ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
यस्मात् इदमयमग्निर्बहुधा बहुप्रकारं विधीयते यस्माच्च असौ
द्युलोकस्थः आदित्यः सर्वा इमाः भूर्लोकवर्त्तिनीः प्रजाः प्रत्यङ् प्रत्य-
ञ्चन् प्रत्येकं पूर्वस्यां दिश्युद्यन् भवति । श्रुत्यन्तरञ्च भवति(१) "तस्मात्
सर्व एव मन्यते मां प्रत्युदगादिती"ति । इन्द्र एव आदित्यः तस्माद्धेतोः
एते एव अग्निरिन्द्रश्चेति देवते विभक्तिं षडहे प्रत्यहं विभागं आनशाते
प्राप्तवत्यौ । अतोऽन्या एतद्व्यतिरिक्ता काचन काचिदपि देवता न
प्राप्तवतीति ।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १० ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्त्तकश्रीवीरबुक्कभू-
पालसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये
सामवेदार्थप्रकाशे ताण्ड्यमहाब्राह्मणे
दशमाध्यायस्य द्वादशः खण्डः ॥
दशमाध्यायः समाप्तः ॥
१. तै. प. ६. ५. -.
अथैकादशोऽध्यायः॥
प्रथमः खण्डः॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
इत्थं द्वादशाहं विधाय समुदायशोऽवयवशश्च तत्प्रशंसा कृता ।
तदवयवे पृष्ठ्यषडहे स्तोत्रीयाणां तदाश्रितानां साम्नाञ्च रूपाणि प्र-
दर्शितानि । अथ तद्रूपविशिष्टाः स्तोत्रीयाः सामानि च दाशरात्रिका-
णि विधास्यन्ते । द्वादशाहस्य यावाद्यन्तावतीरात्रौ तौ पूर्वोक्तात् ज्यो-
तिरतिरात्रान्न विशिष्यते । अतस्तौ वर्जयित्वायानि मध्ये दशाऽहानि-
पृष्ठ्यः षडहस्त्रयश्छन्दोमाः दशममहरविवाक्यञ्चेति तेषु प्रथमेऽहनि
अग्निष्टोमसंस्थे सर्वेष्वपि स्तोत्रेषु त्रिवृदेव स्तोमः । द्वितीयादीन्यष्टा-
वहान्युक्थ्यसंस्थानि पञ्चदशसप्तदशैकविंशत्रिणवत्रयस्त्रिंशच्चतुश्चत्वा-
रिंशाष्टाचत्वारिंशस्तोमकानि । दशममहस्तु चतुर्विंशस्तोमकम-
ग्निष्टोमसंस्थम् । तत्राऽग्निष्टोमसाम्नि तु त्रयस्त्रिंशस्तोमः । अथैषा-
महामितः परैर्दशभिः प्रकरणैः स्तोत्रीयाः सामानि च विदधानः प्रद्-
र्शितान् स्तोमांश्च क्रमेण विधत्ते । तत्र प्रथमेऽहनि बहिष्पवमानस्य
स्तोमक्लृप्तिं विधित्सुराह—
स्तोमो युज्यते सात्रियेभ्योऽहर्भ्यः प्रत्नवतीभिश्चो-
पवतीभिश्च ॥ १ ॥
दशरात्रस्य प्रथमेऽहनि बहिष्पवमाने योऽयं विधास्यमानस्त्रिवृ-
त्स्तोमः सोऽसौ प्रत्नवतीभिः प्रत्नशब्दयुक्ताभिः (१) "अस्य प्रत्नामजुषत"
मित्यादिभिः । उपवतीभिः (२) "उपशिक्षापतस्थुषः" इत्यादिभिः स्तो-
त्रीयाभिः प्रयुज्यते सम्बध्यते निष्पद्यते इत्यर्थः । किमर्थम् ? सत्रिये-
भ्यः, द्वादशाहप्रभृतिविश्वसृजामयनपर्यन्तानि सत्राणि । तत्सम्बन्धि-
भ्यः विधित्सितो दशरात्रश्च सर्वसत्रसम्बन्धी भवति । तत्र तत्र "द्वाद-
शाहस्य दशाऽहानीति" विधिदर्शनात् ईदृग्भ्योऽहर्भ्यः अहरर्थम् ।
१. सा. सं. उ. १. २. १६. १. २. सा. सं. उ. १. २. १८. १.
३९४ ताण्ड्यमहाब्राह्मणे
एतच्च(१)नव भवन्ति, नवाहस्य युक्त्या' इत्यनेन विशदीकरिष्यते
समिधो यजति तनूनपातं यजतीत्यादाविव ॥ १ ॥
प्रत्नवतीभिश्चोपवतीभिश्चेति पाठाद्योऽनुष्ठानक्रमोऽवगतस्तमनूद्य
स्तौति—
यत्प्रत्नवत्य उपवतीभ्यः पूर्वा युज्यन्ते ब्रह्म तत्पूर्वं
क्षत्राद्युज्यते ब्रह्म हि पूर्वं क्षत्रात् ॥ २ ॥
उपवतीभ्यः पूर्वे प्रत्नवत्यो युज्यन्ते सम्बध्यन्ते इति यत् तत्तेन ब्रह्म
हि पूर्वं क्षत्रात् ब्राह्मणजातिरेव क्षत्रात् क्षत्रियजातेः पूर्वं युज्यते स-
म्बध्यते । युक्तञ्चैतत् क्षत्रात् क्षत्रियजातेः पूर्वं हि ब्रह्म ब्राह्मणजातिः ।
सृष्टिसमये हि (२)प्रजापतिमुखात् ब्राह्मणजातावुत्पन्नायां पश्चादुरसो
बाहुभ्याञ्च क्षत्रियस्योत्पत्तेः ॥ २ ॥
एतदेव पौर्वापर्य्यं प्रकारान्तरेण स्तौति—
मनस्तत्पूर्वं वाचो युज्यते मनो हि यद्धि मनसा-
ऽभिगच्छति तद्वाचा वदति ॥ ३ ॥
उपवतीभ्यः पूर्वाः प्रत्नवत्यः इति यत् तत् तेन वाचः पूर्वं मन एव
युज्यते । मनो हि मनः खलु वाचः शब्दात् पूर्वं प्रथमभावि भवति ।
यद्धि यत् खलु मनसा अभिगच्छति अभिप्राप्नोति विषयीकरोति
तदेव वाचा वदति, न खलु कश्चित्प्रेक्षावान् मनसा ऽविषयीकृतं वस्तु
वक्तुं शक्नोति । तस्मादेतयोः पौर्वापर्य्यनियमादत्रत्येन पौर्वाप-
र्य्येण तदेव क्रियत इत्यर्थः ॥ ३ ॥
अथ पुनः प्रकारान्तरेण स्तौति—
बृहत्तत्पूर्वं रथन्तराद्युज्यते बृहद्धि पूर्वꣳ रथन्त-
राद्विजित्या तु वै रथन्तरं पूर्वं योगमानशे ॥ ४ ॥
तत्तेन प्रत्नवतीनां पूर्वयोगेन रथन्तरात् पूर्वमुत्पन्नं बृहत्सामैव
युज्यते । बृहत्साम हि रथन्तरात् पूर्वं प्रजापतेरजायत । नन्वेवं बृहतः
प्रथमभावित्वं प्रथमेऽहनि बृहत्सामैव पृष्ठस्तोत्रीयं स्यात् । उभयसा-
मसु च संसवादिषु बृहदेव पूर्वं सम्बध्येतेत्याशङ्कायामिदमुच्यते—
विजित्या त्विति । तुशब्दः पक्षव्यावृत्त्यर्थः । “प्रजापतिरकामयत बहु
स्यां प्रजायेयेति । स तूष्णीं मनसा ध्याय'दित्यादौ बृहत एव प्रथम-
भावित्वं प्रतीयते । तथाऽपि यन्वित्याहुर्बृहत् पूर्वं प्रजापतेः समभवदि-
१. ता. ब्रा. ११. १. ६. २. तै. सं. ७. १. १. द्रष्टव्यम् ।
