वपीति । एतदेव विवृणोति - यदि त्विति । यथा काव्यस्य,
नाटकस्य वा लक्षणं प्राकृतभाषायाश्च व्याकरणम्, शुद्धाखण्डा च मात्रादिः पूर्णेति चतु-
विधा द्विपदीकरणाख्येन तालेन परिगीयत इत्यादि च द्विपदीनां लक्षणम् अष्टादशमात्रा
विरतिरपि यस्य रासकनामास चतुरंघ्रिव्यक्तशीत्यादि च व्यसकानां लक्षणम् । आदिशब्दाच्च
ध्रुवकादीनां लक्षणम्, संव्यवहारवाक्येष्वनुपयुज्यमानमपि काव्यानामप्रबन्धार्यत्वेनोपयुक्तम्,
तथेदमपि संस्कृतमात्रं काव्यप्रबन्धार्थत्वेनोपयोक्ष्यत इत्याशङ्कार्थः । संस्कृतभाषानियम-
प्रयोजनाभावाभिप्रायेण परिहारः सूत्रारूढः कृतः । काव्यशोभापि न-नियमप्रयोजनं वैपरी-
त्यापत्तेरित्याह- काव्येति । किं च लोकप्रसिद्धांर्वा शब्दैः काव्यप्रबन्धार्थं लक्षणं स्यात्,
अप्रसिद्धांर्वा । नोभयथाऽपि युक्तम् । अप्रसिद्धौ सम्बन्धस्याशास्त्रहेतुत्वादित्यनेन न्य येन

सत्यपि लक्षणानुगमे पचन्तीत्यादिवल्लौकिकशब्दप्रयोगेऽर्थप्रत्ययाभावापत्तेः । प्रसिद्धौ
वानर्थक्यापत्तेरित्याह—न चेति ।
ऊहार्थत्वं निराकरोति—ऊहार्थमपीति । यथोह्यानूह्यविभागो मीमांसासिद्धत्वान्न
व्याकरणापेक्षः तथोहस्वरूपमपि लोकवेदप्रयोगसिद्धत्वादित्यर्थः । दृष्टान्तं विवृणोति—तथा
चेति । इयं गौस्तया क्रीणामि, तस्यै शृतमित्यादौ सोमक्रयार्थैकहायनीप्रकाशनार्थे मन्त्रे
क्षीरादिवाचिनां शृतादिशब्दानां विक्रेत्रानमनार्थत्वाद् दृष्टार्थत्वेऽपि क्रयसाधनार्थत्वाच्च
स्वार्थत्वेऽपि कालान्तरे चैकहायन्या अपि क्षीरादिसम्भवात्समवेतार्थत्वेऽप्येकहायन्यवस्थाया-
मुच्यमानस्य क्षीरादिसम्भवस्य मुख्यत्वाभावादौपचारिकस्य क्षीरादिसम्भवस्य साण्डोत्पाद-
यिष्यमाणधेनुद्वारेण साण्डेषूपपत्तेरूहाभावान्मूख्येत्युक्तम् ।
पत्नीं सन्नह्येति यजमानपत्नीसन्नहनवत्प्रेषार्थे मन्त्रे पत्नीमित्येकवचनस्य विद्यमानार्थत्वेन
मुख्यत्वेऽपि सन्नहनीयपत्नीसंख्याप्रकाशनाच्च स्वार्थत्वेऽप्येकत्वस्य चानेकपत्नीकप्रयोगेऽपि
पत्नीत्वसामान्यसमवायात्समवेतार्थत्वेऽपि प्रकृतावपूर्वसाधनीभूतपत्नीव्यक्तिपरत्वात्सामान्य-
संख्याप्रकाशनस्यादृष्टार्थत्वेनोहाभावाद्—दृष्टार्थतेत्युक्तम् ।
इडोपह्वानमन्त्रे यज्ञपति वर्द्धानिति यज्ञपतिशब्दस्य यजमाने मुख्यत्वेऽपि तत्प्रोत्साह-
नार्थत्वेऽपि, इडास्तुत्यर्थवृद्धिविशेषणत्वाभावेनोहाभावात्स्वार्थ इत्युक्तम् ।
