मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 646, कुल 804 में से
संदर्भ में पढ़ें५९२ मीमांसादर्शनम् [ सू०
अशक्तैर्नाशिताश्चान्ये दाक्षिण्याद्यनुवर्तनात् ।
जानन्तोऽपि प्रयुञ्जीरन् यदि शास्त्रं न वारयेत् ॥ ८८५
अन्येऽपि प्राकृतालापैरशक्तैर्व्यवहर्तृभिः ।
सह व्यवहरन्तस्तानुपेत्यापि प्रयुञ्जते ॥ ८८६
तत्कथं नाम यत्किञ्चित्स्यादपभ्रंशकारणम् ।
दूरात्परिहरेयुस्तदिति यत्नो नियम्यते ॥ ८८७
यत्तु दृष्टार्थप्रत्ययाननिराकाङ्क्षत्वाददृष्टार्थप्रयोगोत्पत्त्याशास्त्रत्वमिति ।
तत्रोच्यते—दृष्टे सत्यपि सर्वत्र नियमाददृष्टमिष्यते ।
क्रत्वर्थं १पुरुषार्थं च तत्संयोगपृथक्त्वतः ॥ ८८८
'एकस्य तूभयत्वे संयोगपृथक्त्वं' ४-३-५ तच्चेह प्रकरणानारभ्यवादाभ्याम-
वगतम् । तत्र—
क्रत्वर्थांशे परार्थत्वादर्थवादः फलश्रुतिः ।
पुरुषार्थे तु निर्देशात्फलमात्रेयदर्शनात् ॥ ८८९
क्रत्वर्थं ह्यनिर्ज्ञातोपायत्वात्सर्वादृष्टोपसंग्रहक्षममिति नियमापूर्वमात्मसात्कुर्व-
त्पुरुषार्थांशे फलश्रुतिमर्थवादीकरोति । पुरुषार्थस्य नियमस्य त्ववश्यकल्पनीय-
प्रयोजनत्वादर्थप्रतिपत्तेश्चापभ्रंशेऽप्यक्षिनिकोचादिभ्यो वा सुतरां सिद्धत्वादनाका-
ङ्क्षितनियमापूर्वोेपजीवनसामर्थ्यं नास्तीत्यवश्यमर्थवादोपात्तमेव स्वर्गलोके काम-
धुग्धाग्धेव फलत्वेनाऽऽश्रयणीयम् ।
यत्तु न ज्ञायते क्वेदं नियमापूर्वमाश्रितमिति, तत्राभिधीयते—
नियमापूर्वस्याश्रयनिरूपणम्
क्रत्वर्थं तावदङ्गेषु तदर्थेष्वेव संश्रितम् ।
अनङ्गत्वाभिधानार्थं स्यात्क्रत्वर्थं नराश्रितम् ॥ ८९०
'प्रकरणविशेषाद्वा तद्युक्तस्य तत्संस्कारो (४-३-१८) द्रव्यवत्' इति हि ज्योति-
ष्टोमप्रकरणगतब्राह्मणशब्दलक्षिततदपूर्वसाधनयजमानसंस्कारत्वात्साधुभाषणनिय-
मापूर्वस्य । 'याजमानास्तु तत्प्रधानत्वात्कर्मवत्' (३-८-२) इत्यनेन न्यायेन फल-
प्रतिग्रहणयोग्यत्वाधानार्थं तदाश्रितमेव विज्ञायते । पुरुषार्थवाक्येऽपि सम्यग्ज्ञात-
सुप्रयुक्तत्वाक्षिप्तज्ञातृप्रयोक्तृपर्युपस्थापनात्क्रियाफलयोश्च तद्गामित्वात्प्रधानया-
गाद्यपूर्ववदेव ज्ञातृप्रयोक्त्राश्रितं निष्पद्यते ।
तत्रैव दृष्टान्तप्रदर्शनम्
तृतीयोक्तिक्रियागम्यगुणभावेऽपि वक्तरि ।
संस्कार्यत्वात्प्रधानत्वं स्यात्प्रयाजाज्यशेषवत् ॥ ८९१
१. क. पृथक्त्वंकारणं ।