एकादशाध्याये प्रथमः खण्डः । ३९५
त्यादिना कस्मात् पूर्वं रथन्तरं योगमानश इत्यन्तेन पूर्वे प्रजापतेर्म-
नसि समुद्भूतमपि वृहत्तिरस्कृत्य सृष्टिसमये रथन्तरस्यैव प्रथमसृ-
र्जनात् प्रथमयोग इति पूर्वमुक्तम् । तदेवाऽत्र विजित्येत्युच्यते । वि-
जित्या विजयेनैव रथन्तरं बृहतः पूर्वं दशरात्रस्य प्रथमेऽहनि योगं स-
म्बन्धमानशे प्राप । तृचत्रयात्मको हि त्रिवृत्स्तोमस्तेषु तेषु प्रदेशेषु स-
माम्नातामेकैकामृचमादाय तृचीकृताः ते तृचाः स्युरिति ॥ ४ ॥
विधत्ते—
सम्भार्यास्तृचा भवन्ति यथाऽऽशिष्ठान्वहिष्ठान्-
सम्भरेदेवमेवैतान् सम्भरन्ति गत्यै ॥ ५ ॥
एते तृचाः सम्भार्याः सम्पाद्या भवन्ति । यद्यपि तृतीय एव तृचः
सम्भार्यस्तथापितद्योगात्(१) प्राणभृन्न्यायेन सर्वेऽपि तृचाः सम्भार्या
इति व्यपदेशः । यथा खलु लोक आशिष्ठान्भोक्तृतमान् भक्षणसमर्थान्
वहिष्ठान् वोढृतमांश्च अनडुह अन्विष्य एकत्र सम्भरन्ति समूहीकु-
र्व्वन्ति; गत्यै गमनाय दशरात्रस्याऽन्तप्राप्त्यर्थम् ॥ ५ ॥
अथ सत्रियेभ्य इति यदुक्तं पूर्वं तत् स्तोत्रीयासङ्ख्यानुवादेनोप-
पादयति—
नव भवन्ति नवाहस्य युक्त्या ऋचर्चैवाऽहर्युनक्ति
यथा प्रार्थीस्य शम्या अवदध्यादेवमेवैतन्नवाहस्य शम्या
अवदधाति गत्यै ॥ ६ ॥
एवं त्रिषु तृचेषु नवस्तोत्रीया भवन्ति । एतच्च नवाहस्य अविवा-
क्यात् पूर्व्वभाविना नवरात्रस्य युक्त्यै योजनाय भवति । एतदेव विवृ-
णोते-ऋचर्चैवाहर्युनक्तीति । अत्रत्यया एकैकया ऋचा नवस्वहःसु एकै-
कमहर्योजितवान् भवति । अपिच प्रार्थीस्य प्रकर्षेण इयार्त्ति गच्छतीति
प्रार्थीऽनड्वान् तस्य युजे योजनाय । यथा शम्या अवदध्यात् युगच्छि-
द्रेषु प्रक्षेप्यान् कीलकान् प्रोतान् कुर्य्यात् एवमेवैतत् । एतेन नवर्चेन
नवाहस्य योजनाय शम्या एवाऽवदधाति । तथा सति गत्यै समाप्तिप-
र्य्यन्तं गमनायैतत्त्सम्पद्यते ॥ ६ ॥
१. 'प्राणभृत उपदधाति' इत्यत्र प्राणभृच्छब्दः प्राणभृदप्राणभृत्समुदायमभिधत्ते ।
तत्रैक एव मन्त्रः प्राणशब्दघटितः । अन्ये त्वतथाभूताः । तथापि तत्समुदायः प्राणभृच्छ-
ब्देनोच्यते तद्वत् ।
३९६ ताण्ड्यमहाब्राह्मणे
अथाऽस्मिन्नहनि विधित्सितं स्तोमं बहिष्पवमानस्य विधाय
प्रशंसति—
त्रिवृदेव स्तोमो भवति तेजसे ब्रह्मवर्चसाय ॥ ७ ॥
सिद्धप्रायमेतत् । तेजः (१)प्रकाशः । ब्रह्मवर्चसं श्रुताध्ययनादिजन्यं
ब्राह्मं तेजः । अग्निना सहोत्पन्नत्वात् त्रिवृत्स्तोमः तस्योभयस्य कारणं
भवतीत्यर्थः ॥ ७ ॥
इति ताण्ड्यमहाब्राह्मणे सायणाचार्यविरचिते माधवीये
एकादशाध्यायस्य प्रथमः खण्डः ॥
अथ द्वितीयः खण्डः ॥
प्रथमेऽहनि बहिष्पवमानस्य स्तोत्रीयाः स्तोमाश्च विहिताः। अथा-
ज्यानां विधित्सुराह—
उभाभ्यां वै रूपाभ्यां बहिष्पवमान्यो युज्यन्ते य-
त्सामा स्तोमो भवति तदाज्येषु ॥ १ ॥
उभाभ्यां बृहद्रथन्तराभ्यां रूपाभ्यां खलु बहिष्पवमानस्य स्तोत्री-
याः युज्यन्ते बृहत्तत पूर्वं रथन्तरादिति हि पूर्वमुक्तम् । अतः प्रत्नव-
त्यो बार्हतं रूपं उपवत्यो राथन्तरमिति रूपद्वययोगः आज्येषु आज्य-
स्तोत्रेषु उत्तरस्यैव साम्नो रूपं भवति यत्सामा यत्सामपृष्ठकस्तोमवान्
यागो भवति प्रथमेऽहनि होतुः पृष्ठस्तोत्रे यत्सामा क्रियते तस्यैव सा-
म्नो रूपमाज्येषु भवति नान्यस्येत्यर्थः । अत एव वक्ष्यति राथन्तरमेव
तद्रूपं निर्द्योतयति स्तोम इति ॥ १ ॥
अथाऽऽज्यानि लिङ्गविशेषयुक्तानि विधत्ते—
निराहावन्त्याज्यानि भवन्ति युक्तमेव तैराह्वयति २
निराहावन्ति निष्कृष्य समूहात् पृथक्कृत्य सम्बुद्ध्याभिमुखीकृ-
त्याऽऽह्वानं निराहवः, तद्वन्त्याज्यानि आज्यस्तोत्राणि भवन्ति निराहा-
वन्तीत्यत्र एको वकारलोपश्छान्दसः। तैराह्वानलिङ्गैराज्यैर्बहिष्पवमा-
न्या युक्तं योजितमेव प्रथममहराह्वयति ॥ २ ॥
१. शरीरकान्तिः, इति. क.
एकादशाध्याये द्वितीयः खण्डः । ३९७
कानि पुनस्तथाविधानीति ? तान्याह—
(१) “अग्न आयाहि वीतय” (२) “आ नो मित्रावरुणा”
(३) “ऽऽयाहि सुषुमा हि त” (४) “इन्द्राग्नी आगतꣳसुत”
मिति राथन्तरमेव तद्रूपं निर्द्योतयति स्तोमः इति ॥३॥
एते चत्वारस्तृचाश्चत्वार्याज्यस्तोत्राणि । एषु च आकारो दृश्यते;
एति प्रेत्याशुमदिति परिगणितत्वात् । तच्च राथन्तरं रूपं तदेकमेव रा-
थन्तरं रूपं निर्द्योतयति प्रकाशयति स्तोमश्चाऽऽज्येष्वपि त्रिवृदेव । स चै-
कैकस्मिन्नाज्ये तृचस्याऽऽवर्त्तनेन पूरणीय इत्यर्थः । एवं प्रातःसवनि-
केषु पञ्चसु स्तोत्रेषु स्तोत्रीयाणामेव विधानादत्र गातव्यं साम प्राकृ-
तमेव गायत्रम् ॥ ३ ॥
इति ताण्ड्यमहाब्राह्मणे सायणाचार्यविरचिते माधवीये
वेदार्थप्रकाशे एकादशाध्यायस्य द्वितीयः खण्डः ॥
(१) क. अग्न आयाहि वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि ॥
ख. तं त्वा समिद्भीरङ्गिरो घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य ॥
ग. स नः पृथुश्रवाय्यमच्छा देव विवाससि । बृहद्रत्ने सुवीर्यम् ॥ (सा.सं.उ.१.१.४.)