इन्द्रागच्छ, हरिव आगच्छेति सुब्रह्मण्यामन्त्रे हरिवशब्दस्य हरिवत्त्वलक्षणे गुणे मुख्यतेति,
तस्य चेन्द्राय हरिवते धाना निर्वपेदिति सवनीयहविरादिषु देवतात्वान्तर्गतेऽदृष्टार्थत्वेऽपि
यक्ष्यमाणेन्द्रप्रकाशनाच्च स्वार्थत्वेऽपि, वस्तुवृत्त्येन्द्रे हरिवत्त्वासमवायात् समवेतार्थत्वा-
भावेनोहाभावात्—समवेतार्थंतेत्युक्तम् । सत्यपि मुख्यत्वादिश्वर्थप्रकाशनवच्छब्दस्वरूप-
स्याप्यादरे सत्यर्थान्तरयुक्तायां विकृतावैन्रीवद्गौणत्वोपपत्तेरूहासम्भवात्प्रकृतौ यथोत्पत्ति-
वचनमर्थानां तथोत्तरस्यान्ततौ तत्प्रकृतित्वादर्थे चाकार्यत्वादिति (९-३-१)त्येतदधिकरणसिद्ध-
शब्दस्वरूपानादरसूचनायादिशब्दः ।
नवम एव हि तृतीयपादाद्यधिकरणे अग्नये जुष्टन्निर्वपामि, व्रीहीणामेधः सुमनस्यमान इति
व्रीह्यग्निशब्दौ द्रव्यदेवतान्तरयुक्तायां विकृतावूह्यावनूह्यौ वेति निर्णयार्थं किमर्थप्रकाशन-
वच्छब्दस्वरूपमपि विवक्षितम्, न वेति सन्दिह्य शब्दस्वरूपानादरे समाम्नानार्थक्यापत्ता-
वोत्पत्तिकसमाम्नायावगतशब्दस्वरूपमनतिक्रम्यार्थानां वचनमभिधानं प्रकृतान्वयीति कृत्वो-
त्तरस्यामपि ततो विकृतिविस्तारे तथाभूतमविकृतमेव शब्दस्वरूपं प्रयोक्तव्यम् प्रकृतिदृष्ट-
स्यैव शब्दस्वरूपस्य प्रकृतिवच्छब्देन विनियुक्तत्वादिति प्रकृतौ यथोत्पत्तिवचनमर्थानां
तथोत्तरस्यां ततो तत्प्रकृतित्वादिति सूत्रावयवेन पूर्वपक्षयित्वा, कर्म्मसमवेतार्थप्रकाशनोद्दे-
शेन विहितानां मन्त्राणां प्रधानवशवर्त्तित्वेन प्रकृताविति कृत्वा चास्यार्थप्रकाशननिरपेक्ष-
स्वरूपादरायोगाद्विकृते च सूर्य्यनीवाराद्यर्थेऽग्निव्रीह्यादिशब्दानां प्रकाशनाख्यकार्याभावात्त-
त्समर्थशब्दोपादानेन विकृतौ मन्त्रोच्चारणं युक्तमिति अर्थे चाकार्यत्वादिति (९-६-१)त्युत्तरा-
वयवेन सिद्धान्तयिष्यते ।

२४ ] प्रथमाध्याये तृतीयपादः ५४९
ननु प्रकृतिमन्त्राणां मुख्यत्वादिरूपेण प्रयोगे सत्यपि विकृतावर्थान्तरयुक्तायामतिदेशेन
प्राप्तानां तदीयद्रव्यदेवतादिप्रकाशनसामर्थ्येन प्राकृतकार्यार्थत्वायोगादातिदेशिकवचनवशात्का-
र्यान्तरकल्पनैवोचिता, नोहेन प्राकृतकार्यसामर्थ्यकल्पनेत्याशङ्क्य विकारेषु कार्यातिदेशतो
गता-इत्युक्तम् । प्राकृतकार्यनिरपेक्षेण पदार्थातिदेशे, शास्त्रातिदेशे वा कार्यान्तरकल्पना
युज्येत । वैकृतभावनाकाङ्क्षावशात्तु करणोपकारलक्षणकार्यद्वारस्यैवातिदेशस्य दशमाद्ये
