ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
वारणेन"
Wait, does it have an avagraha?
If someone transcribes it, could it be interpreted as avagraha?
Let's see: in line 6: "स्पष्टोऽर्थः" - the avagraha is 'ऽ'.
In line 22: the glyph is 'ऽ'.
In line 28: the glyph is 'ऽ'.
In line 9: the glyph is 'ऽ'.
Wait! If it is printed with the EXACT sort as the avagraha glyph 'ऽ', shouldn't we consider how people transcribe it?
Wait, why would a typesetter put 'ऽ' before 'व'?
Look at line 9: "स्तं ऽवरणशाखया"
If the typesetter literally used the 'ऽ' type sort, or if in this edition the editor used 'ऽ' to indicate something (like an elision or doubling or pause)?
Wait, look at line 9: "शाखयाऽवारयन्त" - here 'ऽ' is undoubtedly an avagraha.
Look at line 28: "पशवो वै ऽवारवन्तीयग्ँ"
Wait, look at the glyph in line 9: "स्तं ऽवरण...".
Wait, does it look like 'ऽ' or 'व'?
Wait, look at line 29: "तत्सव्वँत्सरात्"
In line 29, what is between 'स' and 'वँ'?
It is THAT SAME GLY
पञ्चमाध्याये चतुर्थः खण्डः । १४९
अथ चतुर्थः खण्डः ।
एवं महाव्रतस्तोत्रस्य स्वरूपमभिधाय 'प्राणेन पुरस्तादि'त्यादिना
'आसन्दीमारुह्योद्गायेती'त्यन्तेन तत् प्रयोगप्रकार उच्यते । पक्षिरूपस्य
तस्य महाव्रतस्य लोमनखस्थानीयानां विधास्यमानानां प्राणादिसाम्नां
परिमाद इति संज्ञा तैश्चाहवनीयादिकमुपस्थेयमित्यस्मिन् खण्डे विधी-
यते । अस्य चोपस्थानस्य कालादिकं सूत्रकारो विशदीकृतवान् । महा-
व्रतस्य पृष्ठ उपाकृते युक्तं स्तोमं परिमादो गायेदिति शाडिटायनः, प्र-
तिगृह्य तृणे अयुक्त्वेति गौतमशाण्डिल्यौ, धानञ्जय्यश्च प्रागेव स्तोत्रो-
पाकरणादित्येक इति, तत्र प्राणसाम्ना आहवनीयोपस्थानं विधत्ते—
प्राणेन पुरस्तादाहवनीयमुपतिष्ठन्ते प्राणमेव त-
ज्जयन्ति ॥ १ ॥
इन्द्रं नर इत्यस्यां 'हाउ३ आयुः३ सात्यम्३' इति गीयमानं साम प्रा-
णः । तेन साम्ना पुरस्तात् पूर्व्वस्यां दिश्यवस्थाय आहवनीयमुपतिष्ठ-
न्ते । सदसो निर्गत्य दक्षिणेनाग्नीध्रीयं गत्वा चित्याग्निमुत्तरेण आहवनी-
यस्य पूर्वभागं प्राप्य उपस्थानमित्यर्थः । यद्यपि परिमादो गायेदित्ये-
कवचनेन एकस्यैव गानकर्त्तृत्वात् तत्करणके उपस्थानेऽप्येक एवेति
उपतिष्ठन्त इति बहुवचनमनुपपन्नं तथापि 'सर्वाण्युद्गाता सकृत् सकृ-
द्गायेत् निधनमितरावुपेयातामपि मध्ये निधनेषु' इति सूत्रकारेण इतर-
योरपि निधनभागेऽन्वयस्योक्तत्वात् त्रयोप्युपस्थाने कर्त्तार इति बहुव-
चनमुपपद्यते । एवमुत्तरत्रापि द्रष्टव्यम् । तत्तेन प्राग्दिक् सम्बन्धिनाह-
वनीयोपस्थानेन प्राणमेव पञ्चवृत्त्यात्मकं शरीरे वर्त्तमानस्य प्राणवायोः
या प्राणाख्या प्रथमा वृत्तिः तामेव जयन्ति लभन्त इत्यर्थः । प्राणवृत्ति-
रपि नासिकातो निर्गत्य प्राग्गामिनी भवति । अतः प्राक् सम्बन्धिनोप-
स्थानेन तज्जयो युक्तः ॥ १ ॥
अथ चित्याग्नेः पुच्छस्य अपानसाम्नोपस्थानं विधत्ते—