(२) क. आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् । मध्वा रजांसि सुक्रतू ।
ख. उरुशꣳसा नमो वृधा महा दक्षस्य राजथः । द्राघिष्ठाभिः शुचिव्रता ॥
ग. गृणाना जमदग्निना योनावृतस्य सीदतम् । पातꣳसोममृतावृधा ॥
( सा. सं. उ. १. १. ५. )
(३) क. आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् । एदं बर्हिस्सदो मम ॥
ख. आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना । उप ब्रह्माणि नश्शृणु ॥
ग. ब्रह्माणस्त्वा युजा वयꣳसोमपामिन्द्र सोमिनः । सुतावन्तो हवामहे ॥
( सा. सं. उ. १. १. ६. )
(४) क. इन्द्राग्नी आगतꣳसुतं गीर्भिर्नभो वरेण्यम् । अस्य पातं धियेषिता ।
ख. इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः । अया पातमिमꣳसुतम् ॥
ग. इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे । ता सोमस्येह तृम्पतम् ॥
( सा. सं. १. १. ७.)
३४ ता० ब्रा०
अथ तृतीयः खण्डः ॥
अथ माध्यन्दिनपवमानस्य सामानि विधास्यन् स्तोत्रीयांस्ता-
वद्विधाय स्तौति—
"प्र सोमासो विपश्चित" इति गायत्री भवति प्रेत्यै
"अभिद्रोणानि बभ्रव" इत्यभिक्रान्त्यै "सुता इन्द्राय
वायव" इति सँस्कृत्यै "प्र सोम देव वीतय" इति प्रेत्यै
"प्र तु द्रवे"ति प्रेत्यै प्र वा एतेनाऽह्ना यन्ति ॥ १ ॥
(१)'प्र सोमास' इति गायत्रीच्छन्दस्का प्रथमा स्तोत्रीया भवति । सा
च प्रशब्दयोगात् प्रेत्यै प्रायणाय दशरात्रप्रारम्भायोचिता(२) “अभि-
द्रोणानि बभ्रव" इत्यस्यां तु अभीत्युपसर्गो दृश्यते । तेन चाऽभिक्रमणं
स्मार्यते । अतः सा अभिक्रान्त्यै अभिक्रमणाय दशरात्रस्याऽभितः आक्र-
मणाय भवति । (३)'सुता इन्द्राय वायव' इत्यत्रस्थ(४) सुतशब्देनाऽभिषु-
तसोमवाचिना अभिषवाख्यः संस्कारो बुद्धावुपस्थाप्यते । अतस्सा सं-
स्कृत्यै प्रवृत्तस्य दशरात्रस्य संस्कारगुणातिशयाधानाय भवति । (५) “प्र
सोम देव वीतये' (६)"प्र तु द्रवे"त्यनयोः प्रशब्दयोगात् प्रायणं बु-
द्धिस्थं भवति । अतस्तदुभयं प्रेत्यै प्रायणाय दशरात्रस्याऽऽरम्भाय यो-
ग्यम् । एतेन त्रिवृत्स्तोमेन प्रथमेनाऽह्ना प्रयन्ति वै प्रायणमेव कुर्वन्ति
यजमानाः । अतः प्रायणस्य प्रतिपादिका स्तोत्रीया योग्येति भावः ॥ १ ॥
अथ "प्र सोमास" इत्यस्यां स्तोत्रीयायां गातव्यं साम विधत्ते—
गायत्रं भवति ॥ २ ॥
तच्चैकर्चमित्युत्तराग्रन्थे एकस्या ऋच एवाऽध्ययनादवसीयते ॥ २ ॥
अस्य च गायत्रस्य स्तुतिप्रकारविधायकं ब्राह्मणं सार्थवादं पूर्वमा-
१. प्र सोमासो विपश्चितोऽपो नयंत ऊर्मयः । वनानि महिषा इव ॥
२. अभिद्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । वाजं गोमन्तमक्षरन् ॥
३. सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः । सोमा अर्षन्तु विष्णवे ॥
( सा. सं. उ. १. २. १९. १ )
४. सुतशब्दोऽभिषुतसोमवाची तेन. इति ख. पु.
५. प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा ।
अंशोः पयसा मदिरो न जागृविरच्छाकोशं मधुश्चुतम् । (सा. सं. उ. १.२.२०.१)
६. प्र तु द्रव परिकोशं निषीद नृभिः पुनानो अभिवाजमर्ष । अश्वं नत्वा वाजिनं
मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥ ( सा. सं. उ. ११. १०. १. )
एकादशाध्याये तृतीयः खण्डः । ३९९
ज्ञातमत्राऽप्यतिदिशति—
यदेव गायत्रस्य ब्राह्मणम् ॥ ३ ॥
यदेव प्रकृतावग्निष्टोमे विहितस्य गायत्रस्य ब्राह्मणं(१) “इमे वै लोका
गायत्रं ऽयावृद्गेय”मित्यादि तदेवाऽस्याऽपि विहितस्य गायत्रस्य ब्राह्म-
णम् । प्रकरणभेदाद्ब्राह्मणस्याऽसम्बन्धशङ्का स्यात् । तन्मा भूदित्यर्थ-
मयमतिदेशः ॥ ३ ॥
अथाऽ'भिद्रोणानी'त्यस्यां गातव्यं साम विधत्ते—
आश्वं भवति ॥ ४ ॥
स्पष्टम् । एतदप्येकर्चम् ॥ ४ ॥
अथैतत् प्रवृत्त्युपन्यासेन प्रजातिहेतुरिति स्तौति—
अश्वो वै भूत्वा प्रजापतिः प्रजा असृजत स प्रा-
जायत बहुरभवत्प्रजायते बहुर्भवत्याश्वेन तुष्टुवानः॥२॥
पुरा खलु प्रजापतिः सर्वकारणभूतः स्रष्टा अश्वः अश्वरूपी भूत्वा
प्रजाः स्रष्टव्या असृजत सृष्टवान् । पुनरपि स प्राजायत बहुप्रजारूपेणो-
त्पद्यत । ततः बहुरनेकविधोऽभवत् । अतः आश्वेनाऽश्वसम्बन्धिना
साम्ना तुष्टुवानः स्तुतवान् यजमानः प्रजायते पुत्रपौत्रादिरूपेणोत्पद्यते
ततो बहुरनेको भवति ॥ ५ ॥
अथैतस्य निधनविभक्तिमनूद्य स्तौति—
एकाक्षरं निधनमुपयन्ति रथन्तरस्याऽनतिवादाय ॥ ६ ॥
रा २३४५न् इति एकाक्षरं हि अस्य साम्नो निधनं तदुपयन्ति ! रथ-
न्तरस्य साम्नोऽनतिवादायाऽतिवादाभावाय भवति । अस्ति हि रथन्त-
रस्यैकमेवाऽक्षरं निधनम् । तद्यत्राऽपि अनेकाक्षरं निधनं स्यात् रथन्त-
रस्यानतिवादो भवेत् । अत उभयोरेकाक्षरत्वेन साम्यादतिवादा-
भावः सिध्यतीत्यर्थः ॥ ६ ॥
एतद्वेदनं प्रशंसति—
अनतिवाद्येनं भ्रातृव्यो भवति य एवं वेद ॥ ७ ॥
य एवमुक्तमर्थं जानाति एनं वेदितारं भ्रातृव्यः शत्रुरनतिवादी अती-
त्य वादी न भवति एतद्वचनस्योपरि भ्रातृव्यवचनं नोत्पद्यत इत्यर्थः॥७॥
अथ"सुता इन्द्राय वायव" इत्यस्यां गातव्यं साम विधत्ते—
सोमसाम भवति ॥ ८ ॥
१. ता. ब्रा. ७. १. १.
