तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
आचार्य अभिनवगुप्त / राजानक जयरथ द्वारा
स्रोत: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (उद्गम)
श्लोक २१६ ] प्रथमाह्निकम् । २३६
इत्याद्युपक्रम्य
'ततः स्फुटतमोदारताद्रूप्यपरिवृंहिता ।
संविद्भ्येति विमलामविकल्पस्वरूपताम् ॥'
इति । अत एव हि शाक्तोपायस्य उपायोपायत्व-
मुक्तम् ॥२१५॥
ननु अस्मदादेः सर्वस्यैव अयत्नोपनतः स्वार-
सिको निर्विकल्पकः प्रत्ययः स्थितः इति किंनाम तत्र
शाम्भवावेशरूपत्वमुक्तं, यदपि उपेयतया उपदिश्यते ?
इत्याशङ्क्याह
पशोर्वै याविकल्पा भू-
र्दशा सा शाम्भवी परम् ।
अपूर्णा मातृदौरात्म्या-
त्तदपाये विकस्वरा ॥२१६॥
सा इति अविकल्पा भूः । यदुक्तं
'तस्यां दशायामैश्वरो भावः पशोरपि।'
इति । यद्येवं तर्हि अत्र किमुपदेशादियत्नेन ?
इत्याह परमपूर्णा इति । संकुचितस्य हि मातुः
पं० ४ क० पु० शाक्तस्य उपायस्येति असमस्तः पाठः । ग० पु० शाक्तस्यो-
पायोपायत्वमिति ।
पं० १० क० पु० पशोर्यैवाविकल्पेति पाठः ।
२४० श्रीतन्त्रालोकः ।
संकुचिते एव ज्ञानक्रिये भवतः, इति कथं तत्रास्य
दुरात्मनः साक्षात् शाम्भवत्वं भवेत् इति भावः,
अत एव तस्य मातृदौरात्म्यस्य अपाये पूर्णतोल्लासे
सा शाम्भवी दशा विकस्वरा पूर्णज्ञत्वकर्तृत्वादिशा-
लिनी भवेत् इत्यर्थः, तेन संकुचितज्ञत्वकर्तृत्वाद्यप-
हस्तनपुरःसरं स्वात्मप्रत्यभिज्ञापनाथंम् अवश्यो-
पादेयोऽयम् उपदेशादियत्नः इति सिद्धम् ॥२१६॥
तदेव प्रकृते योजयति
एवं वैकल्पिकी भूमिः
शाक्ते कर्तृत्ववेदने ।
यस्यां स्फुटे परं त्वस्यां
संकोचः पूर्वनिर्तितः ॥२१७॥
तथा संकोचसंभार-
विलायनपरस्य तु ।
सा यथेष्टान्तराभास-
कारिणी शक्तिरुज्ज्वला ॥२१८॥
पं० २ क० पु० साक्षाच्छाम्भुत्वं भवेदिति भावः ।
पं० ११ ख० पु० यस्यां स्फुटमिति पाठः ।
पं० १४ ख० पु० विज्ञापनपरस्येति पाठः ।
श्लोक २१६ ] प्रथमाह्निकम् । २४१
इह सविकल्पज्ञानात्मनि शाक्तोपाये यद्यपि
निर्विकल्पापेक्षया स्फुटे ज्ञानक्रिये, तथापि मातृदौ-
रात्म्यात् ते संकुचित एव, इति अत्रापि उपदे-
शादियत्नेन अवश्यं भाव्यं, येन सर्वस्य तथा
संकोचविलायनपरतया सा शाक्ती भूः उज्ज्वला
विकस्वरा, यदियम् उपेयत्वेन अभीप्सितम् अन्तः
प्रमात्रैकात्म्यस्वभावम् आभासं करोति – परप्रमात्रे-
करूपतया स्फुरति इत्यर्थः ॥२१७॥२१८॥
ननु शाक्तस्य शाम्भवाद्विकल्पाविकल्परूपत्वेन
सिद्धो भेदः, विकल्पैकरूपात् पुनराणवादस्य कथं भेदः
स्यात् ? इत्याशङ्कां प्रदर्श्य, तयोरेव भेदमभिधत्ते ।
ननु वैकल्पिकी किं धी-
राणवे नास्ति तत्र सा ।
