उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)
Upavanavinoda of Sharngadhara with Commentary
आचार्य शार्ङ्गधर (सम्पादक: पं. गिरिजाप्रसाद) द्वारा
SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 41
न कुर्यान्नैऋत्याग्नेयेष्वपि हि वाटिकाम् ।
अन्यथा कलहोद्वेगौ कष्टं वा लभते भृशम् ||३२
तस्माद्राज्ञा हि शुभदं पुत्रसंनिधिवर्धनम् ।
पश्चिमोत्तरपूर्वेषु भवेदुपवनं कृतम् ॥३३
अथ भूमिनिरूपणम् ।
जाङ्गला नूपसामान्यस्वभावापि च मेदिनी ।
भेदैः सा भिद्यते षड्भिर्वर्णतो रसस्तस्तथा ॥३४
असितविपाण्डुश्यामल्ललोहितसितपीतरोचिषः क्रमशः ।
मधुराम्ललवणतिक्तककटुककषाया भुवो रसतः ॥३५
विषपाषाणवल्मीकविलदुष्टा तथोषरा ।
दूरोदका शर्करिला तरुभ्यो न हिता मही ॥ ३६
इन्द्रनीलशुकपक्ष कोमला
शङ्खकुन्दकुमुदेन्दुसंनिभा ।
तप्तकाञ्चनविकासिचम्पक-
स्पर्धिनी वसुमती प्रशस्यते ॥ ३७
समा समासनजला हरित्तरुतृणाङ्कुरा ।
तस्यां सर्वे यथास्थानं प्ररोहन्ति महीरुहाः ॥ ३८
न जाङ्गला न चानूपा भूमिः साधारणा शुभा ।
तस्यां सर्वेपि तरवः प्ररोहन्ति न संशयः ॥ ३६
(a) गणनाथ-लभते क्षते ॥
(b) " तस्माद्राज्ञा हि शुभदं पुत्रपौत्रादिवर्धनं ।
(c) " शुकपुच्छ कोमला
(d) " श्यामा समासन्नजला हरिता तरुणाङ्कुरा ।
(e) " साधारणी शुभा ।
1 Cf. Vanaspati, Section VI, pp. 66-70.
2 Cf. Charaka, Kalpasthāna I, Madanaphalakalpa, 6, 7, 9. For Eng. trans. see Fasc. Lxi,
Lesson I, pp. 1917-1918.
Suśruta, chap. 35, 34-42; Eng. trans. Vol. II. pp. 325-326.
Arthaśāstra, XXIV, 116-117, where details as to the amount of rainfall in
these region are given. Eng. Ed. (1915), pp. 143-145.
6
42 UPAVANA VINODA
पनसलिकुचतालीवंशजम्बीरजम्बू
तिलकवटᵃकदम्बाम्रातकखर्जूरपूगाः ।
कदलीतिनिशमृद्वीकेतकीनालिकेर
प्रभृतय इति चान्ये प्रायशोनूपजाः स्युः¹ ॥ ४० ᵇ
बीजपूरकपुंनागचम्पकाप्रातिमुक्तकाः ।
प्रियंगुदाड़िमाद्याश्च साधारणसमुद्भवाः ॥ ४१
निधिदेवमहीपानां प्रभावाच्चातियत्नतःᶜ ।
असात्म्यभूमिसंपन्नाᵈ अपि सिध्यन्ति पादपाः ॥ ४२
अथ पादपविवक्षा।²
वनस्पतिद्रुमलतागुल्माः पादपजातयः
बीजात्काण्डात्तथा कन्दात्तजन्म त्रिविधं विदुः³ ॥ ४३
ते वनस्पतयः प्रोक्ता विना पुष्पैः फलन्ति ये ।
द्रुमाश्च तेᵉ निगदिताः सहपुष्पैः फलन्ति ये ॥ ४४
प्रसरन्ति प्रतानैर्यास्ता लताः परिकीर्त्तिताः ।
बहुस्तम्बा विटपिनो ये ते गुल्माः प्रकीर्त्तिताः ॥ ४५
(a) गणनाथ—तिलकघटकदम्बामात etc.
(b) The following additional sloka is found in Gananath Sen's edition :
शोभाञ्जन-श्रीफल-सप्तपर्णी
शेफालिकाशोक-शमी-करीराः ।
कर्कन्धु-राकेचर-निम्ब-शोका
वृद्धिं लभन्ते भुवि जाङ्गलायाम् ॥
(c) गणनाथ—प्रभावाच्चापि यत्नतः ।
(d) ,, असात्म्य-भूमि-सम्पन्ना etc.
(e) ,, द्रुमाश्चान्ये etc.
1 Cf. Bṛhatsaṁhitā, chap. 54, 10-11, (Vol. II. p. 745), where 16 predominant trees of this
region are mentioned; also Amarakoṣa, Pātālavarga, 50-56. (See Colebrook's
edition (1807) Bk. I. Chap. 2, Sec 3, Aquatic plants, 36-42).
2 See Vanaspati, Sec. V. pp. 62-65 ; Sec. VII. pp. 79-127.
3 Cf. Ṛgveda X. 97, 15.
Manu Saṁhitā, I. 46-48.
Charaka, Sūtrasthāna, I. 36-37.
Suśruta, Sūtrasthāna, I. 23.
Dalvana, quoted in Dr. Seal's Positive Science, p. 170.
Amarakośa—ibid, pp. 171-173.
SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 43
जम्बूचम्पकपुंनागनागकेशर चिञ्चिणी ।
कपित्थबदरीबिल्वकुम्भकारिप्रियङ्गवः ॥ ४६
पनसाम्रमधूकाद्याः करमर्दश्च बीजजाः ।
ताम्बूली सिन्धुवारश्च तगराद्याश्च काण्डजाः¹ ॥ ४७
पाटलादाडिमीप्लक्षकरवीरवटादयः ।
मल्लिकोदुम्बरः कुन्दो बीजकाण्डोद्भवा मताः ॥ ४८
कुङ्कुमार्द्र रसोनारुकन्दाः कन्दसमुद्भवाः ।
एलापद्मोत्पलादीनि बीजकन्दोद्भवानि तुᵃ ॥ ४९
अथ बीजोप्तिविधिः ।
सम्यक्कृष्टे समे क्षेत्रे माषानुप्त्वा तिलांस्तथा² ।
सुनिष्पन्नानपनयेत्तत्रᵇ बीजोप्तिरिष्यते ॥ ५०
अथर्तु पक्वात्फलतोवशोपिता-ᶜ
न्विकृष्य बीजं पयसा निषिच्य ।
विशोषितं पञ्चदिनानि सर्पिषा
विडङ्गमिश्रेण च धूपयेत्ततः ॥ ५१
क्षीरनिषिक्तं बीजं वृहतीतिलभस्मसर्पिषा लिप्तम्ᵈ ।
गोमयमृदितमथोप्तं सद्यो जायेत धूपितं वसया ॥ ५२
पयसि निषिक्तं बीजं गोमयपरिमर्द्दितं विशोष्य ततः ।
माक्षिकविडङ्गचूर्णैर्बहुशो मृदितं प्रजायेत ॥ ५३³
(a) गणनाथ—बीजकन्दोद्भवानि च ॥
(b) ,, सुनिष्पन्नान् समुद्धृत्य तत्र etc. ।
(c) ,, अथर्तुपक्वं फलतो विशुष्कतः
(d) ,, क्षीरे निषिक्त-बीजं बृहती तिलमेव सर्पिषायुक्तं ।
1 Cf. Ṛgveda, Atharvaveda, where scattered references are met with all throughout
the texts ; Dīgha-Nikāya I. p. 3.
Buddhaghoṣa's Sumaṅgala, Vilāsinī, D.I. 1, 11. (P. T. S. I, p. 81).
Kauṭilya's Arthaśāstra, chap. 24. p. 141.
Manu Saṃhitā I, 46-48 ; Bṛhatsaṃhitā, chap. 54.
Maskarin Gosāla—Barua, chap. xxi., p. 307 ; Hemchandra, quoted in Śabdakalpa-
druma, iv, p. 475.
2 Cf. Atharva Veda, II. 8. 3.
3 Cf. Kauṭilya's Arthaśāstra, chap. 24. 117, p. 145.
Bṛhatsaṃhitā, chap. 54. 19, 26.
44 UPAVANA VINODA
जम्बूपनसचूतानां सरलं लकुचस्य च ।
क्षीरसिक्तं वपेद्विजं घृतगोविङ्विडङ्गवत् ॥ ५४
शुचिस्नातः विप्रहृसनममल˙ पूजितसुरो
गुरुं नत्वा दत्वा वसु वसुमतीं वा गुणवते ।
स्वयं बीजान्यादौ वपति कतिचिद्वास्तुपुरुषं
मनस्यन्तः कृत्वा तदनु परितोऽन्यः परिजनः ॥ ५५
बीजधानीं तृणास्तीर्णां कृत्वा सिञ्चेत्पयोऽम्बुना ।
जाताङ्कुरां च सलिलैर्निस्तृणां शोषमानयेत् ॥ ५६
अथ रोपणविधानम् ।
अन्यथाविहितानां यन्मनोज्ञतासंपदौ नस्तः ।
कथयाम्यतस्तरूणां रोषविधानं$^a$ यथोद्दिष्टम्$^b$ ॥ ५७
ध्रुवमृदुमूलविशाखागुरुभं श्रवणस्तथाश्विणी हस्तः ।
उक्तानि दिव्यदृग्भिः पादपसंरोपणे भानि ॥ ५८$^1$
हस्त प्रमाणानपयसा सुसिकान्
संक्रामयेन्मूलबहः$^c$ समृत्कान् ।
सर्पिर्मधुशीर$^d$ विडङ्गलिप्ता-
न्बिले निदध्याच्च करीषयुक्ते$^e$ ॥ ५९
अबालुकाश्लक्ष्णमृदा पूरिते गर्त्तशोधनम् ।
कीदशार्धमिते खाते जलसिके वपेत्तरुम् ।
कदलीचीरिणौ रोप्यौ$^f$ मूले दत्वा तु गोमयम् ॥ ६०
(a) गणनाथ—रोपणविधिना etc.
(b) The following additional sloka is found in Gananath Sen’s edition :
रोहिणी सहितमुत्तरात्रयं कीर्त्तयन्ति मुनयो ध्रुवाख्यम् ।
त्वाष्ट्र-मित्र-शशि-पूष-दैवता-—न्यामनन्ति मुनयो मृदूव्यथ ॥
(c) गणनाथ—संक्रामयेन्मूलवतः etc.
(d) ,, ससर्पिषोशीर etc.
(e) ,, करीषपूर्णे ॥
(f) ,, कदली चीरिनो रोप्यौ etc.
1 Cf. Bṛhatsaṃhitā, chap. 54, 31.
Agni P. chap. 281, 3, 4 & 6.
SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 45
रम्भायाः सुपरिणतैः फलैर्बिलिप्तां
संशुष्कां भुवि निहितां पलालरज्जुम् ।
शुद्धायामुपरि तृणेन गाढगुप्ता-ᵃ
मासिञ्चेद्वहुजलैर्बहून्यहानि ॥ ६१
सा रज्जूस्तदनु तमालनीलभासोᵇ
बिभ्राणानरुणरुचोङ्कुरानप्रसूते ।
भूयस्तानुपचितपत्रकाण्डमूला-
नारोप्य प्रथितविधानतो निषिञ्चेत् ॥ ६२
आषाढ़े श्रावणे मासि बीजावपन रोपयो ।
ग्रीष्मादन्यत्र वल्लीनां केचिदिच्छन्ति रोपणम् ॥¹ ६३
मण्डपन्यावर्त्त स्वस्तिकचतुरस्रसर्वतोभद्रैःᶜ ।
बीथीनिकुञ्जपुञ्जकविन्यासैः पादपा रोप्यः ॥ ६४
दशविंशतिषोडशभिस्तु करै-
रधरोत्तरमध्यकृतान्तरकान् ।
द्विचतुस्त्रिभिरन्तरितान् क्रमशःᵈ
स्तृणपादपगुल्मभृतश्च वपेत् ॥² ६५
सान्द्रारोपणमवृद्धिकारणं
वातभीतिरतिदूररोपणात् ।
भिन्नवर्णरचनाल्पपीड़ना
नैव युक्तिरियमेव शस्यतेᵉ ॥ ६६
(a) गणनाथ—शुद्धायामुपरितया च गाढगुप्तां
(b) ,, सा रज्जुस्तरुण-तमाल-नील-भासा
(c) ,, मण्डप-नन्दावर्त्तैः स्वस्तिक etc.
(d) ,, द्विचतुस्त्रिभिरन्तरितान्रुचिरां—
(e) ,, भिन्नवर्ण-रचनाल्प-पीड़िता—
नान्तु युक्ति etc.
