मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
तृतीयोक्तिक्रियागम्यगुणभावेऽपि वक्तरि ।
५९२ मीमांसादर्शनम् [ सू०
अशक्तैर्नाशिताश्चान्ये दाक्षिण्याद्यनुवर्तनात् ।
जानन्तोऽपि प्रयुञ्जीरन् यदि शास्त्रं न वारयेत् ॥ ८८५
अन्येऽपि प्राकृतालापैरशक्तैर्व्यवहर्तृभिः ।
सह व्यवहरन्तस्तानुपेत्यापि प्रयुञ्जते ॥ ८८६
तत्कथं नाम यत्किञ्चित्स्यादपभ्रंशकारणम् ।
दूरात्परिहरेयुस्तदिति यत्नो नियम्यते ॥ ८८७
यत्तु दृष्टार्थप्रत्ययाननिराकाङ्क्षत्वाददृष्टार्थप्रयोगोत्पत्त्याशास्त्रत्वमिति ।
तत्रोच्यते—दृष्टे सत्यपि सर्वत्र नियमाददृष्टमिष्यते ।
क्रत्वर्थं १पुरुषार्थं च तत्संयोगपृथक्त्वतः ॥ ८८८
'एकस्य तूभयत्वे संयोगपृथक्त्वं' ४-३-५ तच्चेह प्रकरणानारभ्यवादाभ्याम-
वगतम् । तत्र—
क्रत्वर्थांशे परार्थत्वादर्थवादः फलश्रुतिः ।
पुरुषार्थे तु निर्देशात्फलमात्रेयदर्शनात् ॥ ८८९
क्रत्वर्थं ह्यनिर्ज्ञातोपायत्वात्सर्वादृष्टोपसंग्रहक्षममिति नियमापूर्वमात्मसात्कुर्व-
त्पुरुषार्थांशे फलश्रुतिमर्थवादीकरोति । पुरुषार्थस्य नियमस्य त्ववश्यकल्पनीय-
प्रयोजनत्वादर्थप्रतिपत्तेश्चापभ्रंशेऽप्यक्षिनिकोचादिभ्यो वा सुतरां सिद्धत्वादनाका-
ङ्क्षितनियमापूर्वोेपजीवनसामर्थ्यं नास्तीत्यवश्यमर्थवादोपात्तमेव स्वर्गलोके काम-
धुग्धाग्धेव फलत्वेनाऽऽश्रयणीयम् ।
यत्तु न ज्ञायते क्वेदं नियमापूर्वमाश्रितमिति, तत्राभिधीयते—
नियमापूर्वस्याश्रयनिरूपणम्
क्रत्वर्थं तावदङ्गेषु तदर्थेष्वेव संश्रितम् ।
अनङ्गत्वाभिधानार्थं स्यात्क्रत्वर्थं नराश्रितम् ॥ ८९०
'प्रकरणविशेषाद्वा तद्युक्तस्य तत्संस्कारो (४-३-१८) द्रव्यवत्' इति हि ज्योति-
ष्टोमप्रकरणगतब्राह्मणशब्दलक्षिततदपूर्वसाधनयजमानसंस्कारत्वात्साधुभाषणनिय-
मापूर्वस्य । 'याजमानास्तु तत्प्रधानत्वात्कर्मवत्' (३-८-२) इत्यनेन न्यायेन फल-
प्रतिग्रहणयोग्यत्वाधानार्थं तदाश्रितमेव विज्ञायते । पुरुषार्थवाक्येऽपि सम्यग्ज्ञात-
सुप्रयुक्तत्वाक्षिप्तज्ञातृप्रयोक्तृपर्युपस्थापनात्क्रियाफलयोश्च तद्गामित्वात्प्रधानया-
गाद्यपूर्ववदेव ज्ञातृप्रयोक्त्राश्रितं निष्पद्यते ।
तत्रैव दृष्टान्तप्रदर्शनम्
तृतीयोक्तिक्रियागम्यगुणभावेऽपि वक्तरि ।
संस्कार्यत्वात्प्रधानत्वं स्यात्प्रयाजाज्यशेषवत् ॥ ८९१
१. क. पृथक्त्वंकारणं ।
९ ] प्रथमाध्याये तृतीयपाद। ५९३
तथैव 'प्रयाजशेषेण हवींष्यभिधारयति' इत्ति सत्यपि शेषस्य तृतीयानिर्देशे,
कार्योपयोगित्वात्संस्कार्यत्वावधारणम् । एवं ब्राह्मस्यापीत्यदोषः ।
यदि वा ब्राह्मणेनेति तृतीया यागकारिणी ।
कामधुक्शब्दयोगाच्च बहिःप्राधान्यकल्पना ॥ ८९२
नैव म्लेच्छनकारित्वात्तृतीयेयं प्रतीयते ।
कुर्वता यागमित्येवं ब्राह्मणेनेति योज्यते ॥ ८९३
यागे यो गुणभावश्च संस्कारे सा प्रधानता ।
न ह्यारादुपकारित्वं संयुक्तस्योपयोगिता ॥ ८९४
तच्चोपयोगित्वं प्रकरण-तृतीयाविभक्तिश्रवणाभ्यामवगतं शेषस्वीकरणसमर्थं
भवति । बाह्यपुरुषार्थत्वेऽपि कामधुक्शब्दस्य पुरुषोपभोग्यकाम्यमानार्थसाधन-
वचनत्वात्पुरुषप्राधान्यप्रतिपत्तिः१ । यद्यपि च साधुशब्दोच्चारणमुच्चारयित्रर्थम्,
क्रत्वर्थं च न भवति, तथाऽपि तद्गतनियमप्रतिषेधयोरेव क्रत्वर्थपुरुषार्थत्वे