४०० ताण्ड्यमहाब्राह्मणे
सोमेन दृष्टं साम सोमसाम तदप्येकर्चम् ॥ ८ ॥
अथास्य साम्नः सोमसम्बन्धमेवाऽऽख्यानेन प्रदर्शयन् राज्यादिहे-
तुत्वेनेदं स्तौति—
यथा वा इमा अन्या ओषधय एवं सोम आसी-
त्स तपोऽतप्यत स एतत्सोमसामाऽपश्यत्तेन राज्यमा-
धिपत्यमगच्छद्यशोऽभवद्राज्यमाधिपत्यं गच्छति यशो
भवति सोमसाम्ना तुष्टुवानः ॥ ९ ॥
यथा वा यथा खलु इमाः इदानीं दृश्यमानाः अन्या ओषधयः ल-
तागुल्माद्याः, एवमेव सोमः पुरा अविशिष्ट आसीत् । स सोमस्तपोऽ-
तप्यत् ईश्वरस्मरणात्मकं तपश्चक्रे । तत ईश्वरानुग्रहात् स सोम एत-
त्सोमसामाऽपश्यत् दृष्टवान् । दृष्ट्वा च तेन स्तुत्वा राज्यं राज्ञः कर्म्म
आधिपत्यं ओषधीनामाधिपतित्वञ्चाऽगच्छत् प्राप्नोत् । ततो यशो यशस्वी
अभवत् । अतोऽन्योऽपि सोमसाम्ना तुष्टुवानः स्तुवन् राज्यमाधिपत्यं
च गच्छति यशो यशस्वी च भवति ॥ ९ ॥
“प्र सोम देव वीतय” इति तृचे गातव्यसामविधायकं प्राकृतं
तद्ब्राह्मणं चातिदिशति—
यौधाजयं भवति यदेव यौधाजयस्य ब्राह्मणम् ॥ १०
(१)“देवा वै यशस्कामास्सत्रमासताऽग्निरिन्द्रो वायु”रित्युपक्र-
म्य “अथेन्द्रो यौधाजयं प्रावृणोते”त्यादि यदेव प्राकृतस्य यौधाजयस्य
ब्राह्मणं तदेवाऽस्यापि ब्राह्मणं द्रष्टव्यम्, तत्रोक्तं सर्वमस्यापि भव-
तीत्यर्थः ॥ १० ॥
अथ “प्र तु द्रवे”ति तृचे गातव्यं साम विधाय पूर्ववत्तद्ब्राह्मणम-
प्यतिदिशति—
औशनं यदौशनस्य स्तोमः ॥ ११ ॥
भवति, ब्राह्मणमिति पदद्वयमनुषज्यते । औशनं भवति यदेव प्रकृ-
तावौशनस्य ब्राह्मणमाम्नातम् । “(२)अथ वायु रौशनं प्रावृणोते”त्यादिना
तदेवाऽस्याऽप्यौशनस्य ब्राह्मणं भवति । स्तोत्रीयाभिर्माध्यन्दिनस्य पव-
मानस्य त्रिवृत्स्तोमो निष्पन्न इत्यर्थः ॥ ११ ॥
इति ताण्ड्यमहाब्राह्मणे माधवीये वेदार्थप्रकाशे
एकादशाध्यायस्य तृतीयः खण्डः ॥
१. ता. ७. ५. ६–१२. २. ता. ब्रा. ७. ५. १६.
प्रपाठक २१-२५ (अश्वमेध, पुरुषमेध एवं ताण्ड्य महाब्राह्मण उपसंहार)
अथ चतुर्थः खण्डः ॥
होतृमैत्रावरुणब्राह्मणाच्छंस्यच्छावाकानां क्रमेण चत्वारि पृष्ठस्तोत्रा-
णि । तेषां स्तोत्रीयाः सामानि च प्राकृतान्येव । तत्र होतुः पृष्ठस्य स्तो-
त्रीयं प्रगाथविधमनूद्य स्तौति—
“अभि त्वा शूर नो॑ नुम” इत्यभीति रथन्तरस्य रू-
पंᳵ राथन्तरंᳵ ह्येतदहः ॥ १ ॥
(१)“अभि त्वा शूरे”त्येषा हि रथन्तरस्य योनिः । ततोऽभिशब्द-
स्योत्पत्तावेव रथन्तरेण सम्बन्धादभिशब्दो रथन्तरस्य रूपम् । एत-
त्प्रायणीयमहश्च राथन्तरं रथन्तरपृष्ठकम् । हि यस्मादेवं तस्मादभिश-
ब्दयुक्तः प्रगाथोऽस्मिन्नहनि सम्बन्धयोग्य इत्यर्थः ॥ १ ॥
अथ द्वितीयस्य पृष्ठस्य स्तोत्रीयं तृचमुपादाय स्तौति—
“कया न॑श्चित्र आभुव॑”दिति कवत्यस्तेन प्राजाप-
त्याः को हि प्रजापतिः प्रजापतेरा॑प्त्यै ॥ २ ॥
(२)“कया नश्चित्र” इत्याद्याः कवत्यः कशब्दोपेतास्तिस्र ऋचो भ-
वन्ति । यतः कवत्यस्तेन प्राजापत्याः प्रजापतिदेवताकाः । कुत एतत् ?
को हि कशब्दाभिधेयः खलु प्रजापतिः । एवं कवत्यो भवन्तीति यत्
तत् प्रजापतेराप्त्यै प्राप्तये सम्पद्यते ॥ २ ॥
अथ तृतीयस्य पृष्ठस्य स्तोत्रीयं तृचमनूद्य स्तौति--
(३)“तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसोऽभ
स्वसरेषु धेनव" इत्यभीति रथन्तरस्य रूपꣳ राथन्तरꣳ
ह्येतदहः ॥ ३ ॥
"तं वोदस्म"मित्यस्मिन्तृचे अभिवत्समिति अभिशब्दो विद्यते।
अभीत्येतद्रथन्तरस्य रूपमित्यादि पूर्ववद्व्याख्येयम् । ऋचस्तु उत्तरा-
स्वेव व्याख्याता इति न पुनर्व्याख्यायन्ते ॥ ३ ॥
अस्मिन्नेव तृचे कञ्चित्पादमादाय तदभिप्रायमाह—
'इन्द्रं गीर्भिर्हवामह' इति हवन्त एवैनम् ॥ ४ ॥
'इन्द्रं गीर्भिर्हवामह' इत्यनेन पादेन एनमिन्द्रं हवन्त एव आह्वयन्त
एव ॥ ४ ॥
अथ चतुर्थस्य पृष्ठस्य स्तोत्रीयं प्रगाथमनूद्य स्तौति—
(१)"तरोभिर्वो विदद्वसु" मिति स्तोमो वै तरो यज्ञो
विदद्वसुः स्तोमेन वै यज्ञो युज्यते यत्तरोभिर्वो विदद्वसु-
मित्याह यज्ञमेव तद्युनक्ति ॥ ५ ॥
"स्तोमो वै देवेषु तरो नामाऽसी"दित्यादिना तरःशब्दस्य स्तोम-
वाचकत्वं विदद्वसुशब्दस्य यज्ञवाचकत्वं च पूर्वमुक्तम् । तरत्यनेन यज्ञ-
मिति तरः स्तोमः वस्तूनां लम्भकत्वात् यज्ञो विदद्वसुः । अत्र मन्त्रे य-
द्यपि शब्दद्वयमर्थान्तरपरं तथाऽपि शब्दसाम्येन स्तुतिः । स्तोमेन
च त्रिवृदादिना यज्ञो युज्यते सम्बध्यत इति च प्रसिद्धम् । तथा सति
यथा तरोभिर्वो विदद्वसुमिति तरोभिः करणैः सम्बन्धं विदद्वसुमाह
तच्चेन यज्ञमेव विदद्वसुवाच्यं तरःशब्दवाच्येन स्तोमेन युनक्ति सम्बद्धं
करोति ॥ ५ ॥