अपानेन पश्चात्पुच्छमुपतिष्ठन्ते अपानमेव तज्ज-
यन्ति ॥ २ ॥
यथैतं प्रत्याव्रज्य पश्चादवस्थाय 'इन्द्रं नर' इत्यस्यामेव 'हाउ३ आनो
हिय३ मनदोहम्३' इति गीयमानं साम अपानः । तेन पुच्छमुपतिष्ठेरन्
तत्तेन प्रत्यग्दिक्सम्बन्धिनोपस्थानेन प्रत्यग्गामिनीम् अपानवृत्तिमेव
जयन्ति ॥ २ ॥
१५० ताण्ड्यमहाब्राह्मणे
व्रतपक्षौ नाम द्वे सामनी 'इन्द्रं नर' इत्यस्यामेवोत्पन्ने ताभ्यां चि-
त्याग्नेः पक्षयोरुपस्थानं विधत्ते—
व्रतपक्षाभ्यां पक्षावुपतिष्ठन्ते दिश एव तज्जयन्ति ॥३॥
'व्रतपक्षयोः पूर्वेण दक्षिणं पक्षमि'ति सूत्रकारेण व्यवस्थाया दर्शि-
तत्त्वात् पूर्वेण व्रतपक्षेण दक्षिणं पक्षमुत्तरेणोत्तरं चोपतिष्ठेरन् एते अपि
सामनी 'इन्द्रं नर' इत्यस्यामुत्पन्ने 'हाउ३ हे४३ ह४३ इन्द्रं नरो' इति
गीयमानं साम पूर्वो व्रतपक्षः । हाउ३ इहा३ ह४३ इन्द्रं नरो' इति
गीयमानं सामोत्तरः तत्तेन दिक्सम्बन्धः । पक्षयोरुपस्थानेन दिशां
जयो भवति ॥ ३ ॥
पुनरन्यदुपस्थानं विधत्ते—
प्रजापतेर्हृदयेनापिकक्षमुपतिष्ठन्ते ज्यैष्ठ्यमेव तज्जयन्ति ॥४॥
अपिकक्षं पक्षमूलमुत्तरमपिकक्षमुपतिष्ठेरन् प्रजापतेः ज्येष्ठत्वात्
तत्तेनोपस्थानेन ज्यैष्ठ्यमेव जयन्ति ॥ ४ ॥
अथ चात्वालस्योपस्थानं विधत्ते—
वसिष्ठस्य निह्नवेन चात्वालमुपतिष्ठन्ते स्वर्गमेव
तल्लोकमाप्त्वा श्रियं व्वदन्ते ॥ ५ ॥
'असावि देवम्' इत्यस्यामुत्पन्नं साम वसिष्ठस्य निह्नवः । तेन चात्वा-
लमुपतिष्ठेरन् 'आइहो३ एहिया उ२३४वा हाइ असावि देवगोरुजीता३क्षां
धाउ' इत्येतदादिकं तत्साम 'विश्वे देवा मम शृण्वन्तु' इत्यस्यामृचि
'सुम्नेष्विद्वो अन्तमा मदेमेति' विद्यते तस्य चायमर्थः । हे देवाः वः यु-
ष्माकम् अन्तमाः अन्तिकतमाः सन्तः सुम्नेषु सुखेषु मदेम इति । अत
एवंरूपस्यार्थस्य दर्शनात् एतत् करणकोपस्थाने स्वर्गमेव लोकमाप्त्वा
लब्ध्वा श्रियं सम्पदमभिवदन्ते ॥ ५ ॥
अथैतस्य साम्न आधारभूतामृचं विधाय प्रशंसति—
वैश्वदेव्यामृचि भवति विश्वरूपं वै पशूनाꣳरूपं
पशूनेव तज्जयन्ति ॥ ६ ॥
वैश्वदेव्यामृच्येतत् साम भवतीति विश्वरूपं बहुरूपं हि पशूनां
रूपं तत्तेन वैश्वदेव्याः करणेन पशूनेव जयन्ति ॥ ६ ॥
अथान्यदुपस्थानं विधत्ते—
सत्रस्यर्ध्याग्नीध्रमुपतिष्ठन्त ऋद्धावेव प्रतितिष्ठन्ति ॥७॥
'औहोवा३ अगन्म ज्योतिः' इति सत्रस्य ऋद्धिस्तेन साम्ना आग्नी-
पञ्चमाध्याये चतुर्थः खण्डः । १५१
अथ आग्नीध्रमण्डपस्थमग्निमुपतिष्ठेरन् ‘अगन्म ज्योतिरमृता अभूम’
इत्यादिना ऋक्छेः सूचितत्वात् । ऋद्धौ समृद्धावेव प्रतितिष्ठन्ति ॥ ७ ॥
अस्य च साम्नो निधनं स्वर्ज्योतिरिति तत्र वर्णव्यूहेन चतुरक्षर-
निधनं भवति तदनूद्य प्रशंसति—
चतुरक्षरनिधनं भवति चतुष्पादाः पशवः पशुष्वे-
व प्रतितिष्ठन्ति ॥ ८ ॥
स्पष्टोऽर्थः ॥ ८ ॥
यावत् प्राणस्य विरामो भवति तावन्तं कालमेतन्निधनमावर्त्तये-
युरिति विधत्ते—
आतमितोर्निधनमुपयन्त्यायुरेव सर्व्वमाप्नुवन्ति ॥९॥
आतमितोस्तमुग्लाने इत्यस्मात् ‘भावलक्षणेस्थेण्कृञ्वदिवरिहुत-
मिजनिभ्यस्तोसुन्’ इति तोसुन् प्रत्ययः । आतमनात् प्राणवायोः याव-