अन्योपायात्र तूच्चार-
रहितत्वं न्यरूपयत् ॥२१६॥
तत्र इत्यादिना समाधिः, अन्य इति उच्चारादयः ।
पं० ५ ख० पु० विलापनपरतयेति पाठः ।
पं० ७ ख० पु० परप्रमात्रैकात्म्यरूपेति पाठः ।
पं० १३ क० पु० यत्र सा इति पाठः ।
पं० १६ क० पु० अत्र इत्यादिनेति पाठः ।
३१
२४१ श्रीतन्त्रालोकः ।
आणवे हि उच्चारादि बाह्यमेव अवलम्ब्य वैकल्पि-
की बुद्धिरस्ति, अत्र शाक्ते पुनस्तद्रहितत्वेन इति
विशेषः, अत एव चेतसैव इति सावधारणं चिन्तन-
मात्रम् अत्रोक्तम् ॥२१६॥
नन्वत्र किमुच्चारमात्रेणैव रहितत्वम्, उत करणा-
दिभिरपि ? इत्याह
उच्चारशब्देनात्रोक्ता
बहन्तेन तदादयः ।
शक्त्युपाये न सन्त्येते
भेदाभेदौ हि शाक्तता ॥२२०॥
बहन्तेन इति बहुवचनादाद्यर्थो हि लभ्यते इति
भावः, तेन उच्चारैः रहितम् इति विग्रहो दर्शयि-
तव्यः । एते इति उच्चारकरणादयः । न सन्ति इति
भेदैकनिष्ठत्वादेषाम् । अत्र हि बाह्योच्चारादिरहित-
त्वात् अभेदस्य विकल्पात्मकत्वाच्च भेदस्यापि सं-
भवः इत्युभयमयत्वम्, तदाह 'भेदाभेदौ हि शाक्तता'
इति, आणवे पुनर्भेदस्यैव प्राधान्यम् ॥२२०॥
पं० ५ क० पु० उच्चारणामात्रेणैवेति पाठः ।
पं० ८ क० पु० बहन्तेनैतदादय इति पाठः ।
पं० १० क० पु० भेदाभेदौ चेति पाठः ।
श्लोक २२२] प्रथमाह्निकम् । २४३
तदाह
अणूनां स्फुटो भेद-
स्तदुपाय इहाणवः ।
विकल्पनिश्चयात्मैव
पर्यन्ते निर्विकल्पकः ॥२२१॥
पर्यन्ते निर्विकल्पकः इत्यनेन अस्यापि शाम्भव
एव विश्रान्तिरिति दर्शितम् ॥२२१॥
ननु
‘सदाशिवादयस्तूर्ध्वव्याप्त्यभावादधो जुषः ।
शक्तौ समाविशेयुः’...................२०८
इत्याद्युक्तयुक्त्या बुद्ध्यादीनां शिवे व्याप्तिरेव
नास्ति इति कथमेषां तद्वाप्तावुपायत्वमपि उक्तम् ?
इत्याह
ननु धी-मानसाहंकृ-
त्पुमांसो व्याप्नुयुः शिवम् ।
नाधोवर्तितया तेन
कथितं कथमीदृशम् ॥२२२॥
एतदेव समाधत्ते
पं० १२ ग० पु० व्याप्नुयुश्चिरमिति पाठः ।
२४४ श्रीतन्त्रालोकः ।
उच्यते वस्तुतोऽस्माकं
शिव एव तथाविधः ।
स्वरूपगोपनं कृत्वा
स्वप्रकाशः पुनस्तथा ॥२२३॥
वस्तुतो हि शिव एव अस्माकम् अद्वैतवादिनां मते
'शिव एव गृहीतपशुभावः ।'
इत्याद्युक्तयुक्त्या स्वस्वातन्य्रमाहात्म्यादात्मानं प्र-
च्छाद्य तथाविधो बुद्ध्यादिरूपः परिमितः प्रमाता
स्यात्, स एव पुनः उद्वेष्टनयुक्त्या बुद्ध्याद्युपाया-
साधनक्रमेणैव तथा शिव एव स्वप्रकाशो भवति
इति शिवेऽपि बुद्ध्यादयो व्याप्रियेरन् नो वा इति
न कश्चिद्दोषः ॥२२३॥
न केवलमेतदद्वैतशास्त्रेषु उक्तं यावत् द्वैतशास्त्रेष्वपि
इत्याह
द्वैतशास्त्रे मतङ्गादौ
चाप्येतत्सुनिरूपितम् ।