1 Cf. Bṛhatsaṁhitā, 54. 7; also Kaśyapa quoted by Bhaṭṭotpala in his Commentory on this sloka.
2 Cf. Agni P. chap. 281, 8 & 9.
Śukranīti, IV, iii, 91–93.
Bṛhatsaṁhitā, 54, 12,
46 UPAVANA VINODA
कुसुमं फलमप्युपभोगसहं
फलिनो हि न यस्य दलन्ति शिखाः ।
कुसुमेन बिनैव फलन्ति च ये
न भवन्ति शुभास्त इहापनसाःᵃ ॥ ६७
मातुलुङ्गरजनी सकण्टकः
किंशुकश्च गिरिकर्णिका सिता ।
तिन्तिड़ीकविफलाक्षनीलिकाः
कोविदार इति भीतिदो गणः ॥ ६८
फलिन्यशोकपुंनागशिरीषनिम्बचम्पकाः ।
मङ्गल्याः प्रथमं रोप्य भल्लातश्च गदापहःᵇ ॥ ६६
पूर्बस्यां करमर्दवंशबिटपाः पारावता दक्षिणे
कौवेर्यां बदरी कपित्थतरबो धात्री च पश्चात्किबा ।
अन्ये चोत्तममध्यमाधमशिखा रोप्यः स्ववर्गैः समं
कृत्वा चान्तरकं यथायथममी यत्नैर्नृपर्य्येरुपृशः ॥¹ ७०
अथ निषेचनविधिः ।
सर्व्वस्यापि नवोत्थस्य सायं प्रातर्निषेचनम् ।
शीतातपसमीरेभ्यो रक्षेच्च सुबिधानतः ॥ ७१
हेमन्ते शिशिरे देयं जलं चैकान्तरे दिने ।
बसन्ते प्रत्यहं ग्रीष्मे सायंप्रातर्निषेचनम् ॥² ७२
बर्षासु च शरत्काले यदा वृष्टिर्न दृश्यते ।
तदा देयं जलं तज्जैरालबाले महीरुहाम् ॥ ७३
वारिणा यावता यस्य मूले सौहित्यमिष्यते ।
तावत्तस्य तरोर्देयं किं घटार्थविवक्षया ॥ ७४
(a) गणनाथ—न भवन्ति शुभा इह ते पनसाः ॥
(b) ,, भल्लातस्तु गदावहः ॥
(c) ,, तदा देयं जलं तव आलवाले महीरुहि ॥
1 Cf. Bṛhatsaṁhitā, 54, 13, which states that
मिश्रैर्मूलैश्च न फलं सम्यग्यच्छन्ति पीडिताः ॥
2 Cf. Agni P. chap. 281, 7.
Śukranīti, IV. iv, 105—106.
Bṛhatsaṁhitā, 54, 9.
SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 47
आलबालस्थिते तोयं शोषं न भजते यदा ।
अजीर्ण तद्विजानीयान्न देयं तादृशे जलम् ॥ ७५
समीपजातं यत्नेन तृणगुल्मलतादिकम् ।
स्फोटनीयं विधिज्ञेन द्रुमाणां वृद्धिरिच्छति ॥ ७६
अथ द्रुमरक्षा ।$^1$
नीहाराच्चण्डवाताच्च धूमाद्वैश्वानरादपि ।
जालकारात्प्रयत्नेन रक्षणीयाः क्ष्माहरुहाः ॥ ७७
पङ्क्तिमध्ये तु सुफला बाह्ये तत्परोतपरे ।
वृत्ताः कार्या युतावृत्त्या सा चापि परिखायुता ॥ ७८
विद्युदाहतवृक्षस्य भूमिमादाय सर्वतः ।
रक्षार्थं विकिरेदेषां तया न हिमबाधनम् ।
दीप्तोऽप्यग्निः शमं याति वज्रदग्धद्रुभस्मना ॥ ७९
सितशाल्योदनं दध्ना सैन्धवेन युतं बने ।
क्षेपणीयं च परितो गराणां दृष्टिवारणम् ॥ ८०
शलभाखुपतङ्गानां पिपील्यादेर्भये सति ।
अष्टोत्तरशतं जप्त्वा मन्त्रं पत्रे ततो लिखेत् ॥ ८१
मन्त्रः । ॐ स्वस्ति किष्किन्धास्थितप्रकटपराक्रमान्तर्हितार्कमण्डलोपजीवितस्य
श्रीहनूमानाज्ञापयति मूषकपतङ्गपिपीलिकाशलभकरभान्वककीटगन्धिकानिवहैर्र्गा-
स्थातव्यम् । आज्ञामतिक्रममाणस्य शरीरनिग्रहः समावर्त्तयति । तस्य वानरसिंहस्य
क्रममानस्य सागरम् । कल्पान्तरगतो वायुर्जीमूत इव नर्दति ॥ हूं फट् नमः ॥
पत्रे मनुंस्मालिख्य जप्त्वा तं निखनेद्भुवि ।
क्षेत्रे कीटपतङ्गाखुपिपील्यादिर्विनश्यति ॥ ८२
(a) गणनाय—तादृशं जल' ॥
(b) " वृद्धिमित्छुता ॥
(c) " महीरुहाः ॥
(d) " परिखावृता ।
(e) " परितः etc.
(f) " पत्रे तरोर्लिंखेत् ॥
1 To be read with Section on तरुचिकित्सा, p. 58.
48 UPAVANA VINODĀ
अथोपवनप्रक्रिया ।¹
घनप्रवालस्थगितातपानि
विकीर्णपुष्पाणि समीरगेन ।
गृहाणि कुर्यादतिमुक्तकानां
लताभिरालोल मधुव्रताभिः ॥ ८३²
स्थानेष्वपरेषुª तथा पादपयुगलेषु मिथुनसंवाहाः ।
शाखावलम्बिनीभिर्दोलाः कार्या लताभिश्च ॥ ८४
तरुविटपलतानिकुञ्जरम्या
विरचितक'न्दरसानुगण्डशैला ।
विविधमणिगृहा विचित्रधातुः
क्वचिदपि पर्वतिका विहारहेतुःᵇ ॥ ८५
केकानिनादसुभगाः सदासंत्रासिताहयः ।
ताण्डवेन तदुद्देशान्मण्डयन्ति शिखण्डिनः ॥ ८६
मन्दः । विलम्बिनो यत्र तटद्रुमा वपु-
र्विलोकयन्ति प्रसवेद्गौरिव ।
समं दिशन्तः कलहंसभूषणा
क्वचिद्भवेत्पुष्करिणी मनोरमा ॥ ८७³
(a) गणनाथ—स्थानेष्वप्येषु etc.