वक्ष्यमाणत्वान्न कार्यान्तरकल्पनेत्याशयः ।
कार्यद्वारातिदेशेऽपि कार्यान्तरार्थं व्रीह्यादौ व्रीहीणां मेधेत्यादिमन्त्रप्रयोगस्यैवाभावा-
त्प्राकृतकार्यार्थत्वेऽप्यर्थान्तरत्वाभावेना विकृतस्यैव प्रयोगोपपत्ते रूहाभावात्प्राकृतकार्यतापत्तेश्च-
अर्थान्तरेष्वित्युक्तम् । कथं कार्यापत्त्यवगतिरित्यपेक्षायाम् - पञ्चधेत्युक्तम् । १ नैवारश्चरु-
रिति विकारतद्धितेन नीवाराणां चरुप्रकृतित्वाभिधानात्प्रत्यक्षविधिना प्रदेयप्रकृतित्वलक्षण-
व्रीहिकार्यापत्तिरवसीयते । २ संस्थिते षडहे मध्वाशयेद् घृतं वेति मधुघृताशनयोः षडहा-
भावे विधानात्प्रत्यक्षविधिना षडहकार्यापत्तिः । ३ सत्रायावगूर्य विश्वजिता यजेतेति वा
सत्राभावे, विश्वजितो विधानात्सत्रकार्यापत्तिः । ४ नैवारश्चरुर्नखावपूतानामिति वैतुष्य-
लक्षणविकारफलकनलुंछनापरपर्यायावपनाङ्गत्वेन नखानां विधानाद्विकारेण वैतुष्यो-
त्पादनलक्षणोलूखलमुसलकार्यापत्तिः । ५ परिधौ पशुं नियुञ्जन्तीति परिधेर्नियोजने विधा-
नात्स्वशब्देन विनियोजनलक्षणरूपकार्यापत्तिः । न गिरागिरेति ब्रूयादैरं कृत्वोद्गेयमितीरा-
पदविध्येकवाक्यतया गिरापदस्य निषेधानुवादावगतेरकार्थत्वाभावे चेरापदेन गिरापदबाधा-
योगान्निषेधानुवादानुपपत्ते र्निषेधानुवादेन गिरापदकार्यापत्तिरिति पञ्चप्रकारत्वम् । प्रत्यक्ष-
विधिनाऽभावे विधानेन, विकारतः, स्वशब्दाच्च निषेधानुवादात्तत्कार्यकारितेति
संग्रहश्लोकः ।
ननु व्रीह्यादिकार्याथ तेष्वपि नीवारादिषु व्रीह्यादिप्रकाशनार्थानां मन्त्राणां व्रीह्यादि-
स्वरूपस्याभावेनाप्राप्तेर्नोहः स्यादित्याशङ्क्य - अपूर्वार्थद्वारेणेत्युक्तम् । स्वरूपप्रयुक्तत्व-
निराकरणेनाऽपूर्वप्रयुक्तत्वस्य नवमाद्ये वक्ष्यमाणत्वान्नीवारादिषु व्रीह्यादिस्वरूपाभावेऽपि
व्रीह्यादिलक्षितापूर्वार्थत्वसद्भावात्तद्द्वारेणास्ति प्राप्तिरित्याशयः ।
नन्वर्थान्तरेष्वप्यूहेन मन्त्राणां प्रयोगोपपत्तौ याज्यानुवाक्ययोरनुपदेशे गायत्र्यादिना
लक्षणेनानुवाक्याकल्पनवचनम्, त्रिष्टुभादिना च लक्षणेन याज्याकल्पनवचनं तादृशलक्षण-
योश्चासम्भवेन असञ्ज्ञकयोनिमामश्रृणुधीहवं स्तीर्णं बर्हिरानुषासवेत्तदित्यनयोरिरागमवचन-
मनर्थकं स्यादित्याशङ्क्य - अनिषिद्धोहा इत्युक्तम् । पूयति वा एतद्यज्ञोऽक्षरम्, यदेतदूह
इति तस्मादृचं नोहेदित्यादावूहनिषेधान्न देवतान्तरवत्यां विकृतौ प्राकृतयोर्याज्यानुवाक्ययोः