अथ प्रथमे स्तोत्रीये प्रकृतमेव सामविधिमनूद्य स्तौति—
रथन्तरं भवति ब्रह्म वै रथन्तरं ब्रह्म प्रायणीयमह-
र्ब्रह्मण एव तद्ब्रह्माऽऽरभ्य प्रयन्ति ॥ ६ ॥
ऋगन्तरवत् 'तं वोदस्म मित्यस्या अप्यृचः प्रतीकमात्रग्रहणे कर्तव्ये अस्या अभि-
शब्दवत्त्वेन स्तुतेः कर्तव्यतया तस्य चोत्तरार्धे एव सत्त्वात् तदर्थं समग्राया अनुवादः ॥
१. तरोभिर्वो विदद्वसुमिन्द्रꣳ सवाध ऊतये ।
बृहद्वायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥ १ ॥
न यं दुध्रा वरन्ते न स्थिरा मुरोमदेषु शिप्रमन्धसः ।
य आहृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥ २ ॥
( सा. सं. १. १. १४ )
एकादशाध्याये चतुर्थः खण्डः। ४०३
ब्रह्म ब्राह्मणजातिरेव रथन्तरं प्रजापतिमुखात्सहोत्पत्तेः । प्रय-
न्त्यनेनेति प्रायणीयं प्रथममहः । तच्च ब्रह्म तस्मिन्नहनि रथन्तरस्य कर-
णाद् ब्रह्मण एव सकाशात् ब्रह्माऽऽक्रम्याऽधिष्ठाय प्रयन्ति प्रायणमुपक्रमं
कुर्वन्ति ॥ ६ ॥
प्रकारान्तरेण प्रशंसति-
इयं वै रथन्तरमस्यामेव प्रतिष्ठाय सत्रमासते ॥७॥
इयं दृश्यमाना भूमिरॆव रथन्तरं, तथा सति अस्यामेव पृथिव्यां
प्रतिष्ठाय सत्रमासतेऽनुतिष्ठन्ति ॥ ७ ॥
अथ मैत्रावरुणपृष्ठस्तोत्रनिर्वर्तकं साम विधाय स्तौति-
वामदेव्यं भवति पशवो वै वामदेव्यं पशूनामव-
रुद्ध्यै प्राजापत्यं वै वामदेव्यं प्रजापतावेव प्रतिष्ठाय स-
त्रमासते ॥ ८ ॥
शान्तिहेतुतया पशुसाधनत्वात् वामदेव्यस्य पशुत्वम् । 'कया
नश्चित्र' इति वामदेव्याधारस्य तृचस्य प्राजापत्यत्वात् तदाश्रितं सा-
माऽपि प्राजापत्यमित्युक्तम् । स्पष्टमन्यत् ॥ ८ ॥
अथ तृतीयस्य पृष्ठस्तोत्रस्य साम विधाय स्तौति-
नौधसं भवति ब्रह्म वै नौधसं ब्रह्म प्रायणीयमहर्ब्र-
ह्मण एव तद्ब्रह्माऽऽक्रमन्ते ॥ ९ ॥
नोधा नाम ऋषिस्तेन दृष्टं साम नौधसं तद्ब्रह्म परिवृढम् । यद्वा
बृहत्प्रतिरूपकत्वेन राथन्तरेऽहनि प्रयोज्यत्वात् ब्रह्मेति व्यपदेशः ।
प्रायणीयमहश्च परिवृढं मुख्यत्वात् । एवं सति नौधसं भवतीति यत्तेन
ब्रह्मणः सकाशादेव ब्रह्माऽऽक्रमन्ते अवलम्बन्ते ॥ ९ ॥
अथ चतुर्थस्य पृष्ठस्य साम प्रदर्श्य तच्च रथन्तरञ्चोभयं संयु-
ज्य स्तौति-
कालेयं भवति समानलोके वै कालेयञ्च रथन्तरञ्चेयं
वै रथन्तरं पशवः कालेयमस्याञ्चैव पशुषु च प्रतिष्ठाय
सत्रमासते ॥ १० ॥
कालेयं सामाऽच्छावाकपृष्ठस्तोत्रं भवति । कालेयञ्च रथन्तरञ्चैते
सामनी समानलोके समानायतने रथन्तरं यत्र प्रयुज्यते तत्र कालेय-
मपि प्रयोक्तव्यमित्यर्थः । इयं खलु पृथिवी रथन्तरं साम पशवश्च काले-
यं तत्साधनत्वात् ईदृशयोरुभयोः प्रयोगात् अस्याञ्चैव पृथिव्यां पशुषु
४०४ ताण्ड्यमहाब्राह्मणे
गवादिषु च प्रतिष्ठाय चिरकालं स्थित्वा सत्रमासते अनुतिष्ठन्ति॥१०॥
अस्य साम्नो निधनस्याऽहरानुरूप्यं दर्शयति—
द्रवाडिदं तथा ह्येतस्याऽह्नो रूपꣳ स्तोमः ॥ ११ ॥
(१)हो ५ इडेति विप्रगेयेन इडाशब्देन युक्तं एतत्साम तथा हि तथा
खल्वेतस्य प्रायणीयस्याह्नो रूपं पूर्वमुपन्यस्तं तत् द्रवाडिदं प्रथमस्याऽ-
ह्नो रूपमिति एतेषु चतुर्षु पृष्ठस्तोत्रेषु उक्त एव त्रिवृत् स्तोमो बोद्धव्यः ११
इति ताण्ड्यमहाब्राह्मणे सायणीये वेदार्थप्रकाशे
एकादशाध्यायस्य चतुर्थः खण्डः ॥ ४ ॥
अथ पञ्चमः खण्डः ॥
अथाऽऽर्भवपवमानस्य स्तोत्रीया विधाय तत्र तासामानुरूप्यञ्च
दर्शयति—
“प्र सोमासो मदच्युत” इति गायत्री भवति मदवद्
वै रसवृत्तत्तृतीयसवनं मदमेव तद्रसं दधात्य “घा पवस्व
देवयु”रित्येति रथन्तरस्य रूपꣳ राथन्तरꣳ ह्येतदहः॥१॥
“पवतेऽहर्य्यतो हरि”रिति बृहतो रूपं बृहदेव तदेत-
स्मिन्नहनि युनक्ति तद्युक्तꣳ इव आरभन्ते ॥ २ ॥
“प्र सुन्वानायाऽन्धस”इति प्रवत्यो भवन्ति प्रणिनी-
षण्यमिव ह्येतदह “रभिप्रियाणि पवते च नोहित”इत्य-
भीति रथन्तरस्य रूपꣳराथन्तरꣳ ह्येतदहः ॥ १ ॥
(२) “प्र सोमास” इत्येषा एका स्तोत्रीया गायत्री प्रथमा भवति ।
तत्तृतीयसवनं तन्मदवद्वै मदयुक्तमेव रसवत् रसयुक्तं भवति तन्ना-
ऽऽशिरावनयनेन मदकररसजननात् ‘विश्वे देवाः सोमस्य मत्सन्’ ‘ऋ-
भवौ देवाः सोमस्य मत्सन्नित्यादिनिविन्मन्त्रवर्णाच्च तृतीयसवनस्य म-
दहेतुत्वं गम्यते । तत्तेन मदवत्या गायत्र्याः प्रयोगेन मदवत् मदकरमे-
१. निधनमिदं तृचस्याऽन्ते द्रष्टव्यम् ।
२. प्र सोमासो मदच्युतः श्रवसे नो मघोनाम् । सुता विदधे अक्रमुः ॥ १ ॥
( सा. सं. उ. १. २. २१. १ )
एकादशाध्याये पञ्चमः खण्डः । ४०५
व रसं तृतीयसवने दधाति, (१)“अया पवस्वे”ति अपरा स्तोत्रीया ।
तत्र चाऽऽकारो विद्यते । आ इति च रथन्तरस्य रूपं एति प्रेत्याशुमदिति