भविष्यतः । न हि यदर्थे कर्मणि यो नियमप्रतिषेधो, तावेव केवलौ तदर्थौ
भवतः ।
तथा हि—स्त्रद्युपायमांसभक्षादिपुरुषार्थमपि श्रितः ।
प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात् ॥ ८९५
क्रत्वर्थात्खादिराच्चेष्टा वीर्यसिद्धिविधानतः ।
भोजनाच्चाप्यतिथ्यर्थात्पूर्वं दातृसंश्रितम् ॥ ८९६
अतश्च परार्थोच्चारणाश्रितावपि नियमप्रतिषेधौ स्वप्रयोजनाकाङ्क्षावेलायां
संनिहितपुरुषप्रधानौ विज्ञायेते ।
अतश्च वेदमूलत्वे सत्येवं प्रतिपादिते ।
प्रयोगोत्पत्त्यशास्त्रत्वं यदुक्तं तदसत्कृतम् ॥ ८९७
यच्चास्य कृतिमत्त्वेन स्वतः शास्त्रत्वबाधनम् ।
तत्प्रसिद्धिविरुद्धं स्यादचन्द्रशशिवाक्यवत् ॥ ८९८
शास्त्रशब्दस्य रूढ्या योगेन च व्याकरणस्य ग्रहणम्
शास्त्रशब्दो यदि तावद्रूढः ततश्चतुर्दशसु तावद्विद्यास्थानेषु शास्त्रस्थानामेव
प्रसिद्धः तदन्तर्गतत्वाच्च व्याकरणस्य शास्त्रत्वनिराकरणानुपपत्तिः । अथापि
शिष्यतेऽनेनेति शास्त्रत्वमन्वर्थमिष्यते, तथाऽपि व्याकरणेन साधुशब्दाः शिष्यन्ते,
तदनुगमोपाया वा प्रकृतिप्रत्ययादयः तदभियुक्तशिष्यजनो वेति सर्वथा शास्त्र-
शब्दप्रवृत्तिरविहता ।
१. क. पुरुषोपयोग्य ।
३८
५९४ मीमांसादर्शनम् [ सू०
प्रसिद्धमपि शास्त्रत्वं यस्तु तर्केण वारयेत् ।
वेदस्यापि स नित्यत्वाद् व्योमवद्वारयिष्यति ॥ ८९९
सदृष्टान्तं व्याकरणस्य शास्त्रत्वनिषेधे परिहारकथनम्
यथैव हि व्याकरणादीनां कृत्रिमकाव्योपनिबन्धसाधर्म्याच्छास्त्रत्वं प्रतिषेद्धुम-
ध्यवसीयते, तथाऽऽकाशादिकालात्मनां१ परमाणुदृष्टान्तबलेन नित्यत्वाद्वेदशास्त्र-
त्वमप्ययत्नेनैव क्रियेत । यो हि नागरिकभाषाभिज्ञतया ग्रामीणैर्मातापितरावपि
शुक्लवचनैरभिदधीत, स केनान्येन वार्येत ।
परत्राविनयं कुर्वन्पितृभ्यां वार्यते सुतः ।
तयोरेवाविनीतस्य को भवेद्विनिवारकः ॥ ९००
तथा बहिरसंबद्धं वदन्वेदेन वार्यते ।
साङ्गेन तं पुनर्निघ्नन्केनान्येन निवार्यते ॥ ९०१
क्रुद्धो यो नाम यं हन्ति स तस्याङ्गानि कृन्तति ।
कृत्ताङ्गस्य२ ततस्तस्य विनाशः कियता भवेत् ॥ ९०२
तेन त्रयी द्विषन्पूर्व वेदाङ्गान्येव लुम्पति ।
ततस्तेनैव मार्गेण मूलान्यस्य कृन्तति ॥ ९०३
श्रुतिस्मृतिप्रमाणत्वे हेतुपूर्वं निरूपिते ।
अङ्गानामप्रमाणत्वमशास्त्रत्वं च को वदेत् ॥ ९०४
व्याकरणस्य स्मृतिभिर्वैषम्येऽपि वेदमूलत्वेन व्याकरणान्तरेण साम्यम्
यत्त्वितरस्मृतीनां प्रायेण सारूप्याद्व्याकरणस्य तद्विलक्षणत्वात्तन्मध्यपा-
तित्वमसंभाव्यमिति । तत्रोच्यते—सर्वधर्मसूत्राणां वर्णाश्रमधर्मोपदेशित्वाद्धर्माणां
चैकरूपप्रायत्वात्परसंवादित्वं युक्तम् । व्याकरणस्य त्वन्य एव साधुशब्दतत्त्वनिर्ण-
यरूपो विषयः । तत्रास्य व्याकणान्तरेणैव संगतिः स्यात् न धर्मसूत्रैः । स्मृतित्वं
त्वङ्गानाम्, धर्मसूत्राणां चाविशिष्टम् ।
अथापि स्मृतिशब्देन नाङ्गानामभिधेयता ।
तथाऽप्येषां न शास्त्रत्वप्रमाणत्वनिराक्रिया ॥ ९०५
पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् ॥ ९०६
इति हि तुल्यवत्प्रामाण्यस्मरणम्—
अपि वा कर्तृसामान्यादुक्तो न्यायश्च यः स्मृतेः ।
प्रमाणत्वे समानोऽसौ वेदाङ्गेष्वपि गम्यते ॥ ९०७
१. क. कालात्मनः । २. क. कृन्ताङ्गस्य ।