प्राप्तिः सम्भवतीत्याशयः । न माता वर्द्धते, न पितेति तु यज्ञपत्नियायप्राप्तनिषेधानुवाद-
त्वान्नोदाहरणम् एवम्भूतस्य वोहोपपत्तिकलापस्य मीमांसागम्यत्वादस्माकमेवोहः सिद्ध्यति,
न वैयाकरणानामिति-न इत्यनेनोक्तम् । न त्ववघातादिसंस्कारविषयस्य दृढादृढप्रहारादि-

५५० मीमांसादर्शनम् [ सू०
रूपस्योहस्य, सामविषयस्य वोत्तराकृता वृद्धतालव्याश्रितापि भावरूपस्य व्याकरणानपेक्ष-
त्वेऽपि, मन्त्रोहस्य वैयाकरणाधीनत्वेन महाभाष्यकृतोक्तस्य शब्दरूपत्वाद्वैयाकरणापेक्षा
भविष्यतीत्याशङ्क्य, व्रीह्यादिसम्बन्धित्वेनावगतानां धर्माणं नीवारादिसम्बन्धित्वापादक-
रूपवितर्कात्मकस्योहरूपस्य मन्त्रविषयेऽप्यूहे साम्याद्वितर्कणायाश्च मीमांसाधीनत्वान्न
वैयाकरणापेक्षेति—मन्त्रशब्देनोक्तम् ।
ननूह्यानूह्यविभागस्य मीमांसाधीनत्वेऽप्यूह्यपदस्वरूपज्ञानं वैयाकरणापेक्षं भविष्य-
तीत्याशङ्क्याह एतावतीति । ननु कथं साध्वसाधुशब्दविवेकानभिज्ञस्य योग्यपदलाभ
इत्याशङ्क्याह -- वेद एव हीति । यत्किञ्चिच्छन्दोहेनापि वा मन्त्रवाक्यनैराकाङ्क्ष्यसिद्धेनं
योग्यपदादरो युक्त इत्याह— अथ वेति ।
एतच्च देवतापदव्यतिरिक्तविषयमुक्तम्, तेषां विधिगतपदव्यतिरेकेण साधून मप्य-
प्रयोज्यत्वादिति दर्शयंश्लोकं व्याचष्टे--देवतेति । आग्नेयादियोगाङ्गभूतेष्वावाहनादिषु
निगमनस्थानेषु किं येन केनचित्पर्यायेण देवताभिधेया; अथ वा विधिगतेनैव शब्देनेति
सन्दिह्य येन केनचिदर्थसिद्धेरनियमे प्राप्ते देवतायाः प्रतिग्रहादिव्यापाराभावात्स्वरूपेण
कर्म्मसमवायानुपपत्तेः शब्देनाग्निमुद्दिश्य हविस्त्यजेदिति विध्यर्थावगमात्केन शब्देनेत्य-
पेक्षायां बुद्धिस्थाग्निशब्दातिक्रमे कारणाभावादग्निशब्देनैवाग्निमुद्दिशेदिति विधिगतेनैव
शब्देन देवतात्वविधानान्मन्त्रकार्ये तस्यैवोच्चारणं कार्यमिति 'विधिशब्दस्य मन्त्रत्वे भावः
स्यात्तेन चोदने (१०.४.२३) इति सूत्रोक्तदशमिकन्यायेन विधिगतप्रयोगानुसारेणैव विकृतौ
देवतापदान्यूह्यमानानि प्रयोक्ष्यन्त इत्यर्थः ।
ननु सौर्यं चरुमिति विधौ प्रातिपदिकमात्रश्रवणादग्नये जुष्टमिति चतुर्थ्यन्ताग्निपद-
स्थाने सूर्य्यपदं कीदृशं प्रयोज्यमिति व्याकरणं विना न ज्ञायत इत्याशङ्क्य तद्वाक्य-
शेषेत्युक्तम् । तस्य विधिवाक्यस्य शेषे वाक्यान्तरे वा 'महोदेवाय सूर्याय शंसतेत्यादौ
यदधिगतमर्थाभिधानमित्यन्तेनेत्यर्थः ।