गणनात् एतत्प्रायणीयमहश्च राथन्तरम् । अतो रथन्तररूपयुक्तमन्त्र
परिप्रयोगार्हमित्यर्थः ॥ १ ॥
(२)पवते हर्य्यत इत्यन्या स्तोत्रीया । तत्र च पवत इति वर्त्तमानकाला-
भिधायिना पवनस्य स्थितिः प्रतीयते । तच्च बृहतो रूपं उपस्थितं द्वि-
तीयस्याऽह्नो रूपमित्यादिना बृहतस्तद्रूपत्वस्योक्तत्वात् । तत्तेन स्तोत्रीया-
करणेन बृहत्सामैव एतस्मिन् प्रथमेऽहनि युनक्ति पूर्वस्मिन्नहनि युक्तं
सम्बद्धं तत्साम श्वः परेद्युरारभन्ते प्रयोक्तुं, परिगृह्णन्ति, प्रशब्दवत्त्वेन
स्तौति । (३)“प्रसुन्वानाये”त्येषाऽपरा स्तोत्रीया । यद्यप्येकर्चमेव तत्र सा-
मद्वयं गौरीवीतं गौतमञ्चाऽत्र गीयते, तथाऽपि उत्तराभ्यां सह मिलित्वैत-
त्प्रशस्यते प्रवत्यः प्रशब्दयुक्ता भवन्ति तत्प्रायणीयमहः प्रणिनीषेण्य-
मिव हि प्रणतव्यत्वेनेष्टं खलु 'अभिप्रियाणी'त्यपरः स्तोत्रीयः स्तृचः ।
अभीति रथन्तरस्य रूपं, तद्योन्या'मभित्वा शूरै'ति दृष्टत्वात् । गत-
मन्यत् ॥ १ ॥
अथाऽग्निष्टोमसाम्नः स्तोत्रीयां दर्शयति—
“यज्ञा यज्ञा वो अग्नय” इत्याग्निर्वै यज्ञो यज्ञ एव
तद्यज्ञं प्रतिष्ठापयति ॥ २ ॥
यज्ञा यज्ञाव इत्यस्मिन् प्रगाथे यज्ञायज्ञेति द्वौ यज्ञशब्दौ दृश्येते ।
तयोरेकः यज्ञशब्दोऽग्निवाचकः, अपरस्तु क्रियाया इत्यभिप्रायेण व्या-
चष्टे-अग्निर्वै यज्ञ इति । योऽयं यज्ञः यज्ञशब्दाभिधेयः क्रतुः सोऽग्निर्वै
अग्निरवे तन्निष्पाद्यत्वात् यज्ञशब्दस्योपरि पुनर्यज्ञशब्दोच्चारणात्
यज्ञे संस्तुते अग्नावेव तत्तेन यज्ञं प्रतिष्ठापयति ॥ २ ॥
अथ प्रसोमास इत्याद्यायां स्तोत्रीयायां गायत्रं साम विधाय इमे
वै लोका गायत्रं व्यावृतद्गेयमित्यादिकं तद्ब्राह्मणञ्चाऽतिदिशति—
गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम् ॥ ३ ॥
१. अया पवस्व देवयु रेभन्पवित्रं पर्य्येषि विश्वतः । मधोर्धारा असृक्षत ॥ १ ॥
२. पवते हर्य्यतो हरिरिति ह्राꣳसि रꣳह्या । अभ्यर्षस्तोतृभ्यो वीरवद्यशः ॥ २ ॥
३. प्रसुन्वानायाऽन्धसो मर्त्तो न वष्ट तद्वचः ।
अपश्वानमराधसꣳ हता मखं न भृगवः ॥ ३ ॥
( सा. सं. पू. ६. २. १. ९. सा. सं. उ. १. २. २२ )
४०६ | ताण्ड्यमहाब्राह्मणे
व्याख्यातमेतत् ॥ ३ ॥
अथ तस्यामेव स्तोत्रीयायां सामान्तरं विधाय निधनद्वारा तत्प्र-
तिष्ठाहेतुरिति स्तौति—
सं॑हि॒तं भ॑वति द्व्यक्ष॑रनिधनं॒ प्रति॑ष्ठायै॒ प्रति॑ष्ठा-
यै॒व स॑त्रमासते ॥ ४ ॥
गायत्रं संहितञ्चैते द्वे अपि च सामनी एकर्च्वे तत्र संहितं द्व्यक्षर-
निधनं द्वे अक्षरे निधनं यस्य तत्तथोक्तं क्र २ ३ ४ ५ मुः इति हि तस्य
निधनमधीयते । तच्च मनुष्यपादद्वयसाम्यात् प्रतिष्ठायै प्रतिष्ठानाय
भवति । एवमनेन निधनेन प्रतिष्ठायैवाऽनन्तरं प्रतिष्ठिताः यजमानाः स-
त्रमासते ॥ ४ ॥
'अया पवस्वे' त्यस्यां गातव्यं साम विदधाति—
स॒फं भ॑वति ॥ ५ ॥
स्पष्टोऽर्थः ॥ ५ ॥
एतत्सामनिर्वचनद्वारेण लोकत्रयप्राप्तिहेतुरेतत्सामेति दर्शयति—
स॒फेन॒ वै दे॒वा इ॒मान् लो॒कान् स॒माप्नु॑वन्
यत्स॒माप्नु॑वं॒स्तत्स॒फस्य॑ सफ॒त्वमि॒माने॒वैते॑न लो॒कान्
स॒माप्या॑ सत्र॒मास॑ते ॥ ६ ॥
सफेन खलु साम्ना साधनेन देवाः पुरा इमान् पृथिव्यादिकान्
लोकान् समाप्नुवन् सम्यगाप्तवन्तः यद्यस्मात्समाप्नुवन् तत्तस्मात्
समाप्तिसाधनत्वात् सफस्य साम्नः सफत्वं सफमिति संज्ञा सम्प-
न्ना । सम्पूर्वादाप्नोतेः सफशब्दो व्युत्पादनीयः । पृषोदरादित्वात्वर्णवि-
कारः । यस्मादेवं तस्मादिदानीन्तना अपि यजमानाः एतेन सफेन
साम्ना इमानेव लोकान् समाप्य सम्यगवाप्य सत्रमासते ॥ ६ ॥
"पवते हर्य्यतो हरि"रित्यस्यां गातव्यं साम विदधाति—
त्र्यक्ष॑रं भवति ॥ ७ ॥
स्पष्टोऽर्थः ॥ ७ ॥
इदं साम भ्रातृव्यापनोदनहेतुरिति प्रतिपादयिषुराह—
अ॒ष्टौ वा ए॒ताः का॑मदु॒घा आ॑स॒ँस्तोमे॑का समशी-
र्य॑त॒ सा कृ॒षिर॑भवद्दृध्यतेऽस्मै कृ॒षौ य एवं वेद॑ ॥ ८ ॥
पुरा खलु एता गायत्रीत्रिष्टुबाद्याः अष्टौ अष्टसंख्याः सत्यः काम-
दुघाः कामस्य काम्यमानस्याऽभिमतस्य सर्वस्य फलस्य दोग्ध्यो गो-
एकादशाध्याये पञ्चमः खण्डः। ४०७
रूपा आसन्। तासां मध्ये एका समशीर्यत संशीर्णा प्रध्वस्ताऽ-
भूत्। ततः सा कृषिः व्रीहियवादिहेतुः कर्षणक्रियाऽभूत् । अत इदानीं
गायत्र्यादीनि चतुरक्षराधिकानि सप्तैव छन्दांस्युपलभ्यन्ते । एवं कृषे-
रुत्पत्तिं यो वेद जानाति तस्मै जानते कृषौ कर्षणक्रियायां ऋध्यते
ऋद्धिः समृद्धिर्भवति ॥ ८ ॥
अथ प्रतिपित्सितं भ्रातृव्यापनोदनमेव दर्शयति—
तासु देवासुरा अस्पर्धन्त ते देवा असुरान् काम-