त्तमनं ग्लानं श्रमो भवति तावत्पर्य्यन्तं स्वर्ज्योतिः स्वर्ज्योतिरिति अनु-
च्छ्वसन्तः पुनः पुनरावर्त्तयेयुः । एवं प्राणस्यान्तर्निरोधेन सर्वं सम्पूर्ण-
मेवायुः प्राप्नुवन्ति ॥ ९ ॥
तथा हविर्द्धानयोरुपस्थानं विधत्ते—
श्लोकानुश्लोकाभ्याᳪहविर्द्धाने उपतिष्ठन्ते कीर्त्ति-
मेव तज्जयन्ति ॥ १० ॥
‘हाऊ स्वरता ब्रह्मणा, इति गीयमानं साम श्लोकः ‘आनवस्ते रथ-
मश्वायाता १२२४’ इत्यस्यां गीयमानं ‘हाऊ स्वरता स्वरतस्वरा २३ता’
इत्यादिकं साम अनुश्लोकः । तत्र पूर्वेण श्लोकेन साम्ना हविर्द्धानयोः
पुरस्तात्प्रत्यङ्मुखाः स्थित्वा हविर्द्धाने उपतिष्ठेरन्, हविर्द्धानयोः प-
श्चात् स्थित्वा अनुश्लोकेन हविर्द्धाने एवोपतिष्ठेरन् । तदुक्तं सूत्रकारे-
ण ‘पुरस्तात्प्रत्यङ्मुखाः पश्चादितरेणेति, तत्तेन सामद्वयोपस्थानेन
कीर्त्तिमीयुः । एते पुण्यश्लोकाः । एतैः सम्यक् सत्रमनुष्ठितमित्येवं रूपं
यशः प्राप्नुवन्ति ॥ १० ॥
अथ अन्यदुपस्थानं विधत्ते—
यामेन मार्जालीयमुपतिष्ठन्ते पितृलोकमेव तज्ज-
यन्ति ॥ ११ ॥
द्वन्द्वेषु सामसु ‘नाके सुपर्णम्’ इत्यस्यां यत्पठितं यामम् ‘औ होई
इया हाऊ अहो होइवा नाके सुपा’ इत्यादि तेन मार्जालीयन्धिष्ण्यमुप-
तिष्ठेरन् । वेदेर्दक्षिणभागे हि मार्जालीयं पितृलोकश्च दक्षिणत इति त-
त्तेन मार्जालीयोपस्थानेन पितृलोकमेव जयन्ति ॥ ११ ॥
अथ सदस उपस्थानं विधत्ते—
आयुर्णवस्तोभाभ्यांᳪसद उपतिष्ठन्ते ब्रह्म चैव तत्
क्षत्रञ्च जयन्ति ॥ १२ ॥
'हाउ३ आ विश्वतो दावन्विश्वतो न आ भर 'इत्यायुः, विश्वतो दा-
वन्विश्वतोन आ' इति नव स्तोभाः । सदसः पुरस्तात् स्थित्वा पूर्वेण
आयुः साम्नोपतिष्ठन्ते पश्चात् स्थित्वोत्तरेण आयुर्णवस्तोभेन साम्ना ।
उक्तं हि सूत्रकारेण 'यथा हविर्द्धाने तथा' इति । तत्र ज्योतिः शब्देन
समृद्धिवचनेन ब्रह्म च क्षत्रञ्च कीर्त्यत इति तत्तेन सामद्वयोपस्थानेन
ब्रह्म च ब्राह्मणजातिं क्षत्रं क्षत्रियजातिञ्च उभयमपि जयन्ति ॥ १२ ॥
अथ गार्हपत्योपस्थानं विधत्ते—
ऋश्यस्य साम्ना गार्हपत्यमुपतिष्ठन्ते ॥ १३ ॥
'हरीत इन्द्र श्मश्रूणि' 'इति गीयमानं ऋश्यस्य साम, तेन गार्हपत्यं
शालामुखीयमुपतिष्ठेरन् ॥ १३ ॥
अथैतत्साम स्तौति—
इन्द्रँᳪसर्वाणि भूतान्यस्तुवँस्तस्यर्श्य एकमङ्गम-
स्तुतमचायतदस्यैतेनास्तौत्तेनास्य प्रियं धामोपागच्छ-
त्प्रियमेवास्यैतेन धामोपगच्छन्ति ॥ १४ ॥
पुरा इन्द्रं फलकामनया सर्वाणि भूतान्यस्तुवन् तस्यैकमङ्गं गुह्य-
रूपमस्तुतं न केनापि स्तुतमासीत् ऋश्यैस्तदङ्गमचायत अजानत् ज्ञा-
त्वा च स तस्येन्द्रस्य तदङ्गमेतेन साम्नाऽस्तौत् तेनास्य प्रियं धामो-
पागच्छत् अत एतेनोपतिष्ठमाना अपि अस्येन्द्रस्य प्रियमेव धाम स्था-
नमुपगच्छन्ति, अस्मिन् साम्नि 'भुङिति प्रभुङितीन्द्रस्तसरेति' स्तोभ-
बलेन भोगसाधनं गुह्यमङ्गं प्रतीयते । 'इन्द्रस्तसरपूता' इत्यत्र च तसरश-
ब्देन तदेवोच्यते । तत्र शाट्यायनकम् 'ऋश्यास इन्द्र भुङिति मघवन्निन्द्र
भुङिति प्रभुङितीन्द्रस्तसरपूता २३४५ इति पुनः पुनस्तसरस्थिर-