नन्वेवं सति शब्दव्यवस्थायामपि प्रयोगोत्पत्तिशास्त्रत्वदर्शनात्कथं तेनाप्यव्यवस्थासिद्धि-
रित्याशङ्क्य—तेषु हीत्युक्तम् । किं विषयं तह्यं व्यवस्थितोह्यपदप्रयोज्यत्वाभिधानमित्य-
पेक्षिते—यानित्युक्तम् । पौण्डरीके 'वर्हिषि दर्भेस्तृणोत हरितैः सुपर्णैरित्यतिदेशप्राप्ते मन्त्रे
दर्भपदस्थाने पुण्डरीकैरिति द्रव्यपदमादिशब्दात्सुपर्णस्थाने पुण्डरीकावयववाचिपदम् ।
एवं व्रीहिणां मेधः सुमनस्यमान इत्यादी यथासम्भवं नीराणामित्यादीनि यथासम्भवं
द्रव्यादिपदान्युदाहार्याणि । ननु नीवारादिपदव्यतिरिक्तानां तत्पर्यायाणां साध्वसाधूनां
मानाप्राप्तत्वेनाप्रतीतरूपाणां प्रयोगविधिविषयत्वाभावात्प्रयोगानुपपत्तेर्नाव्यवस्था युक्तेत्या-
शङ्क्य — सन्निहितेत्युक्तम् । सन्निहितेन नीवारादिविधितः प्रतीतेन नीवारादिनार्थेन
पर्युपस्थापितानि समस्तानि पर्यायभूतानि साध्वसाधूनि रूपाणि येषामिति विग्रहः । पूर्वमेव
तर्हि नीवाराद्यर्थस्य स्मृतत्वान्नीवारादिपदोहोऽनर्थकः स्यादित्याशङ्क्य—असंन्निहितेत्युक्तम् ।

२४ ] प्रथमाध्याये तृतीयपादः ५५१
असन्निहितार्थस्य व्रीह्यादिपदस्य निवृत्त्या हेतुभूतया न्यूनत्वात्साकाङ्क्षं यद्व्रीहीणां
मेधेत्यादिमन्त्रवाक्यम्, तस्य निराकाङ्क्षीकरणायेति विग्रहः । द्रव्यादेर्हि श्रुतिसमवायित्वा-
भावेन विधिगतशब्दप्रयोगनियमाभावात्कर्मविधानाथंस्यैव शास्त्रस्य शब्दप्रयोगोत्पत्ति-
शास्त्रत्वानुपपत्तेर्मन्त्राम्नानरुपेण वा शास्त्रेण प्रयोगोत्पत्तेः शास्त्रवत्त्वं वाच्यम् । व्याकरणा-
ख्येन वा तत्र मन्त्राम्नानं तावद्विकृतौ नास्तीत्याह—प्रकृतौ हीति ।
व्याकरणस्य च सम्भाव्यमानमूलशास्त्रत्वात्कृतकत्वादिदोषग्रस्तत्वात्पौरुषेयत्वेन
चानादियज्ञगतशब्दविषयत्वायोगात् प्रयोगोत्पत्तिशास्त्रत्वं युक्तमित्याह—व्याकरण-
स्यापीति । कृतकत्वस्यानप्रणीतत्वाशङ्कापादकत्वेन दोषत्वं व्याकरणानुगतशब्दप्रयोगनि-
यामकत्वाभावेन--अविधायकत्वस्योक्तम् । इत्युपसंख्यानानादिशब्दोपात्तानां च
वक्तव्यानाम्, आचार्यसूत्राणां च दीधीवेवीटामित्यादीनां प्रत्याख्यानम्, सूत्रवार्तिकभाष्याणां
परस्परविरोधे विशेषाग्रहेण इदमेव प्रमाणमित्यनिश्चयादनवस्थितं प्रमाणत्वं विकरणस्य
केचित्प्रकृत्यन्तर्भावमिच्छन्ति, अन्ये प्रत्ययान्तर्भावमिति, यथारुचि कल्पितं प्रकृतेः
प्रत्ययस्य वा परिमाणं धातुप्रातिपदिकादिलक्षणदूषणान्यादिशब्देनोपात्तानि !