दुघाभ्य आक्षारेणाऽनुदन्त नुदते भ्रातृव्यं कामदुघाभ्य
आक्षरेण तुष्टुवानः ॥ ९ ॥
तासु पूर्वोक्तासु कामदुघासु देवासुराः देवाश्चाऽसुराश्चाऽस्पर्दन्त
परस्परं स्पर्द्धां कृतवन्तः । ते स्पर्द्धमाना देवाः अनेनाऽक्षारेण साम्ना
तानसुरान् कामदुघाभ्योऽनुदन्त प्रेरयन् ताभिरसुरान्वियोजित-
वन्त इत्यर्थः । यत एवं अतो हेतोरिदानीमपि आक्षारेण तुष्टुवानः
स्तुतवान् यजमानो भ्रातृव्यं शत्रुं कामदुघाभ्यः सकाशात् नुदते प्रेरं-
यति (१)निर्गमयति ॥ ९ ॥
अथ प्रसङ्गादिदं साम कस्यचिद्यजमानविशेषस्य ब्रह्मसामत्वेन-
विधित्सुः (२) अन्वर्थां आक्षारसंज्ञां निर्वक्ति—
एभ्यो वै लोकेभ्यो रसोऽपाक्रामत्तं प्रजापतिराक्षारेणा-
ऽऽक्षारयद्यदाक्षारयत्तदाक्षारस्याऽऽक्षारत्वम् ॥ १०॥
एभ्यस्त्रिभ्यो लोकेभ्यः सकाशात् पुरा रसः क्षीराद्यात्मकः अपा-
क्रामत् अपागच्छत् । तमपक्रान्तं रसं प्रजापतिः प्रजानां पालयिता
देवः आक्षारेणा नेनाऽऽक्षारयत् आसमन्तादासिक्तवान् । यद्यस्मादने-
नाऽऽक्षारयत् तत्तस्मादस्य साम्न आक्षारमिति नाम सम्पन्नम् ॥१०॥
अस्त्वेवम्, किं ततः ? इत्याह—
तस्माद्यः पुरा पुण्यो भूत्वा पश्चात्पापीयान् स्यादा-
क्षारं ब्रह्म साम कुर्वीताऽऽत्मन्येवेन्द्रियं वीर्यँ रसमा-
क्षारयति ॥ ११ ॥
यस्मात् आक्षारणसाधनमेतत्साम तस्माद्यो यजमानः पुरा पूर्वस्मिन्
काले पुण्यः धनादिभिः श्रेष्ठो भूत्वा पश्चात्परस्मिन् काले पापीयान पापिष्ठो
१. विगमयति इति क. पु । २. तदर्थ. इति. ख. पु.
दरिद्रतमः स्यात् भवेत् स आक्षारं साम ब्रह्मसाम कुर्वीत । कृतेन
च तेन साम्ना आत्मनि स्वस्मिन्निन्द्रियं इन्द्रस्य सम्बन्धि वीर्य्यं रसं
पयःप्रभृतिकञ्च आक्षारयति (१)आश्चोतयति ॥ ११ ॥
अथ प्रकृतमेवाऽनुसरन् रूपमाक्षारञ्चोभयं संयुज्य धृतिहेतुत्वेन
स्तौति—
जनुषैकऋचौ भवतोऽह्नो धृत्यै यद्वा एतस्याऽह्नो ऽधृतं
तदेताभ्यां दाधार ॥ १२ ॥
जनुषा जन्मना स्वभावतः एतौ सामविशेषौ एकऋचौ एकस्यामृ-
र्चि गेयौ भवतः । तथा चोभयोः साम्यात् सामद्वयमपि पादद्वयवत्
अस्य प्रायणीयस्याऽह्नो धृत्यै धारणाय भवति । एतदेव विव्रियते-यद्वा
इत्यादिना । यत् खलु एतस्य प्रायणीयस्याऽह्नो ऽधतमधारितं अना-
श्रितं भवति तदेताभ्यां सामभ्यां दाधार स्तोता धारयति ॥ १२ ॥
अथ "प्रसुन्वानाये"त्यस्यामृचि गौरीवितगौतमे गातव्ये तत्राऽऽद्यं
विदधाति ।
गौरीवितं भवति ॥ १३ ॥
स्पष्टम् ॥ १३ ॥
अहीनेषु क्रतुषु पूर्वोत्तरयोरहोरिदं साम सन्धानहेतुरिति दर्श-
यिष्यन् तदर्थमस्य साम्नोऽतिरिक्ततामाह—
गौरीवितिर्वा एतच्छाक्त्यो ब्राह्मणोऽतिरिक्तमपश्य-
त्तद्गौरीवितमभवत् ॥ १४ ॥
(२)शाक्त्यः शक्तिगोत्रः गौरीवितिर्नाम ऋषिः पुरा ब्रह्मणः परमे-
ष्ठिनः शब्दब्रह्मात्मिकाया वाचो विभज्यमानायाः एतत्सामातिरिक्त-
मपश्यत् तत्साम गौरीविताख्यं अभवत् "देवा वै वाचं व्यभजन्त
तस्या यो रसोऽत्यरिच्यत । तद्गौरीवितमभव"दिति हि ब्राह्मणम् ॥१४॥
किमतः ? तदाह—
अतिरिक्तं वा एतदतिरिक्तेन स्तुवन्ति यद्गौरीविते-
नाहीनाञ्छ्वस्तनवद्भवत्यपि प्रजाया उपकॢप्तम् ॥ १५ ॥
१. आसेचयति इति क. पु.
२. गुरीवितस्याऽपत्यं गौरीवितिः । शाक्त्यनामा इति ख. पु. तत् परमेष्ठिनोऽतिरिक्तं
गुरीवितापत्यशाक्त्यदृष्टं साम । अतस्तस्य गौरीवितमिति नाम सम्पन्नम् इति पाठभेदो
दृश्यते ख. पु ।
एतद्गौरीवितमुक्तप्रकारेणाऽतिरिक्तं वै अधिकमेव खलु अतोऽति-
रिक्तेनाऽधिकेन अत्र स्थित्वैव अहरन्तरं व्याप्तुं शक्तेन साम्ना स्तुवन्ति
अहीनानहःसमूहान् “अहः समूहे खो वक्तव्यः” । यद्गौरीवितेन साम्ना-
ऽहीनान् सन्तनोति तेन प्रजायाः पुत्रपौत्रादिरूपायाः उपक्लृप्तं उपक-
ल्पितं सम्पादितं धनादिकं श्वस्तनवत् श्वः परेद्युरपि वर्त्तमानं भवति
सर्वदाऽवस्थितं भवति । न कदाचित् क्षीयत इत्यर्थः ॥ १५ ॥
अथैतत्प्रजाहेतुत्वेन स्तौति—
वृषा वा एतद्वाजिसाम वृषभो रेतोधा अद्य स्तुवन्ति
श्वः प्रजायते ॥ १६ ॥
वाजि वाजवत् बलवद्वा एतत्साम वृषा वै वर्षणसमर्थः पुङ्गवः । स
च वृषभो रेतोधा रेतसः पुत्रपौत्राद्युत्पत्तिहेतुभूतस्य वीर्यस्याऽऽधाता
भवति । अतो वृषसंस्तुतेनाऽनेन साम्ना अहीनेषु अद्याऽस्मिन्नहनि स्तुव-
न्ति । तेन च रेत एव निषिक्तं भवति । श्वः परेद्युः प्रजायते तदेव निषिक्तं
रेतः प्रजारूपेणोत्पद्यते ॥ १६ ॥
अथाऽस्याऽऽधारभूताया ऋचश्छन्दोद्वाराऽपि प्रजाहेतुत्वमाह—
अनुष्टुभि छन्दसां क्रियतेऽनुष्टुब्धि छन्दसां योनिः
स्वायामेव तद्योनौ रेतो धत्ते प्रजायै ॥ १७ ॥
छन्दसां गायत्र्यादीनां मध्ये अनुष्टुभि अनुष्टुप्छन्दस्कायामृचि