गित्येतत्' इत्यादिकमनुसंधेयम् । अतो गुह्यस्य स्तुतिरधिगन्तव्या ॥१४॥
अस्य च निधनं प्रत्यक्षमुपेतव्यं न परोक्षेणेति विधत्ते—
यत् परोक्षं निधनमुपेयुर्ह्रीतमुखं प्रतिमुञ्चेरन् प्रत्य-
क्षमुपयन्ति ह्रीतमुखमेवापजयन्ति ॥ १५ ॥
पञ्चमाध्याये पञ्चमः खण्डः । १८३
यत् यदि अस्य साम्नो निधनम् 'इन्द्रस्तसरपूता' इत्येतत् परोक्षमु-
पेयुरुपगच्छेयुः ह्रीतमुखं लज्जाविष्टमुखविकारं पुत्रं प्रतिमुञ्चेरन् स्वात्मनि
संयोजयेरन् । यत् यदि प्रत्यक्षमुपयान्ति तदोद्गीतमुखमेवमपरो निर्देशः
ह्रीतमुखत्वं पुत्रादिगतमपजयन्ति तिरस्कुर्वन्ति । किमिदन्निधनस्य प-
रोक्षं किंवा प्रत्यक्षमिति चेत्?तदुभयं विविच्य प्रदर्शितं निदाने 'ऋश्यं
प्रत्यक्षज्ञापितं परोक्षमपि वेन्द्रेति प्रत्यक्षं इन्द्र इति परोक्षम्'इत्यादिना
'ऋश्यास इन्द्र धुङ्' इतीन्द्रपदमित्युपरि सर्वाणीन्द्रवाचकानि पदानि
सम्बुद्ध्यन्तानि प्रयोज्यानि तेनेन्द्रस्तसरपूता इति प्रथमान्तमपोह्य इ-
न्द्रस्तसरपूतेति संयोज्य यथा 'ऋश्यास इन्द्र मघवन्निन्द्रेति' त्रीणि स-
म्बुद्ध्यन्तानि एवं हीन्द्रः सम्बोध्यत्वात् प्रत्यक्षकृतो भवति अतस्तद्वा-
चकं निधनमपि प्रत्यक्षं भवति । प्रथमान्तत्वे तु परोक्षकृतत्वेन निधन-
स्य परोक्षता स्यात् । सूत्रकृताऽपि इन्द्रप्रभृति प्रत्यक्षं निधनमुपेयु-
रिति ॥ १५ ॥
इति ताण्ड्यमहाब्राह्मणे पञ्चमाध्यायस्य चतुर्थः खण्डः ।
अथ पञ्चमः खण्डः ।
एवं महाव्रतस्तोत्रस्याङ्गभूता लोमनखस्थानीयास्त्रयोदश परिमा-
दो गताः । एतेषाञ्च लोमनखस्थानीयत्वं तैत्तिरीये समाम्नातं 'यदित
इतो लोमानि इतो नखात्परिमादः क्रियन्ते तान्येव तेन प्रत्युप्यन्त इ-
ति, अथ महाव्रतंस्तोत्रं पञ्चविधम् अत्राध्वर्युः शिरसोद्गायेन्मैत्रावरुणो-
दक्षिणेन पक्षेण ब्राह्मणाच्छंस्युत्तरेण गृहपतिः पुच्छेनोद्गातात्मनेत्येवं क-
र्तृविशेषसम्बन्धं वक्ष्यति । तत्रोद्गातुरुद्गानकाले कश्चिद्विशेषं विधत्ते—
आसन्दीमारुह्योद्गायति देवसाक्ष्य एव तदुपारिषद्यं
जयति ॥ १ ॥
उद्गाता आसन्दीमारुह्य आत्मना राजनेन साम्ना उद्गायति तत्तेन
भूमिं परित्यज्य आसन्द्या उपर्यारोहणेन देवसाक्ष्ये देवानां दर्शन एव
उपारिषद्यम् उपरि सदनम् उच्छ्रिते स्वर्गादावस्थानं जयति लभते ॥१॥
आसन्द्या औदुम्बरीत्वं विधाय प्रशंसति—
औदुम्बरी भवत्यूर्गुदुम्बर ऊर्जमेवावरुन्धे ॥ २ ॥
उदुम्बरविकारैः औदुम्बरैः काष्ठैर्निर्मिता भवति । योऽयमुदुम्बरः
स ऊर्ग् वै बलकरमन्नमेव ऊर्ग्विभागसमये तस्योत्पत्तेः । तथा च तैत्ति-
रीयकं 'देवा वा ऊर्जं व्यभजत तत उदुम्बर उदतिष्ठदिति । अत औदुम्ब-
१६४ ताण्ड्यमहाब्राह्मणे
र्यासन्द्युपवेशनेन ऊर्जमेव साक्षात्प्राप्नोति । यदुक्तं सूत्रकारेण 'प्रादेश-
शमात्राः पादा अरत्निमात्राणीतराण्यङ्गानी'ति ॥ २ ॥
तदेतद्विधाय प्रशंसति—
प्रादेशमात्री भवत्यस्य लोकस्यानुद्घाताय ॥ ३ ॥
प्रादेशमात्रपादत्वात् प्रादेशमात्री आसन्दी । एवं पादानां ह्रस्वीय-
स्त्वम् अस्य लोकस्य अस्मात् लोकादनुद्घाताय भवति ॥ ३ ॥
अथ तस्यारोहणं विधाय प्रशंसति—