अधोव्याप्तुः शिवस्यैव
स प्रकाशो व्यवस्थितः ॥२२४॥
पं० ६ ग० बुद्ध्याद्युपायसाधनेति पाठः ।
पं० १७ क० पु० प्रभोर्व्याप्तुरिति पाठः ।
श्लोक २२६ ] प्रथमाह्निकम् । २४५
येन बुद्धि-मनोभूमा-
वपि भाति परं पदम् ॥२२५॥
यदुक्तं तत्र
'इत्थं गुणवतस्तस्मात्तत्त्वात्तत्त्वमनिन्दितम् ।
स्फुरद्रश्मिसहस्राढ्यमधस्ताद्व्यापकं महत् ॥'
इति । एतदेव निगमयति 'अधोव्याप्तुः' इत्या-
दिना । स इति बुद्ध्यादिरूपः, येन इति बुद्ध्या-
दीनां शिवप्रकाशैकरूपत्वेन हेतुना ॥२२४॥२२५॥
एवमेतत्प्रसङ्गादभिधाय प्रकृतमेवाह
द्वावप्येतौ समावेशौ
निर्विकल्पार्णवं प्रति ।
प्रयात एव तद्रूढिं
विना नैव हि किंचन ॥२२६॥
प्रतिः आभिमुख्ये, तेन एतदुभयमपि परप्रका-
शात्मनि शाम्भवावेशे एव विश्रान्तम् इत्यर्थः ।
यद्धि तत्र न विश्रान्तं तदप्रकाशमानत्वात् न
किंचित् स्यात् इत्युक्तं 'तद्रूढिं विना नैव हि किंचन'
पं० ६ क० पु० प्रभोर्व्याप्तुरिति पाठः ।
पं० १२ क० पु० विश्रान्तिरिति इति पाठः ।
२४६ श्रीतन्त्रालोकः ।
इति । एवं च निर्विकल्पात्मा परः प्रकाश एव
सर्वेषामेषामुपायः इत्युक्तं स्यात् ॥२२६॥
न चैतदस्मदुपज्ञमेव इत्याह
संवित्तिफलभिच्चात्र
न प्रकल्प्येत्यतोऽब्रवीत् ।
कल्पनायाश्च मुख्यत्व-
मत्रैव किल सूचितम् ॥२२७॥
अतः इति एकस्यामेव निर्विकल्पात्मिकायां संवि-
त्तौ अनुप्रवेशात् । तदुक्तं
'संवित्तिफलभेदोऽत्र न प्रकल्प्यो मनीषिभिः ।'
इति । अत्र च उपायानां नानात्वात् प्राप्तं तावत्फ-
लभेदकल्पनम्, अन्यथा हि निषेधस्य प्राप्तिपूर्व-
त्वात् स एवात्र न स्यात् इति 'न प्रकल्प्या' इत्युक्त्या
एतदाक्षिप्तम् इत्याह - कल्पनाया इति । मुख्यत्वम्
इति अभिधेयत्वं । सूचितम् इति - न तु साक्षाद-
भिहितम् इति भावः ॥२२७॥
न केवलमिह निर्विकल्पके विश्रान्तिसतत्त्वं, याव-
दितो बाह्यानां मतेऽपि इत्याह
पं० १० ग० पु० संवित्तिः फलभेदेन न प्रकल्प्या मनीषिभिरिति पाठान्तरं च ।
श्लोक २२६] प्रथमाह्निकम् । २४७
विकल्पापेक्षया योऽपि
प्रामाण्यं प्राह तन्मते ।
तद्विकल्पक्रमोपात्त-
निर्विकल्पप्रमाणता ॥२२८॥
तस्य विकल्पापेक्षनिर्विकल्पप्रामाण्यवादिनो वैभा-
षिकादेः मतेऽपि, ते च ते विकल्पाः, तेषां यः क्रमः -
परम्परा, तया उपात्ता - जनिता, निर्विकल्पस्यैव
प्रमाणता - विकल्पोपारोहेण निर्विकल्प एव विश्रा-
न्तिः इत्यर्थः ॥२२८॥
एतदेव उदाहरति
रत्नतत्त्वमविद्वान्प्राङ्-
निश्चयोपायचर्चनात् ।
अनुपायाविकल्पाप्तौ
रत्नज्ञ इति भण्यते ॥२२६॥
यः कश्चन वैकटिकादिः आदौ अविकल्पवृत्त्या
रत्नस्वरूपमजानानोऽपि 'किमेवमस्य तत्त्वं न वा'