(b) The following additional sloka is given in Gananath's edition :
जल-प्रपात-निर्झरैः सुशोभितं मनोरमं ।
स्थलञ्च सौरभोल्लसत्-समस्त-वारियन्त्रकैः ॥८८
1 Cf. Ṛgveda, III. 8. 11, about "The consecration of a garden". See also Sānkhāyana's
Gṛhya Sūtra, V. 3. 2, et seqq.
2 Cf. Vātsyāyana's Kāmasūtra where details of the construction of a Vṛkṣavāṭikā are
given. See Introduction p. 17-18; and also Chakladar. pp. 151-156 where passages
are also quoted from Raghuvaṁśa, XIX, 9; Kāmasūtra, 17; Viṣṇu Smṛti, V. 117;
Bhāsa's Svapna-Vāsavadattā, Act V.
Cf. Also Matsya P. chap. 256, 3-10.
Śukranīti, IV. iv, 104.
Kāmandakinīti, XIV, 27-42.
3 Bṛhatsaṁhitā, 54 :—प्रान्तच्छायाविनिर्मुक्ता न मनोज्ञा जलाशयाः ।
यस्मादतो जलप्रान्तेष्वारामान् विनिवेशयेत् ॥ १
SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 49
निर्यादः सलिलां सुखावतरणां तीरेषु पुष्पद्रुमां
कूजद्वन्नविहङ्गमां सतरणीमत्यायतां दीर्घिकाम्$^{a}$।
कुर्यात्तत्र समुल्लसत्कमलिनीपत्राङ्कुरश्यामलां
श्यामालोचनमल्लिकां विदधतीं नीलोत्पलानि क्वचित् ॥ ८८
उपवनमिव वारिमध्यमग्नं
विमलतया प्रतिबिम्बितं दधाना।
शशिकरनिकरेण पूरिते च$^{b}$
क्वचिदुपनेयपयः सुखाय वापी$^{c}$ ॥ ८९
मध्ये तस्मिन्शिशिरशिखरिखर्पिध वेश्म प्रवातं
गूढोपान्तं सुरभिकुसुमैः शाखिभिर्नम्रशाखैः ।
स्थाने स्थाने स्फटिकधवलं मण्डपं मण्डनाहं$^{d}$।
कुर्यात्कस्मिन्नपि च कदलीमन्दिरं मन्दवायु ॥ ९०
क्वचिदपि कूपं कुर्यादुपवनदेशे सुमृष्टसलिलभरम् ।
संसिक्तसकलविटपं बद्धं पाषाणसंचयैः$^{e}$ परितः ॥ ९१
अञ्जनमुस्तोशीरैः सनागकोशातकामलकचूर्णैः ।
कतकफलसमायुक्तैः कूपे योगः प्रदातव्यः ॥ ९२
कलुषं कटुकं लवणं विरसं
सलिलं यदि वाशुभगन्धि भवेत् ।
तदनेन भवत्यमलं सुरसं
ससुगन्धि गुणैरपरैश्च युतम् ॥ ९३
अथ कूपार्थ भूमिपरीक्षा ।$^{1}$
पातालादूर्ध्वगमाः शिराः प्रसर्पन्ति सर्वतो दिक्षु ।
नीरस्य भूममध्ये ज्ञात्वा ताः कल्पयेत्कूपम् ॥ ९४
(a) गणनाय—कूजद्व'हविहङ्गमां सुतरणीमत्यायतां दीर्घिकां ।
(b) ,, शशिकरनिकरेण भूषितेव
(c) ,, क्वचिदमलपयः etc.
(d) ,, स्थाने स्थाने स्फटिक-धवलान् मण्डपानर्हमण्डान्
(e) ,, बद्धं पाषाण-शकलैः etc.
1 Cf. Bṛhatsaṁhitā, chap. 53, translated in the Introduction and quoted in the Appendix.
Cf. also Fausboll no 2, Vaṇṇupatha Jātaka.
7
50 UPAVANA VINODA
यदि वेतसोऽम्बुरहिते देशे हस्तैस्त्रिभिस्ततः पश्चात् ।
सार्धे पुरुषे तोयं वहति शिरा पश्चिमा तत्र ॥ ६५
चिह्नमपि चार्थपुरुषे मण्डूकः पाण्डुरो हि मृत्पीता ।
पुटभेदकश्च तस्मिन् पाषाणे भवति बहुतोयः ॥ ६६
जम्बूवृक्षस्य प्राग्वल्मीको यदि भवेत्समीपस्थः ।
तस्माद्दक्षिणपार्श्वे सलिलं पुरुषद्वये साधु ॥ ६७
अर्धपुरुषे च मत्स्यः पारावतसंनिभश्च पाषाणः ।
मृद्भवति तत्र नीला दीर्घं कालं^a च बहुतोयम् ॥ ६८
वल्मीकोपमितायां निर्गुण्ड्यां^b दक्षिण' करत्रयोन्माने ।
पुरुषद्वयेन पादे भवति जलं स्वादु चाशोष्यम् ॥ ६६
रोहितमत्स्योर्धनरे मृत्कपिला पाण्डुरा ततः परतः ।
सिकताश्च शर्कराश्च क्रमेण परतो भवत्यम्भः ॥ १००
पूर्वेण यदि बदर्या वल्मीको दृश्यते जलं पश्चात् ।
पुरुषैस्त्रिभिरादेश्यं श्वेता गृहगोधिकाऽर्धनरे ॥ १०१
सफला वा बदरी चेद्दिश्यपरस्यां जलं ततो भवति ।
पुरुषत्रये सपादे भवति परं दुन्दुभेश्चिह्नम्^c ॥ १०२
काकोदुम्बरिकायां वल्मीको दृश्यते शिरा तस्मिन् ।
पुरुषत्रये सपादे पश्चिमदिक्स्था च सा वहति ॥ १०३
आपाण्डुरा च मृत्स्ना^d गोरसवर्णाश्च भवति पाषाणः ।
पुरुषार्धे कुमुदनिभो दृष्टिपथं मूषको याति ॥ १०४
आसन्नो वल्मीको दक्षिणपार्श्वे विभीतकस्य ।
अध्यर्धे भवति शिरा^e पुरुषे ज्ञेया दिशि प्राच्याम् ॥ १०५
तस्यैव पश्चिमायां वल्मीको यदि भवेद्द्रुस्ते ।
तत्रोदग्भवति^f शिरा चतुर्भिरर्धाधिकैः पुरुषैः ॥ १०६
(a) गणनाथ—नीला सुदीर्घकालञ्च बहुतोयम् ॥
(b) ,, वल्मीकोपचितायां निर्गुण्ड्या etc.