छन्दोभिरारोहति स्वर्गमेव तल्लोकमारोहति ॥ ४ ॥
'गायत्रेण त्वा च्छन्दसारोहामि' त्रैष्टुभेन त्वा च्छन्दसारोहामि, जा-
गतेन त्वा च्छन्दसारोहामि, आनुष्टुभेन त्वा च्छन्दसारोहामि, बैरा-
जेन त्वा च्छन्दसारोहामि' इति वैराजपञ्चमैः गायत्र्यादिभिश्च्छन्दोभिरा-
सन्दीमारोहति । छन्दोविकल्पश्च सूत्रकारेणोक्तः 'चतुर्भिरिति धानञ्ज-
प्यस्त्रिभिः शाण्डिल्य' इति । तत्तेन रोहणेन स्वर्गे लोकमारोहति ॥ ४ ॥
उपावरोहणकाले एतैरेव प्रतिलोमैश्छन्दोभिरुपावरोहणं विधत्ते—
छन्दोभिरुपावरोहत्यस्मिँल्लोके प्रतितिष्ठति ॥ ५ ॥
एतेषामेव छन्दसां प्रतिलोम आरोहण इति गायत्रस्य प्रथमत्वेन
भूर्लोकात्मकत्वात् अस्मिन् लोके पुनः प्रतितिष्ठतीति । तदुक्तं सूत्रकृता
'आहूयमाने भक्षे प्रतिलोमैः आरोहणीयैः अवरुह्य जपेन्मही द्यौः पृथि-
वी चनेति सर्व्वे सह स्तुवीरन्नि'ति । यद्यध्वर्युप्रभृतयः शिरःप्रभृतिभि-
रुद्गानं कुर्युः । तेषामेकैकया स्तोत्रीयान्यया अस्तुतया उद्गाता अभि-
समेयुरिति वक्ष्यति ॥ ५ ॥
उद्गातुस्तासामुद्गानं विधत्ते—
सर्व्वेणात्मना समुद्धृत्योद्गेयमेषु लोकेषु नेद्व्याहितोऽ-
सानीति ॥ ६ ॥
अध्वर्युप्रभृतिभिः परिशोषिताः स्तोत्रीयाः समुद्धृत्य संगृह्य सर्व्वे-
ण स्तोत्रीयेण आत्मना आत्मभूतेन राजनेन उद्गेयमुद्गानं कार्य्यम् एषु
लोकेषु स्थानेषु शिरःप्रभृतिषु नेत् नैव व्याहितोऽन्तरितोऽसानि भवा-
नीति बुध्वा अतः प्रभृतिषु सर्वेषूद्गातृषु स्तुतं भवतीत्यर्थः ॥ ६ ॥
अथोद्गातुरासन्द्याः सकाशात्पादयोरवरोहणं विधत्ते—
एकस्यां स्तोत्रीयायामस्तुतायां पादावुपाहरति ॥ ७ ॥
पञ्चविंशस्तोमस्य राजनस्य एकस्यां स्तोत्रीयायाम् अन्त्यायामस्तु-
पञ्चमाध्याये पञ्चमः खण्डः । १५६
तायां प्रस्तूयमानायामुद्गाता पादावुपाहरति भूमेरासन्नं स्थापयति ॥७॥
अथ त्रयाणामप्युद्गातॄणां पादयोर्भूमौ स्थापनकालं विधत्ते--
सह निधनेन प्रतिष्ठामुपयन्त्येष्वेव लोकेषु प्रति-
तिष्ठन्ति ॥ ८ ॥
उत्तमे निधने राजनस्य 'व्वाजीडासु वृहद्वा३४५' इत्यन्तेन सह प्रति-
ष्ठामुपयन्ति भूमौ पादौ प्रतिष्ठापयन्ति । एवं भूमौ स्थापनेन एष्वेव
लोकेषु प्रतिष्ठिता भवन्ति । अत्र बहुवचनेन प्रस्तोतृप्रतिहर्त्रोस्तस्मात्
प्रष्टिरूपादासनात् भूमौ पादप्रतिष्ठापनं कर्त्तव्यमित्यवगम्यते ॥ ८ ॥
अथ प्रसङ्गात् होतुरप्यासनविशेषं विधाय प्रशंसति--
प्रेङ्खामारुह्य होता शꣳसति महस एव तद्रूपं क्रियते ॥९॥
होता प्रेङ्खां दोलामारुह्य तत्रैवासीनो निष्केवल्यं वृहतीसहस्रात्मकं
शस्त्रं शंसति तत्तेन महसस्तेजस एवैश्वर्यरूपमेतत्क्रियते ॥ ९ ॥
कथं प्रेङ्खारोहणेन महसो रूपं कृतं भवति तत्राह—
यदा वै प्रजा मह आविशति प्रेङ्खास्तर्ह्यारोहन्ति ॥ १० ॥
यदा खलु प्रजाः जनान् महस्तेज ऐश्वर्यमाविशति तर्हि तस्मिन्
काले प्रेङ्खा आरोहन्ति ॥ १० ॥
तथाध्वर्योरासनं विधत्ते—
फलकमारुह्याध्वर्युः प्रतिगृणाति ॥ ११ ॥
औदुम्बरफलकमारुह्याध्वर्युः निष्केवल्यं शस्त्रं प्रतिगृणाति ॥११॥
अन्येषामपि ऋत्विजामासनानि विधत्ते—
कूर्च्चानितरेऽध्यासत ऊर्द्धा एव तदुत्क्रामन्तो यन्ति॥१२॥