इत्यादिकल्पनामुखेन विचारमवलम्ब्य, अनुपायस्य
स्वारसिकस्य अविकल्पस्य उत्थाने रत्नज्ञः तद्विषय-
पं० १८ क० पु० रत्नज्ञस्तद्विषयमन्त्रनिर्विकल्पज्ञानम् इति ख० पु० तद्विषयो
मन्त्रेति पाठः ।
२४८ श्रीतन्त्रालोकः।
तत्त्वं निर्विकल्पं जानानः इत्युच्यते इति वाक्या-
र्थः । एवमाणवाद्यभिज्ञेऽपि वाच्यम् ॥२२६॥
इह खलु भेदभेदाभेदाभेदात्मना त्रिधा ज्ञानं,
यदुक्तं
'वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते ।
भेदेन भेदाभेदेन तथैवाभेदभागिना ॥'
इति । तत्र आणवं भेदप्रधानमुक्तं, शाक्तं च
भेदाभेदप्रधानं, शाम्भवं पुनः किं प्रधानम् ? इत्या-
शङ्क्याह
अभेदोपायमत्रोक्तं
शाम्भवं शाक्तमुच्यते ।
भेदाभेदात्मकोपायं
भेदोपायं तदाणवम् ॥२३०॥
ननु
'.............मुक्तिश्च शिवदीक्षया।'
इत्याद्युक्तेः दीक्षादेः क्रियाया अपि मुक्त्युपायत्व-
पं० ३ क० पु० खलु भेदाभेदौ तदात्मना त्रिधा इति पाठः ।
पं० ६ क० पु० अभेदभागिनीति पाठः ।
पं० ८ क० पु० किं प्रमाणमिति पाठः ।
श्लोक २३१ ] प्रथमाह्निकम् । २४६
मुक्तम् इति सा किमुपायान्तरमतिरिक्तम्, उत अत्रैव
कुत्रचिदन्तर्भावमेति ? इत्याशङ्क्याह
अन्ते ज्ञानेऽत्र सोपाये
समस्तः कर्मविस्तरः ।
प्रस्फुटेनैव रूपेण
भावी सोऽन्तर्भविष्यति ॥२३१॥
सोपाये इति उच्चाराद्युपायसहभूते इत्यर्थः ।
अत एव तत्र 'सोपाये' इति प्रागुक्तम् । समस्तः
कर्मविस्तरः इति - दीक्षादिर्विचित्रः क्रियाकलापः,
भावी वक्ष्यमाणः । अन्तर्भविष्यति इत्यनेन - नैतद्-
तिरिक्तम् उपायान्तरमस्ति इत्यावेदितम् ॥२३१॥
ननु सजातीये सजातीयस्य अन्तर्भावो न्याय्यो
न तु इतरथा, इति कथं दीक्षादेः क्रियाया आणव-
ज्ञानान्तर्भावः स्यात् ? इत्याशङ्क्याह
क्रिया हि नाम विज्ञाना-
न्नान्यद्वस्तु क्रमात्मताम् ।
पं० १ क० पु० अतिरिक्तं वा स्यात् सात्रैव कुत्रचिदिति, ख० पु० सा तत्रै-
वेति पाठः ।
३२
२५० श्रीतन्त्रालोकः ।
उपायवशतः प्राप्तं
तत्क्रियेति पुरोदितम् ॥२३२॥
तत् इति विज्ञानं, पुरा इति 'यतो नान्या क्रिया
नाम' इत्यादौ ॥२३२॥
ननु 'ज्ञानं मोक्षैककारणम्' इत्यादिना 'ज्ञाना-
न्मुक्तिः' इति तावत्प्रतिज्ञातं, तत्किं स्वाधिकरणं
मोचकम्, उत पराधिकरणम्, स्वाधिकरणत्वे च
तस्य किं दीक्षायां सत्यामसत्यां वा मोचकत्वम्,
असत्यां चेत्
'न चाधिकारिता दीक्षां विना योगेऽस्ति शाङ्करे ।'
इत्याद्युक्त्या ज्ञानाधिगमे एव अधिकारो नास्ति
इति किं कस्य मोचकं स्यात्, सत्यां चेत् परापेक्षा-
त्मनैव स्वात्मनि दीक्षाकरणानुपपत्तेः, पराधिकरणत्वे
च कारणमन्यत्र कार्यं च अन्यत्र इति महान् दोषः ?