(c) ,, परं दुण्डुभे चिह्न' ॥
(d) ,, आपाण्डुरीव मृत्स्ना etc.
(e) ,, अध्यर्द्ध तस्य शिरा etc.
(f) ,, तचोदग्भवति शिरा etc.
SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 51
श्वेतो विश्वंभरकः प्रथमे पुरुषे तु कुङ्कुमाभोश्मा
अपरस्यां दिशि च शिरा नश्यति वर्षत्रयेतीते ॥ १०७
सकृशः सितª एतस्यां वल्मीको यत्र कोविदारस्य ।
मध्ये तयोर्नरैरर्ध पञ्चमैस्तायमक्षोभ्यम् ॥ १०८
प्रथमपुरुषे भुजङ्गः कमलोदरसंनिभा मही रक्ता ।
कुरुविन्दकपाषाणाश्चिह्नान्येतानि वाच्यानि ॥ १०६
सर्वेषां वृक्षाणामधःस्थितं दर्दुरं यदा पश्येत् ।
तस्माद्धस्ते तोयं चतुर्भिरर्धाधिकैः पुरुषैः ॥ ११०
उत्तरतश्च मधूकादहिनिलयः पश्चिमोत्तरे तोयम् ।
परिहृत्य पञ्चहस्तानर्धाष्टमपौरुषं वाच्यम् ॥ १११
अहिरजः पुरुषेस्मिन्मृद्वा धात्री कुलत्थवर्णाभा
माहेन्द्री वहति शिरा भवति सफेनं सदा तोयम् ॥ ११२
सर्पावासः पश्चाद्यदा कदम्बस्य दक्षिणेन जलम्ᵇ ।
पुरतो हस्तत्रितयात्षड्भिः पुरुषैस्तुरीयोनेःᶜ ॥ ११३
वल्मीकसंग्रृतो यदि तालो वा भवति नालिकेरो वा ।
पश्चात्षड्भिर्हस्तैर्नरे᳭श्चतुर्भिः शिरा यस्यᵈ ॥ ११४
अश्मातकस्य वामे बदरी वा दृश्यतेहिनिलयो वा ।
षड्भिरुग्वास्त्य करैःᵉ सार्ध पुरुषत्रये तोयम् ॥ ११५
कूर्मः प्रथमे पुरुषे पाषाणो धूसरः ससिकता मृद् ।
आदौ शिरा च याम्यां पूर्वोत्तरातो द्वितीया च ॥ ११६
जलरहिते यदि देशे चिन्हान्यनूपजानि दृश्यन्ते ।
वीरणदूर्वा हरिताᶠ यत्र हि तस्मिञ्जल पुरुषे ॥ ११७
(a) गणनाथ—ससितः कृश etc.
(b) ,, यदा कदम्बस्य दक्षिणेनालं ।
(c) ,, षड्भि पुरुषैस्तु पाथी वै ॥ 2993
(d) ,, शिरा याम्यां ॥
(e) ,, षड्भिरुदकाशा करैः etc.
(f) ,, वीरणदूर्व्वारहिते यव etc,
52 UPAVANA VINODA
तिलकाम्रातकवरुणकभल्लातकबिल्व$^a$तिन्दुकाङ्कोलाः ।
पिण्डीरशिरोषाञ्जनपरुषक$^b$वञ्जुलानिचलाः ॥ ११८
एते यदि सुस्निग्धैर्वल्मीकैः परिवृतास्ततस्तोयम् ।
हस्तैस्त्रिभिरुत्तरतश्चतुर्भिरर्धेन च नरस्य ॥ ११६
अतृणे सतृणा यस्मिन् सतृणे तृण वर्जिताः मही यत्र ।
तस्मिन् शिरा प्रदिष्टा वक्तव्यं वा धनं तत्र$^c$ ॥ १२०
कण्टक्यकण्टकानां व्यत्यासेम्भस्त्रिभिः$^d$ करैः पश्चात् ।
खात्वा पुरुषत्रितयं त्रिभागयुक्तं धनं वा स्यात् ॥ १२१
वृक्षस्यैका शाखा यदि विनता भवति पाण्डुरा वा स्यात् ।
विज्ञातव्यं शाखायतले नीरं त्रिपुरुषं तु$^e$ ॥ १२२
फलकुसुमविकारो यस्य तस्य पूर्वे शिरा त्रिभिर्हस्तैः$^f$ ।
भवति पुरुषैश्चतुर्भिः पाषाणाधः क्षितिः पीता ॥ १२३
यदि कण्टकहीणा स्यान्निदिग्धिक्रा शुक्लपुष्पसंयुक्ता ।
तस्यास्तलेम्बु वाच्यं त्रिभिर्नरैरर्धपुरुषे वा ॥ १२४
खर्जूरी द्विशिरस्का यत्र भवेज्जलविवर्जिते देशे ।
तस्याः पश्चिमभागे निर्दे श्यं त्रिपुरुषैर्वारि ॥ १२५
यदि भवति कर्णिकारः सितकुसुमः स्यात्पलाशवृक्षो वा$^g$ ।
सव्येन तत्र हस्तद्वयेम्बु पुरुषत्रये भवति$^h$ ॥ १२६
ऊष्मा यस्यां धात्र्यां धूमो वा तत्र वारि नरयुगले ।
निर्देष्टव्या च शिरा महता वारिप्रवाहेण ॥ १२७
यस्मिन् क्षेत्रोद्देशे$^i$ जातं शस्यं विनाशमुपयाति ।
स्निग्धमतिपाण्डुरं वा महाशिरा नरयुगे तत्र ॥ १२८
(a) गणनाथ—भल्लातक-तिल्व-तिन्दुक etc.
(b) ,, परुषकार्क etc.
(c) ,, वक्तव्यं जीवनं तच ॥
(d) ,, प्रत्यासन्नस्त्रिभिः करैः etc.
(e) ,, त्रिपुरुषं तत् ॥
(f) ,, फलकुसुमविकारो यत्र तस्मात् पूर्वे etc.
(g) ,, स्यात् पलाशवृक्षे च ।
(h) ,, सव्येन तत्र हस्तद्वयपुरुषत्रये वा भवति जलं ॥
(i) ,, यस्मिन् चेत्तं देशे जातं etc.