उक्तेभ्यो येऽन्ये मैत्रावरुणादयस्ते कूर्च्चान् बृसीरध्यासते, तथा
ह्यैतरेयकं 'बृसीर्होत्रकाः समाधिरोहन्ति सत्रह्मका' इति । एवं सर्वेषामृ-
त्विजामूर्द्धोपवेशनात् ऊर्द्धा एव ऊर्द्धाभिमुखा एव सन्त उत्क्रामन्त ऐ-
हिकभोगावसाने स्वर्गं प्रत्युत्क्रामन्तो यन्ति इदानीमुच्चिक्रमिषयैव ते-
ष्वासनेषूपविशन्तीत्यर्थः ॥ १२ ॥
ब्राह्मणश्च शूद्रश्च सत्रिणां प्रशंसनं निन्दनञ्च क्रमेण कुर्य्यातां तदे-
तद्विधत्ते—
अभिगरापगरौ भवतो निन्दत्येनानन्यः प्रान्यः
शꣳसति य एनान्निन्दति पाप्मानमेषाꣳ सोऽपहन्ति यः
[Page Header]
१६६ ताण्ड्यमहाब्राह्मणे
प्रशꣳसति यदेवैषां सुष्टुतꣳसुशस्तं तत् सोऽभि-
गृणाति ॥ १३ ॥
अभिगरः स्तोता, अपगृणाति अपवदतीति अपगरो निन्दिता, ता-
वुभौ आनीतौ भवतः । तयोरन्यः शूद्रः एनान् सत्रिणो निन्दति एतैः
सम्यङ्नानुष्ठितमित्यपवदति । तथा अन्यो ब्राह्मणः एनान् प्रशंसति एषां
सत्रिणां सम्बन्धि सुष्टुतं शोभनं स्तवनं सुशस्तं सुशसनं च यदस्ति
तदेवासावभिगृणाति ॥ १३ ॥
अथ चर्मनिमित्तं ब्राह्मणशूद्रयोर्विवादं विधत्ते—
शूद्रार्यौ चर्मणि व्यायच्छेते तयोरार्यं वर्णमु-
ज्जापयन्ति ॥ १४ ॥
शूद्रश्चार्यश्चोभौ चर्मणि परिमण्डले आदित्यप्रतिरूपे निमित्ते व्या-
यच्छेते व्यायमनं विविधमाकर्षणम्मदीयम्मदीयमिति तत् कुरुतस्त-
योर्मध्ये आर्य्यं वर्णं ब्राह्मणजातिमुज्जापयन्ति यथा ब्राह्मणो जयेत् त-
था कुर्युरित्यर्थः ॥ १४ ॥
तदेतत् स्तौति—
देवाश्च वा असुराश्चादित्ये व्यायच्छन्तस्तन्देवा
अभ्यजयꣳस्ततो देवा अभवन् । परासुरा अभवन्नात्मना
परास्य भ्रातृव्यो भवति य एवं वेद ॥ १५ ॥
पुरा वै देवाश्चासुराश्चासावादित्योऽस्माकमेवेति तस्मिन् आदित्ये
विषये व्यायच्छन्तः विवादं कृतवन्तः। तमादित्यं देवा अभ्यजयन्। असु-
राः पराभवन् जयं न प्राप्तुवन् । स्पष्टमन्यत् ॥ १५ ॥
ब्राह्मणस्य जयो यथा स्यात् तथा कर्त्तव्यमित्युक्तं, तदेव प्रशंसति—
यदार्य्यं वर्णमुज्जापयन्त्यात्मानमेव तदुज्जापयन्ति ॥१६॥
आर्य्यं ब्राह्मणं वर्णमुज्जापयन्तीति उत्कर्षेणामुं प्रापयन्तीति यत्
तत्तेन सत्रिण आत्मानमेव उज्जापयन्ति । जयतेर्णिच् ‘क्रीङ्जीनां णावि’-
त्यात्वे 'अर्त्ति ह्री व्ली'त्यादिना पुगागमः ॥ १६ ॥
व्यायमनहेतुभूतस्य चर्मणः किञ्चिद्गुणं विधाय प्रशंसति—
परिमण्डलञ्चर्म भवत्यादित्यस्यैव तद्रूपं क्रियते ॥ १७ ॥
तच्चर्म परितः कृतमण्डलाकारं भवति । तत्तेन आदित्यस्यैव रूप-
मस्मिन् चर्मणि क्रियते । आदित्ये हि पुरा देवानां व्यायमनं कृतमि-
त्युक्तम् अत एवैतच्चर्म आदित्यप्रतिरूपकं भवति ॥ १७ ॥
अथास्मिन् स्तोत्रे गीयमाने दुन्दुभीनां वादनं विधत्ते—
सर्व्वा॑सु स्रक्ति॑षु दुन्दु॒भयो॑ व्वद॒न्ति या व्वन॒स्पति॑षु
व्वाक्तामेव तज्जय॑न्ति ॥ १८ ॥
सर्वासु स्रक्तिषु वेद्याः कोणेषु दुन्दुभयो वदन्ति शब्दं कुर्युस्तदेवं
यथा वदन्ति तथा तान्वादयेदित्यर्थः । वाद्यपूर्वं देवेभ्यो निष्क्रम्य वन-
स्पतिषु या वाक् प्रविष्टा तामेव वाचं तत्तेन दुन्दुभिशब्देन जयन्ति
प्राप्नुवन्ति ॥ १८ ॥