इत्याशङ्क्याह
सम्यग्ज्ञानं च मुक्त्येक-
कारणं स्वपरस्थितम् ।
यतो हि कल्पनामात्रं
स्वपरादिविभूतयः ॥२३३॥
पं० १७ ग० घ० पु० स्वपरिस्थितिमिति पाठः ।
श्लोक २३४ ] प्रथमाह्निकम् । २५१
कल्पनामात्रम् इति, वस्तुतो हि एकैव संवित् तत्त-
त्स्वपराद्याभासतया प्रस्फुरति इत्यभिप्रायः ॥२३३॥
अत एवाह
तुल्ये काल्पनिकत्वे च
यदैक्यस्फुरणात्मकः ।
गुरुः स तावदेकात्मा
सिद्धो मुक्तश्च भण्यते ॥२३४॥
गुर्वगुर्वाद्यपेक्षया स्वपरकल्पनायाः साम्येऽपि येन
शिष्येण गुरुणा वा यदैक्यम् एकीकारः तेन स्फुरणं
स्वपराद्याभासविभागाभावेन एकघनसंविद्रूपतया वि-
मर्शनं तदात्मा यो गुरुः स तावान् ऐक्यस्फुरणा-
वधिः एक आत्मा यस्य तथाभूतः सन् सिद्धो मुक्तश्च
पारमैश्वर्यमात्रमुच्यते इत्यर्थः । इदमुक्तं भवति -
यावदस्य हि स्वसंविदेकात्मत्वेन परामर्शः तावदयम्
एक एव प्राप्तपरप्रकाशैकात्म्यः परिस्फुरति इति ।
तदुक्तं
पं० २ क० पु० स्वपराभासात्मतया प्रस्फुरतीति भावः इति पाठः ।
पं० १० क० पु० स्वपराद्यवभासेति पाठः ।
पं० १३ पारमैश्वर्यपात्रमिति पाठः संगतोऽनुमन्यते ।
पं० १४ क० पु० संविदात्मकत्वेनेति पाठः ।
३५२ श्रीतन्त्रालोकः ।
'एवं व्याप्तिं तु यो वेत्ति परापरविभागतः ।
स भवेन्मोचकः साक्षाच्छिवः परमकारणम् ॥'
इति ॥२३४॥
अत एवाह
यावानस्य हि संतानो
गुरुस्तावत्स कीर्तितः ।
सम्यग्ज्ञानमयश्चेति
स्वात्मना मुच्यते ततः ॥२३५॥
तत एव स्वसंतानं
ज्ञानी तारयतीत्यदः ।
युक्त्यागमाभ्यां संसिद्धं
तावानेको यतो मुनिः ॥२३६॥
संतानः शिष्यप्रशिष्यादिरूप इति, इति तावदा-
त्मत्वेन एकस्यैवास्य स्फुरणात् । तत इति तावतः
संतानात् । तावन्तं हि संतानमवलम्ब्य संविदैका-
त्म्यात् एक एवायं गुरुः इति यत् संतानिनो मुच्यन्ते,
तत् स एव स्वात्मना मुच्यते इति स्वपरविभागस्य
काल्पनिकत्वात् न कश्चिद्दोषः । अत एवाह 'तत एव'
इत्यादि, तारयति इति । तदुक्तं
पं० ६ ग० पु० तावदेको गुरुर्मत इति पाठान्तरं च ।
श्लोक २३८ ] प्रथमाह्निकम् । २५३
'आचार्यः स्वजनानां च कुलकोटिसहस्रशः ।
ज्ञानज्ञेयपरिज्ञानात्सर्वान्संतारयिष्यति ॥'
इति । अत्र हेतुः 'तावानेको यतो मुनिः' मुनिः
इति गुरुः ॥२३५॥२३६॥
एवं च सति अयत्नेन परोक्तदूषणोद्धारः सिद्धः
इत्याह
तेनात्र ये चोदयन्ति
ननु ज्ञानाद्विमुक्तता ।