सत्यप्याप्तप्रणीतत्वे नित्यानित्यसंयोगविरोधेनानादियज्ञगतशब्दविषयत्वं निराकृतम् ।
ऊहस्यान्यतः सिद्धेर्व्याकरणप्रयोजनत्वासम्भवमुपसंहरति—तेनेति । प्रकृतिविकृति-
विभागज्ञानम्, कर्मज्ञानम्, प्रकृतौ द्रव्यदेवतामन्त्राणां विकृतौ द्रव्यदेवतान्तरस्य,
प्राकृतानां च मन्त्राणां ज्ञानं कर्माङ्गज्ञानं ऽकृतापूर्वप्रयुक्तत्वम्, कार्यातिदेशेन च विकृति-
गमनं वैकृतानां चाङ्गानां प्राकृतकार्यापत्तिज्ञानम्, वाक्यार्थज्ञानं तेषु कौशलैः कर्तव्यतया
लोकवेदप्रयोगाश्च स्वरूपेणोत्तसिद्धेर्व्याकरणानर्थक्यमित्यर्थः ।
व्याकरणतः सिद्धेरप्यूहस्य, तत्प्रयोजनत्वं न युक्तमित्युपपादयितुं व्याकरणपर्यालो-
चनया कर्त्तव्यत्वेनावगतस्योहस्य मीमांसानुसारेणापवादः कल्पसूत्रव्याख्यातृभिः कृत
इत्याह - अपि चेति । देव्याः शमितार आरभध्वम् इत्यादिः पशुविशसनप्रैषमन्त्रः
अध्रिगुशब्दवत्त्वेनाध्रिगुरुच्यते तत्र पुराणन्यायादीन्यङ्गानि । अन्वेनं मातेत्यादीनि
ज्ञातिनामानि । श्येनमस्येत्याद्या उपमाः । सूर्यं चक्षुरित्यादीनीन्द्रियाणि । यज्ञपतिशब्द-
वत्पारार्थ्येनैषामन्येरूहविषयैवैषम्यान्नाध्रिगावूह्यते इत्यर्थः ।
यथागमः खल्वपीत्युपक्रम्य ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्चेति
स्मरणमावश्यकधर्मज्ञानार्थम्, षडङ्गवेदाध्ययनविधानार्थं व्याकरणाध्ययनप्रयोजनत्वेनो-
पन्यस्तम् । तत्प्रयोजनं प्रयोजनिमाववैपरीत्येन दूषयति - आगम इति । यथा वेदाध्ययनं
प्रति प्रयोजनभूतानां कर्म्मणां नाध्ययनं प्रयोजनं तथा षडङ्गवेदाध्ययनविधायकमागमं
प्रति प्रयोजनभूतस्य व्याकरणाध्ययनस्य नागमप्रयोजनमित्युपालम्भार्थः । न त्वागम-
प्रयोजनत्वप्रतिपादकं भाष्यमनुष्ठापकत्वाभिप्रायं व्याख्यातृभिव्र्याख्यातं तत्कथं फलपरत्वं
प्रयोजनशब्दस्यारोप्य दूषणमुक्तमित्याशङ्कानिराकरणार्थः फलपदप्रयोगः । रक्षोहाग-

५५२ मीमांसादर्शनम् [ सू०
मलध्वसन्देहाः प्रयोजनमिति सकृच्छ्रुतस्य प्रयोजनशब्दस्य रक्षादौ फलपरत्वम्,
