मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 602, कुल 804 में से
संदर्भ में पढ़ेंसत्यपि लक्षणानुगमे पचन्तीत्यादिवल्लौकिकशब्दप्रयोगेऽर्थप्रत्ययाभावापत्तेः । प्रसिद्धौ
वानर्थक्यापत्तेरित्याह—न चेति ।
ऊहार्थत्वं निराकरोति—ऊहार्थमपीति । यथोह्यानूह्यविभागो मीमांसासिद्धत्वान्न
व्याकरणापेक्षः तथोहस्वरूपमपि लोकवेदप्रयोगसिद्धत्वादित्यर्थः । दृष्टान्तं विवृणोति—तथा
चेति । इयं गौस्तया क्रीणामि, तस्यै शृतमित्यादौ सोमक्रयार्थैकहायनीप्रकाशनार्थे मन्त्रे
क्षीरादिवाचिनां शृतादिशब्दानां विक्रेत्रानमनार्थत्वाद् दृष्टार्थत्वेऽपि क्रयसाधनार्थत्वाच्च
स्वार्थत्वेऽपि कालान्तरे चैकहायन्या अपि क्षीरादिसम्भवात्समवेतार्थत्वेऽप्येकहायन्यवस्थाया-
मुच्यमानस्य क्षीरादिसम्भवस्य मुख्यत्वाभावादौपचारिकस्य क्षीरादिसम्भवस्य साण्डोत्पाद-
यिष्यमाणधेनुद्वारेण साण्डेषूपपत्तेरूहाभावान्मूख्येत्युक्तम् ।
पत्नीं सन्नह्येति यजमानपत्नीसन्नहनवत्प्रेषार्थे मन्त्रे पत्नीमित्येकवचनस्य विद्यमानार्थत्वेन
मुख्यत्वेऽपि सन्नहनीयपत्नीसंख्याप्रकाशनाच्च स्वार्थत्वेऽप्येकत्वस्य चानेकपत्नीकप्रयोगेऽपि
पत्नीत्वसामान्यसमवायात्समवेतार्थत्वेऽपि प्रकृतावपूर्वसाधनीभूतपत्नीव्यक्तिपरत्वात्सामान्य-
संख्याप्रकाशनस्यादृष्टार्थत्वेनोहाभावाद्—दृष्टार्थतेत्युक्तम् ।
इडोपह्वानमन्त्रे यज्ञपति वर्द्धानिति यज्ञपतिशब्दस्य यजमाने मुख्यत्वेऽपि तत्प्रोत्साह-
नार्थत्वेऽपि, इडास्तुत्यर्थवृद्धिविशेषणत्वाभावेनोहाभावात्स्वार्थ इत्युक्तम् ।
इन्द्रागच्छ, हरिव आगच्छेति सुब्रह्मण्यामन्त्रे हरिवशब्दस्य हरिवत्त्वलक्षणे गुणे मुख्यतेति,
तस्य चेन्द्राय हरिवते धाना निर्वपेदिति सवनीयहविरादिषु देवतात्वान्तर्गतेऽदृष्टार्थत्वेऽपि
यक्ष्यमाणेन्द्रप्रकाशनाच्च स्वार्थत्वेऽपि, वस्तुवृत्त्येन्द्रे हरिवत्त्वासमवायात् समवेतार्थत्वा-
भावेनोहाभावात्—समवेतार्थंतेत्युक्तम् । सत्यपि मुख्यत्वादिश्वर्थप्रकाशनवच्छब्दस्वरूप-
स्याप्यादरे सत्यर्थान्तरयुक्तायां विकृतावैन्रीवद्गौणत्वोपपत्तेरूहासम्भवात्प्रकृतौ यथोत्पत्ति-
वचनमर्थानां तथोत्तरस्यान्ततौ तत्प्रकृतित्वादर्थे चाकार्यत्वादिति (९-३-१)त्येतदधिकरणसिद्ध-
शब्दस्वरूपानादरसूचनायादिशब्दः ।
नवम एव हि तृतीयपादाद्यधिकरणे अग्नये जुष्टन्निर्वपामि, व्रीहीणामेधः सुमनस्यमान इति
व्रीह्यग्निशब्दौ द्रव्यदेवतान्तरयुक्तायां विकृतावूह्यावनूह्यौ वेति निर्णयार्थं किमर्थप्रकाशन-
वच्छब्दस्वरूपमपि विवक्षितम्, न वेति सन्दिह्य शब्दस्वरूपानादरे समाम्नानार्थक्यापत्ता-
वोत्पत्तिकसमाम्नायावगतशब्दस्वरूपमनतिक्रम्यार्थानां वचनमभिधानं प्रकृतान्वयीति कृत्वो-
त्तरस्यामपि ततो विकृतिविस्तारे तथाभूतमविकृतमेव शब्दस्वरूपं प्रयोक्तव्यम् प्रकृतिदृष्ट-
स्यैव शब्दस्वरूपस्य प्रकृतिवच्छब्देन विनियुक्तत्वादिति प्रकृतौ यथोत्पत्तिवचनमर्थानां
तथोत्तरस्यां ततो तत्प्रकृतित्वादिति सूत्रावयवेन पूर्वपक्षयित्वा, कर्म्मसमवेतार्थप्रकाशनोद्दे-
शेन विहितानां मन्त्राणां प्रधानवशवर्त्तित्वेन प्रकृताविति कृत्वा चास्यार्थप्रकाशननिरपेक्ष-
स्वरूपादरायोगाद्विकृते च सूर्य्यनीवाराद्यर्थेऽग्निव्रीह्यादिशब्दानां प्रकाशनाख्यकार्याभावात्त-
त्समर्थशब्दोपादानेन विकृतौ मन्त्रोच्चारणं युक्तमिति अर्थे चाकार्यत्वादिति (९-६-१)त्युत्तरा-
वयवेन सिद्धान्तयिष्यते ।