द्वितीय खण्ड: पादप-रोपण, खाद-सिंचाई एवं वृक्ष-चिकित्सा
SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 53
मरुदेशे भवति शिरा यथा तथातः परं प्रवक्ष्यामिᵃ।
ग्रीवा करभाणामिव भूतलसंस्था शिरा यातिᵇ ॥ १२९
पूर्वोत्तरेण पीलोर्यदिᶜ वल्मीको जलं भवति पश्चात् ।
उत्तरगमना च शिरा विज्ञेया पञ्चभिः पुरुषैः ॥ १३०
चिह्नं दर्दुर आदौ मृत्कपिला तत्परं भवेद्धरिता ।
भवति च पुरुषे बाश्मा तस्य तले परि निर्द्देश्यम्ᵈ ॥ १३१
बदरीरोहितवृक्षौ संसृक्तौ चेद्विनापि वल्मीकात् ।
हस्तत्रयेम्बु पश्चात्षोडशभिर्माजवैर्भवतिᵉ ॥ १३२
सुरसं जलमादौ दक्षिणे शिरा बहति चोत्तरेणान्याᶠ ।
पिष्टनिभः पाषाणो मुच्छ्वे ता वृश्चिकोऽर्धनरे ॥ १३३
सकरीरा चेद्बदरी त्रिभिः करैः पश्चिमेन तत्राम्भः ।
अष्टादशभिः पुरुषैरैशानी बहुजला च शिरा ॥ १३४
ककुभकरीरावेकत्र संयुतौ ककुभबिल्वौ वा ।
हस्तत्रयेम्बु पश्चान्न रैर्भवत्येकविंशत्या ॥ १३५
वल्मीकमूर्धनि यदा दूर्वा दर्भाश्च पाण्डुराः सन्ति ।
कूपो मध्ये देयो जलमत्र नरैकविंशत्या ॥ १३६
ग्रन्थिप्रचुरा यस्मिन्शमी भवेदुत्तरेण वल्मीकः ।
पश्चात्पञ्चकरान्ते शतार्धसंख्यैर्नरैः सलिलम् ॥ १३७
जम्बू स्त्रिवृता श्यामा शिशुमारी शारिबा शिवा दूर्वाᵍ ।
वीरुधयो वाराही ज्योतिष्मती गरुड़वेगा चʰ ॥ १३८
(a) गणनाथ—मरुदेशे भवति शिरा यथा यथा तत वक्ष्यामि ।
(b) ,, यत्र ॥
(c) ,, पूर्वोत्तरेण पीतं यदि etc.
(d) ,, चिह्न दर्दुर आदौ मृत् कपिला तत्परं भवेत् पृथी ।
भवति च पुरुषे चोष्मा तस्स तले वारि निर्द्देश्यं ॥
(e) ,, हस्तत्रयेम्बु पश्चान्न्रैर्भवत्येकविंशत्या ॥
(f) ,, सुरसं जलमादौस्यात् दक्षिण-शिरा वहति चोत्तरेण सा ।
(g) ,, श्यामा शिशुगन्धा वा शिवा दूर्व्वा ।
(h) ,, गरुडदूर्व्वा वा ॥
54 UPAVANA VINODA
सूकरिका माषलता व्याघ्रपदा चेति यद्यहेर्निलये ।
बल्मीकादुत्तरतः करैस्त्रिपुरुषबागतं तोयम् ॥ १३६
एतदनूपे वाच्यं जाङ्गलभूमौ च पञ्चभिः पुरुषैः ।
एतैरेव निमित्तैर्मरुभूमावष्टभिः कथयेत्ᵇ ॥ १४०
एकनिभा यत्र मही तृणतरुबल्मीकगुल्मपरिहीणा ।
तस्यां यत्र विकारो भवति धरित्र्यां जलं तत्र ॥ १४१
हस्ता मघानुराधापुष्यधनिष्ठोत्तराश्च रोहिण्यः ।
शतभिषगित्यारम्भे कूपानां शस्यते भगणः ॥ १४२
आग्नेये यदि कोणे ग्रामस्य पुरस्य वा भवति कूपः ।
नित्यं स करोति भयं दाहं च समानुषं प्रायः ॥ १४३
नैऋतकोणे बालक्षयं च वनिताक्षयं च वायव्ये ।
दिश्यैशान्यां भीतिः शेषास्तु शुभावहाः कूपाः ॥ १४४
या मेदिनी काशकुशैश्च युक्ता
नीला च मृद्यत्र सशर्करा च ।
तस्यां प्रणीतं सुरसं च तोयं
कृष्णाथवा यत्र च तिक्तमृत्स्ना ॥ १४५
सशर्कराभा तु मही कषायं
क्षारं धरित्री कपिला करोति ।
अपाण्डुरायां लवणं प्रदिष्टं
मिष्टं पयो नीलबसुन्धरायाम् ॥ १४६
अथ पोषणविधिः ।¹
फलकुसुमसंपदुचिता रोपणतो भवति केवलान्न यतः ।
पोषणविधिमथ संमतमनोकहानामतो वक्ष्ये ॥ १४७
(a) गणनाथ—शूकरिका माषलता व्याघ्रपदा वेति यदि कुभनिलये ।
वल्लीकादुत्तरतस्त्रिभिः करै स्त्रिपुरुषगतं तोयं ॥
(b) ,, पुरुषैः ॥
(c) ,, केवला न यतः ।
1 The origin of manuring can be traced as early as to a verse in the Ṛgveda (II, 8, 3). But
for a more elaborate prescription see Agni P. chap. 281 ; Bṛhatsaṁhitā, chap. 54 ;
Parāśara's Kṛṣi Saṁgraha (slokas 107—109), and Śukranīti, IV. iv, 94 ; 107—108 ;
109 ; 110—112.
SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 55
खर्जूरबिल्बलकुचाः सितसर्षपेण
पिण्याकतश्च तुषबारिशेन चान्नाः ।
ऐरावता निचुलपत्रजलोद्धतेन
सत्रीहिमां ससलिलेन च यान्ति वृद्धिम्ª ॥ १४८
प्राचीनामलकतरवः प्रिया हि माषाः
क्षीराम्भो हितमिह बालतिन्दुकानाम् ।
प्रीयन्ते यवरजसा च नालिकेराः
सर्वेषां भवति रुचिर्हि निम्नभूमौ ॥ १४९
कुरङ्गकिटिसारङ्गशृगालाश्वादिमेदसा ।
कथितेन सदुग्धेन पञ्चपल्लववारिणा ।
कृतसेको भवेदाशु सहकारोऽतिसौरभः ॥ १५०
घृतकुणपवचावराहविष्ठा-
सलिलमतीव सुखाय दाड़िमानाम् ।
कथितमथ कुलत्थचूर्णकं वा
जलमपि वृद्धिकरं सदा शफर्य्याःᵇ ॥ १५१
यष्टिफलाशफरीघृतलिप्तो
धूपित आद्यफलत्रयधूपैःᶜ ।
आम्रफलैरिह दाड़िमशाखी
तालफलानि विडम्बयतीव ॥१५२
दधिमस्तुकाञ्जिकसुराबदरी-
तिलमेथिकाकुणपसीधुपयः ।
फलिनीकदम्बकरिकेसरका-ᵈ
न्कुरुते सुगन्धिबहुपुष्पयुतान् ॥१५३
(a) गणनाथ—एलावता निचुल-पत्र-जलोचिता हि
सत्रीहिया तु सलिलेन च यान्ति वृद्धिम् ॥
(b) ,, निजमपि बद्धिकर' सदा फलाका' ॥
(c) ,, यष्टिफलाशफरीदललिप्तो
धूपित आज्य फलचय etc.
(d) ,, फलिनी-कदम्ब-करिकेशरकान् etc.
56 UPAVANA VINODÁ
प्रियङ्गुगुञ्जाफलनिम्बपिप्पली-
वंचाहरिद्रातिल सर्षपैः समैः ।
घृताश्वकर्णाम्बु विलोड्य पायये-
त्सचम्पके नागतरौ सुवृद्धिदम् ॥ १५४
सिक्ताम्भोभिः पललतुषयोः कुक्कुटानां पुरीषं
मूले दत्त्वा सकुसुमफला गोस्तनी वृद्धिमेति ।
स्कन्धस्थस्तैः पनसतरवोष्ण्याशु पालालभारै-^b
मूलादग्रं दधति च बचावारिसिक्ताः फलानि ॥ १५५
सर्पिर्गुण्डीरमधूपचारं
दत्त्वा निषिक्तौ च कपित्थविल्वौ ।
पीयूषकल्पान्यतिमांसलानि
फलान्यनस्थीनि सदा दधाते ॥१५६
कोशातकी दलशिफाकथितामिषाम्भः-
संसेचनाच्च सुकणारजसा च युक्तः ।
लब्धोपचारमथ धूपजलाभिषिक्तः
शोभां विभर्त्तिनितरां कुसुमैर्मधूकः ॥१५७
तिलयष्टिमधुक मधुभिर्मिश्रितजलसेकतर्पितावदरी ।
कुणपैरुपचितमूला फलति फलं शर्करामधुरम् ॥१५८
अजैडुकासूकरविङ् विडङ्ग-
किण्ण्वोपचारेण^d च बीजपूरः ।
भूयोश्वमूत्राविल^eवारिसिक्तः
फलानि धत्ते सुवहूनि शश्वत् ॥१५६
वृश्चिककण्टकविद्धाः सुरभीघृतधूपिता हि निखिललताः ।
मूषककोलवसाभिः संसिक्ताः स्युः फलैर्नम्राः ॥१६०
(a) गणनाथ—घृतावकर्णाम्बु विलोड्य पाययेत्
पङ्के च नागेशतरौ etc.
(b) ,, पातालभारै etc.
(c) ,, शोभां विभर्त्ति नितरां हि मधूकाइक्षः ॥
(d) ,, विष्ठोपचारिण etc.
(e) ,, मूचाविजवारिसिक्तः etc.
SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 57
सुरभिजलनिषेकात्तो निदाघे$^a$
कूणपजलेन च केतकी निषिक्ता।
जलधर समये सुगन्धसूची-
चयनिचितानि बिभर्त्ति पल्लवानि ॥१६१
यस्य कस्यापि पुष्पस्य सौरभैणाधिवासितान् ।
मृत्तिकाशकलाल्मूले वृक्षाणां बहुलान्क्षिपेत् ॥१६२
कुष्ठपत्रमुरामुस्ततगरोशीरचूर्णकैः ।
मिश्रितेनाम्भसा सेकान्मासं सौरभसंभवः ॥१६३
कुल्माषदन्तिदन्तानां चूर्णायुक्तपङ्कसंभवा$^b$ ।
प्रत्यहं पुष्पिताम्भोजमण्डिता पद्मिनी भवेत् ॥१६४
सिद्धार्थः कदलीदलानि शफरी विट्कोलमार्जारयो-
रेतेषां समभागमाज्यसहितं चूर्णं तरुभ्यो हितम् ।
दत्तं धूपविलेपनोपचरगैरोप्यायनं रोगहृ-
च्छाखाः पल्लवयत्यलं मधुकरव्यालोलपुष्पच्छदाः ॥१६५
धूपो घृतस्य समृद्धो यववारिसेको
नित्यं च दुग्धसलिलेः कुणपाम्बुभिर्वा ।
लेपो विडङ्गतिकल्ककृतः शिशूनां
वृद्धिं करोति परमां खलु भूरुहाणाम् ॥१६६
अङ्कोल्लक्वाथतोयेन मिश्रितं घृतमाक्षिकम् ।
वसा किटिकुरङ्गानामेतैः सिक्ता महीरुहाः ॥१६७
सिद्धार्थकफलोपेताः सर्वदा फलशोभिताः ।
जायन्ते पुष्पवन्वाढ्याः सच्छाया रोगवर्जिताः ॥१६८
यष्टिमधुकपुष्पानि सिता कुष्ठं समाक्षिकम् ।
निक्षिप्य गुलिकाः कृत्वा मूले सर्वत्र निक्षिपेत्$^c$ ॥१६६
दुग्धसेकं च वृक्षस्य यस्य कुर्याद्विचक्षणः ।
फलं सुनिश्चितं तस्य मधुरं जायते भृशम् ॥१७०
(a) गणनाथ—सुरभिजलेन निदाघे etc.