अथ भूमिदुन्दुभिवादनं विधत्ते—
भूमि॑दुन्दुभिर्भवति या पृ॑थि॒व्यां व्वाक्तामेव तज्ज-
य॑न्ति ॥ १९ ॥
आग्नीध्रीयस्य पश्चादर्द्धमन्तर्वेद्यर्द्धं बहिर्वेदि भूमावटं खात्वा सव-
नीयस्य ऋषभचर्मेणापिदधाति स भूमिदुन्दुभिर्भवति तां “वादयन्ती”-
ति शेषः, स्पष्टमन्यत् ॥ १९ ॥
अन्यासामपि वाचां प्रयोगं विधत्ते—
सर्व्वा॒ व्वाचो॑ व्वदन्ति येषु॑ लो॒केषु॒ व्वाक्तामेव
तज्जय॑न्ति ॥ २० ॥
सर्वाः संस्कृताश्चासंस्कृताश्च ग्राम्यवाचश्च वदन्ति प्रेक्षकाः सर्वे
जना इत्यर्थः, गतमन्यत् ॥ २० ॥
अथ राजपुरुषाणां देवयजनस्य परितो गमनं विधत्ते—
सन्नद्धाः॑ कव॒चिनः॑ परिय॒न्तीन्द्रि॒यस्यै॒व तद्रू॒पं क्रिय॒-
तेऽथो॑ महाव्रतमेव महयन्ति ॥ २१ ॥
सन्नद्धाः सन्नद्धहस्तत्राणादिकाः कवचिनः कवचयुक्ताश्च राजपु-
रुषाः रथमारुह्य गृहीतचापशराः सन्तः परियन्ति देवयजनं परितो
गच्छेयुः। इन्द्रियस्यैव बलस्यैव तद्रूपं क्रियते यदेतत् कवचिनां परिगमनं
अथो अपि च महाव्रतमेव महाव्रताख्यमेवाहर्महयन्ति ॥ २१ ॥
इति ताण्ड्यमहाब्राह्मणे पञ्चमाध्यायस्य पञ्चमः खण्डः ।
अथ षष्ठः खण्डः ।
एवं पञ्चविधमहाव्रतस्तोत्रस्य शिरःप्रभृतिगान् पञ्चावयवानध्व-
र्यादयः पञ्च सहोपक्रम्य युगपदुद्गायेयुरित्येकः पक्षः, उद्गातैव कृत्स्न-
स्तोत्रमुद्गायेदित्यपरः, तत्र प्रथमं पक्षं विदधाति ।
१४ ता०
१५८ ताण्ड्यमहाब्राह्मणे
सर्व्वे सहर्त्विजो महाव्रतेन स्तुवीरन् ॥ १ ॥
महाव्रतेन शिरआदिभिः पञ्चविधेन स्तोत्रेण ऋत्विजः सर्वे युगपत्
स्तुवीरन् ॥ १ ॥
कतमः कतमेनावयवेन स्तुवीत इत्यत आह—
अध्वर्य्युः शिरसोद्गायेन्मैत्रावरुणो दक्षिणेन पक्षेण
ब्राह्मणाच्छꣳस्युत्तरेण गृहपतिः पुच्छेनोद्गातात्मना ॥२॥
शिरसा शिरस्त्वेन परिकल्पितेन त्रिवृता स्तोमेन गायत्रेण साम्ना
अध्वर्य्युः शिरसोद्गायेत्, तथा मैत्रावरुणो दक्षिणेन पक्षेण, तथा तेन
परिकल्पितेन रथन्तरसाम्ना पञ्चदशस्तोमेनोद्गातोद्गायेत्, तथा ब्राह्मणा-
च्छंस्युत्तरेण पक्षेण तदात्मना परिकल्पितेन सप्तदशस्तोमेन बृहत्साम्ना
स्तुवीत। गृहपतिर्यजमानः भद्रं यज्ञायज्ञीयं च विकल्पितेन परिकल्पिते-
नान्यतरेण एकविंशस्तोमकेनोद्गायेत्। स्वयमुद्गाता आत्मनो मध्ये आ-
त्मा तद्रूपतया परिकल्पितेन राजनसाम्नोद्गायेत्, अत्राध्वर्य्युः शिर-
सोद्गायेदित्यादिना अध्वर्य्युप्रभृतीनामुद्गातृकार्ये विधानात्प्रस्तोतृप्रति-
हर्त्तारावपि तस्य तस्य कल्पनीयौ। तत्राध्वर्य्योरग्रे द्वितीयः प्रस्तोता
तृतीयः प्रतिहर्त्ता कार्य्यः पक्षयोस्तु द्वितीययोरुद्गातृत्वात् तदनन्तर-
भाविनौ तृतीयचतुर्थावेव प्रस्तोतृप्रतिहर्त्तारौ कार्य्यौ पुच्छे तु अविनि-
युक्तौ सुब्रह्मण्योन्नेतारौ प्रस्तोतृप्रतिहर्त्तारौ कर्त्तव्यौ नह्यत्र गत्यन्तरम-
स्तीत्येकः पक्षः। अध्वर्य्युप्रभृतीनामेवोद्गातृत्वविधानान्नेतरयोर्बाध इति
उद्गातृवर्गौ यौ प्रस्तोतृप्रतिहर्त्तारौ तावेव सर्वत्र क्रमेण प्रस्तोतृप्रति-
हर्त्तारौ कुर्य्यातामित्यपरः पक्षः। इममेव पक्षं सूत्रकारः 'सर्व्वे सहर्त्विजो
