सामग्री पर जाएँ
सर्वकोश
उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)

उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)

Upavanavinoda of Sharngadhara with Commentary

आचार्य शार्ङ्गधर (सम्पादक: पं. गिरिजाप्रसाद) द्वारा

DevanagariHindipublished134 पृष्ठ

पृष्ठ 66, कुल 134 में से

संदर्भ में पढ़ें
पृष्ठ 66

58 UPAVANA VINODA
अथ कुणपजलम् ।
कुरङ्गकिटिमत्स्यानां मेषच्छागलखङ्गिनाम् ।
मांसं ग्राह्यं यथालाभं मेदोमज्जावसास्तथा ॥१७१
तान्सवानेकतः कृत्वा वह्नौ नीरेण पाचयेत् ।
संपक्वं हि क्षिपेद्भाण्डे तत्र दुग्धं च निक्षिपेत् ॥१७२
चूर्णीकृत्य खलिंश्चैव तिलानां माक्षिकं तथा ।
स्विन्नांश्च सरसान्माषांस्तत्र दद्याद्धृतं तथा ॥१७३
उष्णं जलं क्षिपेत्तत्र मात्रा नास्तीह कस्यचित् ।
पक्षैकं स्थापिते भाण्डे कोष्णस्थाने मनीषिणा ।
कुणपस्तु भवेदेव तरुणां पुष्टिकारकः ॥१७४
अथ तरुचिकित्सा ।¹
नराणामिव वृक्षाणां वातपित्तकफाद्गदाः ।
संभवन्ति निरूप्यातः कुर्यात्तद्दोषनाशनम् ॥ १७५
कीटजग्धेग्निसंप्लुष्टे वातभग्नेशनिक्षते ।
वृक्षे छेदोपचारादिपीडिते च पृथक्क्रिया ॥ १७६
कृशदीर्घो लघुरुक्षो निद्राहीनोल्पचेतनः ।
न धत्ते फलपुष्पाणि वातप्रकृतिकस्तरुः ॥ १७७
आतपासहनः पाण्डुः शाखाहीनो मुहुर्यदि ।
अकालफलपाकी स्याच्छाखी पित्तात्मकः स्मृतः ॥ १७८
स्निग्धशाखादलः शाखी सम्यक्पुष्पफलोज्ज्वलः ।
लतापरीतगात्रस्तु कफवान्परिमण्डलः १७६
कटुतिक्तकषायरसैः पवनः पित्तं कटूष्णलवणाम्लैः ।
स्निग्धमधुराम्ललवणैः श्लेष्मा कोपं प्रयाति तरोः ॥ १८०
1 The genesis of the science of Phytopathology can be traced to a verse in the Atharvaveda
(BK. VI. 50). See Sāyaṇa's commentary thereon ( Kauśika 51, 17—22).
Cf. also Vinaya Piṭaka C. X. 1. 6, where we find definite mention, by way of an analogy,
of two of the most important cereal diseases, the "blight" and the "mildew";
Arthaśāstra, chap. 24.
Agni P. chap. 281.
Bṛhatsaṁhitā, chap. 54.
Guṇaratna's Commentary on Ṣaḍdarśana Samuccaya.
Śukranīti, IV. ii, 56—57.