आगमेऽनुष्ठापकपरत्वं न युक्तमित्याशयः । एतदेव विवृणोति -- सर्वैश्च हीति । न चागम-
प्रयोजनत्वाभिधानेन लक्षणया धर्मज्ञानाख्यमागमोक्तं प्रयोजनमभिमतमित्याशङ्कते -
अथेति । षडङ्गवेदाध्ययनवद्धर्म्मज्ञानस्याप्यनुष्ठेयत्वमनेनागमेनोक्तम्, न प्रयोजनत्वममिति
मत्वा परिहरति - तदपीति ।
नन्वेकस्मिन्वाक्ये विधिद्वयायोगाद्धर्म्मस्य ज्ञेयत्वाभिधानं प्रयोजनत्वेनैव व्याख्येयमत
आह - निष्कारणतयेति । श्रेयःसाधनत्वेन धर्म्मस्य निष्प्रयोजनत्वायोगात्रिष्कारणशब्दस्य
षडङ्गशब्देनैवान्वयात्पौरुषेयेषु च वाक्यभेदस्यादोषत्वादित्याशयः । एतदेव विवृणोति -
निष्कारणेति । कार्य्यतेऽनुष्ठाप्यतेऽनेनेति व्युत्पत्त्या प्रयोजनवचनोऽयं कारणशब्द इति
वक्तुं निष्प्रयोजनत्वशब्दः । अवेदत्वाच्चास्यागमत्वं नास्तीत्याह-आगम इति । नन्व-
वेदत्वेऽपि वेदमूलत्वेनागमत्वं भविष्यतीत्याशङ्क्याह -कथं चेति । नन्वेवं तर्हि तस्याः
स्मृतेर्वेदमूलत्वाभावे वेदाध्ययनस्यावैधत्वं स्यादित्याशङ्क्याह तस्मादिति । न च केवल-
वेदविषयस्य विधेर्नित्यानित्यसंयोगविरोधोऽस्तीत्याह- उपपन्नं चेति । ननु व्याकरणादेरपि
प्रवाहानित्यत्वात्रित्यविधिविषयत्वं विरोत्स्यत इत्यत आह - व्याकरणादीति । प्रत्यक्ष-
श्रुतिविषयत्वं सति तदन्यथानुपपत्त्या प्रवाहानित्यत्वं कल्प्येत, तदभावेऽप्यपस्मृतित्वेनाप्यु-
पपत्तेर्न कल्पनागौरवाश्रयणं युक्तमित्याशयः । न चास्य वेदत्वेन, तत्तुल्यत्वेन वा
स्वयमागमत्वं सम्भवति, कल्पसूत्राधिकरणे निरस्तत्वादित्याह - न चेति । किं च प्रधानं
च षडङ्गेषु व्याकरणमिति भाष्येण वेदाङ्गत्वाद्याकरणस्यैतदागमप्रयोजनत्वमुक्तम् ।
अङ्गशब्दश्च तादर्थ्यवाची वा स्यात्, अवयववाची वा नोभयथापि व्याकरणस्याऽङ्गतास्ती-
त्याह -- न चेति । उभयरूपाभावमुपपादयति --श्रुतीति । कस्तर्ह्यस्याः स्मृतेरर्थ इत्यपेक्षा-
यामाह - तस्मादिति । लिङ्गादिरशब्दरूपत्वेऽपि तत्कल्प्यानां श्रुतीनां वेदावयवत्वं
भविष्यती