(b) ,, चूर्णयुक्तपुष्पसंभवा ।
(c) ,, निष्पिष्य गुटिकां कृत्वा मूले सर्वत्र निक्षिपेत् ॥
8
58 UPAVANA VINODA
अथ कुणपजलम् ।
कुरङ्गकिटिमत्स्यानां मेषच्छागलखङ्गिनाम् ।
मांसं ग्राह्यं यथालाभं मेदोमज्जावसास्तथा ॥१७१
तान्सवानेकतः कृत्वा वह्नौ नीरेण पाचयेत् ।
संपक्वं हि क्षिपेद्भाण्डे तत्र दुग्धं च निक्षिपेत् ॥१७२
चूर्णीकृत्य खलिंश्चैव तिलानां माक्षिकं तथा ।
स्विन्नांश्च सरसान्माषांस्तत्र दद्याद्धृतं तथा ॥१७३
उष्णं जलं क्षिपेत्तत्र मात्रा नास्तीह कस्यचित् ।
पक्षैकं स्थापिते भाण्डे कोष्णस्थाने मनीषिणा ।
कुणपस्तु भवेदेव तरुणां पुष्टिकारकः ॥१७४
अथ तरुचिकित्सा ।¹
नराणामिव वृक्षाणां वातपित्तकफाद्गदाः ।
संभवन्ति निरूप्यातः कुर्यात्तद्दोषनाशनम् ॥ १७५
कीटजग्धेग्निसंप्लुष्टे वातभग्नेशनिक्षते ।
वृक्षे छेदोपचारादिपीडिते च पृथक्क्रिया ॥ १७६
कृशदीर्घो लघुरुक्षो निद्राहीनोल्पचेतनः ।
न धत्ते फलपुष्पाणि वातप्रकृतिकस्तरुः ॥ १७७
आतपासहनः पाण्डुः शाखाहीनो मुहुर्यदि ।
अकालफलपाकी स्याच्छाखी पित्तात्मकः स्मृतः ॥ १७८
स्निग्धशाखादलः शाखी सम्यक्पुष्पफलोज्ज्वलः ।
लतापरीतगात्रस्तु कफवान्परिमण्डलः १७६
कटुतिक्तकषायरसैः पवनः पित्तं कटूष्णलवणाम्लैः ।
स्निग्धमधुराम्ललवणैः श्लेष्मा कोपं प्रयाति तरोः ॥ १८०
1 The genesis of the science of Phytopathology can be traced to a verse in the Atharvaveda
(BK. VI. 50). See Sāyaṇa's commentary thereon ( Kauśika 51, 17—22).
Cf. also Vinaya Piṭaka C. X. 1. 6, where we find definite mention, by way of an analogy,
of two of the most important cereal diseases, the "blight" and the "mildew";
Arthaśāstra, chap. 24.
Agni P. chap. 281.
Bṛhatsaṁhitā, chap. 54.
Guṇaratna's Commentary on Ṣaḍdarśana Samuccaya.
Śukranīti, IV. ii, 56—57.
SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 59
सुस्निग्धैः पिशितरसैः प्रयाति वातः
सुस्निग्धैर्मधुरहिमैर्ज लैश्च पित्तम् ।
कट्वम्लैरहिमजलैः कषाययुक्तैः
श्लेष्मापि क्रमविहितैः प्रयाति नाशम् ॥ १८१
रौक्षं ग्रन्थिः कुटिलता वाताद्वृक्षस्य जायते ।
गोविड् लोध्रवसाकुणपजलैस्तज्जयो भवेत्ᵃ ॥ १८२
दोषैर्यस्य विना प्रवालकुसुमम्लानिविरूढं वपुः
मूले तस्य तरोर्भवन्ति कृमयो यत्नाच्च तानुद्धरेत् ।
गोमूत्राज्यविडङ्गसर्षपतिलैर्लिप्तः प्रगापैस्ततःᵇ
सिक्तः क्षीरजलेरुदेति सहसा धूपैश्च धूपायितः ॥ १८३
करञ्जारेग्वधारिष्टसप्तपर्णत्वचाकृतः ।
उपचारः क्रिमिहरो मूलमुस्ताविडङ्गवान् ॥ १८४
कुणपजलपयोनिषिक्तमूलः
सरसिजकन्दविलिप्त सर्वगात्रः ।
तरुरनलहतो बिभर्ति भूयो
मरकतरङ्गहरिन्तिᶜ पल्लवानि ॥ १८५
प्लक्षाकोंडुम्बरत्वग्घृतमधुमधुरोच्छिष्टदुग्धैर्विलिप्तः
स्तम्भैरुत्तम्भ्य रज्ज्वा परिकलितवपुः पूरितः प्लक्ष्तमृद्भिःᵈ ।
सिक्तः क्षीरेण भूयो जलभरिततलश्चण्डवातादिभग्नः
स्वस्थोभूत्वाऽङ्घ्रिपायी कुसुमफलभरागयातनोति प्रकामम्ᵉ ॥ १८६
वृत्तस्याशनिदग्धस्य जीवनं शृणु भेषजम् ।
घनोशीरमधूकैश्च मुद्रमाषान् यवांस्तिलान् ॥ १८७
(a) गणनाथ—रौक्ष्य' ग्रन्थिर्ग टिक्ता वाताद् वृक्षस्य जायते नित्यम् ।
गोविड् भिल्लोधवसाकुणपजलै : स जितोभवेदेवं ॥
b) ,, गोमूत्राज्य-विडङ्ग-सर्षप-तिलैं र्लिं म् [द्या]नैस्ततः ।
(c) ,, मरकतकान्तिनिभानि etc.
(d) ,, पूरितः श्लक्ष्णमृद्भिः ।
(e) ,, कुसुमफलभर' व्यातनोति प्रकारं ॥
...' -> look at 'म्बु' in 'क्षीराम्बु'!
In line 2: 'क्षीरा' then 'म्' + 'बु' = 'म्बु'.
Now look at line 9:
'र्विडङ्गदुग्ध' then 'ा'? Wait, does it have an ā-matra?
No, it is 'दुग्ध' then 'म्बु'!
Wait, is there an ā-matra?
Wait, 'दुग्ध' ends with the vertical of 'ध', then comes 'म्' which attaches to 'बु'!
Wait, is it 'र्विडङ्गदुग्धाम्बु' or 'र्विडङ्गदुग्धम्बु' or 'र्विडङ्गदुग्धास्तु'?
Wait, Vidanga + dugdha + ambu = 'विडङ्गदुग्धाम्बु' (with dirgha ā from sandhi dugdha + ambu = dugdhāmbu)!
YES! Dugdha + ambu = dugdhāmbu!
So dugdhā-mbu!
The 'ā' is from sandhi! Dugdha + Ambu = Dugdhāmbu!
And 'म्बु' has 'm' + 'bu'!
That explains everything! It is 'र्विडङ्गदुग्धाम्बु निषेचनीयम् ॥ १६०'!
Brilliant!
Now let's check line 19 again:
'लेपाङ्गेपोपचारतः' vs what is it really?
Wait! Look at the meter:
"शोषः शाम्य