“प्र सुन्वानाये”त्यस्यां क्रियते । तत्कस्य हेतोः ? हि यस्मात् छन्दसां
गायत्र्यादीनामनुष्टुप् योनिर्भवति । “अनुष्टुप् च वै सप्तदशश्च समभव-
ता”मित्यादिना छन्दसामनुष्टुब्योनित्वं पूर्वमेव प्रदर्शितम् । तत्तस्मा-
त्सर्वच्छन्दसां योनाव्नुष्टुभि गौरीवितस्य करणात् स्वायां स्वकीयायां-
आत्मीयायामेव योनौ रेतो धत्ते आधत्ते प्रजायै पुत्रादिरूपेणोत्पत्त्यै ॥ १७ ॥
एतद्वेदनं प्रशंसति—
प्रजायते बहुर्भवति य एवं वेद ॥ १८ ॥
स्पष्टोऽर्थः ॥ १८ ॥
अधुनाऽस्य साम्नोऽहःसमूहे प्रयुज्यमानस्य पूर्वोत्तरयोरह्वोः सन्धा-
यकत्वं दर्शयति—
द्युदासं भवत्येतौ वा उदासौ स्वर्गस्य लोकस्याऽव-
सानदर्शौ पूर्वेण पूर्वमहः सँस्थापयन्त्युत्तरेणोत्तरमह-
रभ्यातिवदन्ति ॥ १९ ॥
[Header] ४१० ताण्ड्यमहाब्राह्मणे
एतत्साम द्व्युदासं द्वावुदासावुत्क्षेपौ यस्मिन् तथाविधं भवति ।
ततश्च किम् ? एतौ खलूदासौ स्वर्गस्य लोकस्याऽवसानदर्शौ पारदृ-
श्वानौ तयोः पूर्वेण पूर्वमनुष्ठीयमानमहः संस्थापयन्ति परिसमाप-
यन्ति, उत्तरेणोदासेन उत्तरमागभ्यहरभिलक्ष्याऽतिवदन्ति इदमहर-
तिक्रम्य वदन्ति ॥ १९ ॥
अथैतेनोदासद्वयेन यजमानानां स्वर्गलोकाध्यवसानं भवतीति
दर्शयति—
तद्यथाऽदः पूर्वेद्युः स्पृष्टं तृणोदकमन्ववस्यन्तो य-
न्त्येवमेव ताभ्याꣳस्वर्गं लोकमन्ववस्यन्तो यन्ति ॥२०॥
तदिति वाक्यालङ्कारे। यस्मादेतावुदासौ स्वर्गस्य लोकस्याऽवसा-
नदर्शौ, अतोऽस्माद्धेतोः यथा पूर्वेद्युः पूर्वस्मिन् दिवसे यागकाले तृ-
णोदकं समीपस्थानि तृणान्युदकानीति चाऽन्ववस्यन्तः अध्यवस्यन्तो
यन्ति, एवमेवैताभ्यामुदासाभ्यां यजमानाः स्वर्गं लोकमन्ववस्यन्तः
अनुक्रमेण पश्यन्तो यन्ति गच्छन्ति ॥ २० ॥
अथाऽस्यामेव स्तोत्रीयायां सामान्तरं विधत्ते—
गौतमं भवति ॥ २१ ॥
गौतमेन दृष्टं साम गौतमं एतदप्यत्रैकर्चम् ॥ २१ ॥
तदेतत् स्वर्गे चिरकालस्थितिहेतुत्वेन स्तौति—
सामाऽऽर्षेयवत् स्वर्गाय युज्यते स्वर्गाल्लोकान्न च्यवते
तुष्टुवानः ॥ २२ ॥
आर्षेयवत् ऋषिसम्बन्धवत् साम स्वर्गाय युज्यते स्वर्गप्राप्त्यै
युक्तं भवति । ततोऽनेन तुष्टुवानः स्तुतवान् स्वर्गात् लोकान्न च्यवते
न प्रच्युतो भवति ॥ २२ ॥
अथ सामान्तरस्य पूर्वमुक्तं ब्राह्मणमंत्राऽप्यतिदिशति—
यदु चैवाऽऽनुष्टुभस्य मध्ये निधनस्य ब्राह्मणं तदु
चैतस्य ॥ २३ ॥
प्रकृतौ हि “पुरोजितीवो अन्धस” इत्यस्मिन्नानुष्टुभे तृचे श्या-
वाश्वाऽन्धीगवे द्वे सामनी विहिते । अत्रान्धीगवं मध्येनिधनं दशाक्ष-
रम् । “मध्यतो निधनमुपयन्ती”ति तत्र श्रवणात् । आनुष्टुभस्य अनु-
ष्टुभि क्रियमाणस्य मध्येनिधनस्याऽन्धीगवस्य यदु चैव यदेव च
ब्राह्मणं ‘मध्येनिधनमैडं भवत्येतेन वै तृतीयसवनं प्रतिष्ठित’मित्यादिकं
एकादशाध्याये पञ्चमः खण्डः । ४११
तदु तदेव चैतस्य गोतमस्याऽपि ब्राह्मणं तत्र प्रतिपादितं सर्वं अने-
नाऽपि शेषत्वेनाऽन्वेीयत इत्यर्थः ॥ २३ ॥
अथ “अभिप्रियाणी”ति तृचे गेयं साम विदधाति—
कावं भवति ॥ २४ ॥
स्पष्टोऽर्थः ॥ २४ ॥
अथैतल्लोकप्राप्तिहेतुरित्याह—
लोकबिन्दु साम विन्दते लोकं कावेन तुष्टुवानः ॥२५॥
लोकबिन्दु लोकस्य लम्भकं एतत्साम । अतोऽनेन कावेन तुष्टु-
वानः स्तुतवान् लोकमभिलषितं स्थानं विन्दते विदॢलाभ इत्यस्माद्धा-
तोः बिन्दुरिच्छुरिति उप्रत्ययान्तो निपातितः ॥ २५ ॥
अस्य निधनं प्रदर्श्य स्तौति—
स्वारम् स्वरेण स्वरेण हि देवेभ्योऽन्ततोऽन्नाद्यं प्र-
दीयते स्वरेणैव तद्देवेभ्योऽन्ततोऽन्नाद्यं प्रयच्छति ॥२६॥
स्वरेण स्वरितेन स्वारं स्वारनिधनञ्चैतद्भवति ततः किम्? उच्यते-
स्वरेण स्वर्य्यमाणेण वषट्कारेण स्वरितान्तेन स्वाहाकारेण वा खलु
देवेभ्यः अन्ततो मन्त्रावसानेऽन्नाद्यं अत्तुं योग्यञ्चरुपुरोडाशादिकमन्नं
प्रदीयते । तत्तस्मादत्रापि अन्ततः अहरवसाने तृतीयसवने देवेभ्यः
स्वरेणैव कावसम्बन्धिना क्रियमाणेनाऽन्नाद्यं देवेभ्यः प्रयच्छति ॥२६॥
एवमार्भविकस्य त्रिवृत्स्तोमस्य नवस्तोत्रीयास्तत्तत्यानि सा-
मानि च विहितानि । अथाऽग्निष्टोमसाम विधत्ते—
यज्ञायज्ञीयं भवति ॥ २७॥
स्पष्टम् ॥ २७ ॥
तदेतत् स्तौति—
वाग्यज्ञायज्ञीयं वाचि यज्ञः प्रतिष्ठितो वाच्येव तद्यज्ञ-
मन्ततः प्रतिष्ठापयन्ति तं वाचोऽधि इव आरभन्ते ॥२८॥
वाङ्निधनत्वाद्यज्ञायज्ञीयं साम वागात्मकम् । वाचि च वेदात्मि-
कायां यज्ञः प्रतिपाद्यत्वेन प्रतिष्ठितः । यस्मादेवं तस्मादन्ततोऽहरव-
साने आश्रयभूतायां वाच्येव यज्ञं प्रतिष्ठापयन्ति निदधति तं पूर्वेद्युः
प्रतिष्ठापितं यज्ञं वाचोऽधि वाचः सकाशादेव इवः परेद्युरारभन्ते पुन-
राददते ॥ २८ ॥