दीक्षादिका क्रिया चेयं
सा कथं मुक्तये भवेत् ॥२३७॥
ज्ञानात्मा सेति चेज्ज्ञानं
यत्रस्थं तं विमोचयेत् ।
अन्यस्य मोचने वापि
भवेत्किं नासमञ्जसम् ।
इति ते मूलतः क्षिप्ता
यत्त्वत्रान्यैः समर्थितम् ॥२३८॥
पं० ११ क० पु० ज्ञानात्मा चेति चेज्ज्ञानमिति, ख० पु० ज्ञानात्मा चेदिति
ज्ञानमिति पाठः ।
पं० १४ क० पु० नाम सामञ्जसम् इति पाठः ।
२५४ श्रीतन्त्रालोकः ।
ये इति भेदवादप्रकाराः, ते इति एवं चोद्यविधा-
यिनः, क्षिप्ताः प्रतिक्षिप्ताः । यन्मूलत एव ज्ञानक्रिय-
योरैक्यमभ्युपगतं स्वपरविभागस्य च काल्पनिकत्वम्
इति तदेव च अत्र प्रतिसमाधानं नान्यत् इत्याह
‘यत्तु’ इत्यादि । यदन्यैर्भेदैश्वरवादिभिर्निरूपितं तत्
पुरस्तात् निषेत्स्यामः इति संबन्धः ॥२३७॥२३८॥
ननु यदि भेदवाद्युक्तं मलस्य द्रव्यरूपत्वं नाभ्यु-
पेयते, तत्तस्य किं रूपम् ? इत्याशङ्क्याह
मलो नाम किल द्रव्यं
चक्षुःस्थपटलादिवत् ।
तद्विहन्त्री क्रिया दीक्षा
त्वञ्जनादिककर्मवत् ॥२३९॥
तत्पुरस्तान्निषेत्स्यामो
युक्त्यागमविगर्हितम् ।
मलमायाकर्मणां च
दर्शयिष्यामहे स्थितिम् ॥२४०॥
पं० ३ क० पु० ऐक्यमुपगतमिति पाठः ।
पं० ११ क० पु० विहर्त्रीति, ग० पु० त्वाञ्जनादीति च पाठः ।
श्लोक २४१ ] प्रथमाह्निकम् । २५५
एतदेव अधिकावापेन उपसंहरति
एवं शक्तित्रयोपायं
यज्ज्ञानं तत्र पश्चिमम् ।
मूलं तदुत्तरं मध्य-
मुत्तरोत्तरमादिमम् ॥२४१॥
पश्चिममिति आणवम्, मूलमिति, तस्यैव शाक्त-
क्रमेण शांभवे विश्रान्तिः तदाह तदुत्तरम् इति, तस्मा-
दाणवात्, उत्तरं विश्रान्तिस्थानत्वादधिकं शाक्तम्
उत्तरात् शाक्तादपि उत्तरं शांभवम् । यदुक्तं
'विभुशक्त्यणुसंबन्धात्समावेशस्त्रिधा मतः ।
इच्छा-ज्ञान-क्रियायोगादुत्तरोत्तरसंभृतः ॥'
इति ॥२४१॥
न केवलमाणवादेः विश्रान्तिधामतया शांभवमेव
ज्ञानमुत्कृष्टं, यावदस्मादनुपायाख्यम् अन्यत् इत्याह
ततोऽपि परमं ज्ञान-
मुपायादिविवर्जितम् ।
पं० ४ क० पु० पूर्वे यदुत्तरमिति पाठः ।
पं० ६ ग० पु० आणवमूलमिति, क० पु० आणवमङ्गमिति तस्येति पाठः ।
पं० ७ विश्रान्तिरित्यारभ्य उत्तरं विश्रान्तिस्थानेत्यन्तः पाठः ग० पुस्तकात्
पूरितोऽस्ति ।
२५६ श्रीतन्त्रालोकः ।
आनन्दशक्तिविश्रान्त-
मनुत्तरमिहोच्यते ॥२४२॥
परमम् इति उपेयैकरूपत्वात्, अत एवोक्तम्
‘उपायादिविवर्जितम्’ इति । अत एव च ‘आनन्द-
शक्तिविश्रान्तम्’ इत्युक्तम् । इच्छादीनां हि एषणी-
यादिविषयावच्छेदेन बाह्योन्मुखत्वात् भेदसंभाव-
नापि स्यात्, आनन्दशक्तिः पुनः
‘आनन्दो ब्रह्मणो रूपम्’...............।’
इत्याद्युक्त्या हि चितस्तत्स्वरूपमेव इति, नात्र
उपायगन्धोऽस्ति इति तात्पर्यम् ॥२४२॥
एतच्च न स्वोपज्ञम् अपि तु सर्वत्रैव आगमेषु
उक्तम् इत्याह
तत्स्वप्रकाशं विज्ञानं
विद्याविद्येश्वरादिभिः ।
अपि दुर्लभसद्भावं
श्रीसिद्धातन्त्र उच्यते ॥२४३॥
मालिन्यां सूचितं चैत-
त्पटलेऽष्टादशे स्फुटम् ।
श्लोक २४४ ] प्रथमाह्निकम् । २५७
न चैतदप्रसन्नेन
शंकरेणेति वाक्यतः ॥ २४४॥
इत्यनेनैव पाठेन
मालिनीविजयोत्तरे ।
तत्र हि
'अनायासमनारम्भमनुपायं महाफलम् ।
श्रोतुमिच्छामि योगेश योगं योगविदांवर ॥'
इति देव्या पृष्टे
'शृणु देवि प्रवक्ष्यामि योगामृतमनुत्तमम् ।
यत्प्राप्य शिवतां मर्त्या लभन्त्यायासवर्जिताः ॥
न चैतदप्रसन्नेन शंकरेणोपदिश्यते ।
कथंचिदुपलब्धेऽपि वासना न प्रजायते ॥'
इत्याद्युपक्रम्य
'तस्मात्तदभ्यसेन्नित्यमविरक्तेन चेतसा ।
स विसर्गो महादेवि यत्र विश्रान्तिमर्हति ॥
गुरुवक्त्रं तदेवोक्तं शक्तिचक्रं तदुच्यते ।
तदेव सर्वमन्त्राणामुत्पत्तिस्थानमुत्तमम् ॥'
इत्याद्युक्तम् ॥ २४३॥ २४४॥
पं० १ न चैतदप्रसन्नेन इति पद्यं ग० पुस्तकात् पूरितमस्ति ।
पं० ११ क० पु० उपलभ्यत इति पाठः ।
पं० १४ क० पु० अभ्यसन्नित्यं सुविरक्तेनेति पाठः ।
३३
२५८ श्रीतन्त्रालोकः ।
अयमेव च शास्त्रार्थः इत्याह
इति ज्ञानचतुष्कं य-
त्सिद्धिमुक्तिमहोदयम् ।
तन्मया तन्यते तन्त्रा-
लोकनाम्न्यत्र शासने ॥२४५॥
इतीति तन्त्रालोके - तन्त्राणां पारमेश्वराणाम्
आलोक इव आलोकः, तानि आलोकयति प्रकाश-
यति इति वा । इति - उक्तस्वरूपं यत् ज्ञानचतुष्कं,
किं भूतं ? सिद्धिमुक्त्योर्महान् उदयः अस्मिन् इति
कृत्वा महोदयं, तत् अत्र तन्त्रालोके शासने
तन्यते - विस्तरेण प्रकाश्यते इत्यर्थः ॥२४५॥
अथ
'तत्र नानुपलब्धेऽर्थे न निर्णीते प्रवर्तते ।
किं तु संशयिते न्यायस्तदङ्गं तेन संशयः ॥'
इत्याद्युक्त्या प्रायः संशयिते एव अर्थे निर्णया-
त्मनः शास्त्रस्य प्रणयनमुक्तम् इति संशयस्य तद-
ङ्गत्वात् प्रथमं तत्स्वरूपमेव निरूपयितुम् उपक्रमते
पं० १४ क० पु० न्यायो न्यायाङ्गं तेनेति पाठः ।