महाव्रतेन स्तुवीरन्नित्युद्गातृविकार एव स्या'दित्यादिना दर्शितवान्॥२॥
यद्यध्वर्य्युप्रभृतयः सर्वे महाव्रतेन स्तुवीरन्-तत्र किञ्चिद्विशेषमाह—
तद्यद्येवं कुर्यु्युरेकैकया स्तोत्रीययाऽस्तुतयोद्गातारम-
भिसमेय्युः ॥ ३ ॥
तत्तत्र महाव्रते यद्येवं कुर्यु्युः। तदा स्वीयेषु स्तोत्रेषु शिरःप्रभृतिषु
अस्तुतया एकैकया स्तोत्रीयया उद्गातारमभिसमेयुरभिगच्छेयुः। इय-
मस्तुतेत्युद्गात्रे निवेदयेयुरित्यर्थः ॥ ३ ॥
अथैतर्हि निवेदितानां स्तोत्रीयाणां क्रमेणोद्गात्रा विनियोगप्रकारमाह—
तिसृभिरुद्गाताऽत्मन उद्गीयाथ या शिरसः स्तोत्रीया
तां दध्यादपराभिस्तिसृभिरुद्गीयाथ या दक्षिणस्य पक्षस्य
पञ्चमाध्याये षष्ठः खण्डः । १६९
स्तोत्रीया तान्दध्यादपराभिस्तिसृभिरुद्गीयाथ योत्तरस्य
पक्षस्य स्तोत्रीया तान्दध्यात्तिसृभिर्वैकया वा स्तुतं꣡-
स्यादथ या पुच्छस्य स्तोत्रिया तान्दध्यात् ॥ ४ ॥
आत्मनः राजनस्यादितस्तिसृभिः स्तोत्रियाभिरुद्गीय उद्गानं कृत्वा
अथानन्तरं या शिरसः स्तोत्रीया अध्वर्युणावशेषिता तामुद्गाता दध्यात्
प्रथमपर्यायस्य प्रथमविष्टार्वानन्तरं तया स्तुवीतेत्यर्थः । एवमुत्तरत्रापि
योज्यम् । यदा राजनस्य साम्नः पञ्चविंशस्तोमस्य अन्त्याभिस्तिसृभिः
स्तोत्रीयाभिरेकया वा अस्तुतं स्यात् स्तुतिः कृता न भवेत् अथास्मिन्
स्थाने गृहपतिनोच्छेषितां पुच्छस्य स्तोत्रियाम्प्रत्येत्तत् । नत्वेकैकस्या
उच्छेषणम् ॥ ४ ॥
आत्मनि प्रतिधानञ्च किमर्थमित्यत आह—
आत्मन्येव तदङ्गानि प्रतिदधति स्वर्गस्य लोकस्य
समष्ट्यै ॥ ५ ॥
तत्तेन उक्तक्रमेण स्तोत्रीयाणां प्रक्षेपेण आत्मनि मध्यकाय एव
शिरःप्रभृतीन्यङ्गानि प्रतिदधति संयोजयति । सम्पूर्णाङ्गो हि गन्तुं श-
क्नोति प्रतिधानं स्वर्गस्य लोकस्य समष्ट्यै सम्प्राप्त्यै भवति ॥ ५ ॥
अथ सर्वे महाव्रतेन स्तुवीरन्नित्युक्तं पक्षं निरस्य उद्गातैव शिरःप्र-
कृतिकेन सर्वेण स्तोत्रेण स्तुवीतेत्यमुं पक्षं दर्शयति—
अथो खल्वाहुः कथमध्वर्युर्बह्वृचः साम गायेदित्यु-
द्गातैव सर्व्वेणोद्गायेत्तदेव समृद्धं꣡ समृद्धावेव प्रतिति-
ष्ठन्ति ॥ ६ ॥
अध्वर्युर्य्यजुर्वेदाध्यायी मैत्रावरुणोऽपि, बह्वृचः ऋग्वेदाध्यायी, अनि-
त्यं हि तयोः सामाध्ययनं ततः कथं साम गायेतामिति ब्रह्मवादिन आ-
हुः । अथो खल्विति पक्षान्तरपरिग्रहे एवमुक्त्वा तदनन्तरमेव निश्चित-
वन्तः उद्गातैव सर्वेण कृत्स्नेन शिरःप्रभूतिकेन महाव्रतस्तोत्रेणोद्गा-
येत् तदेव समृद्धं, स्वशाखात्वेन सम्यगधीतत्वात् स्वरादिविकल्पा-
भावेन सम्यक् प्रयुक्तत्वात् तदेव स्तोत्रं समृद्धं सम्पूर्णं भवति । तथा
च सत्रणोऽपि समृद्ध्यावेव प्रतिष्ठिता भवन्ति ॥ ६ ॥
अथास्मिन् पक्षे स्तुतिप्रकारमाह—
हविर्द्धाने शिरसा स्तुत्वा स꣡꣢रब्धाः प्रत्यञ्च एयुस्ते
दक्षिणेन धिष्ण्यान् परीत्य पश्चान्मैत्रावरुणस्य धिष्ण्य-
स्योपविश्य रथन्तरेण पञ्चदशेन स्तुवीरँस्त उदञ्चः
सँसर्पेयुर्जघनेन होतुर्धिष्ण्यं पश्चाद्ब्राह्मणाच्छंसिनो
धिष्ण्यस्योपविश्य बृहता सप्तदशेन स्तुवीरँस्ते । येनैव
प्रसर्पेयुस्तेन पुनर्निःसृप्योत्तरेणाग्नीध्रं परीत्य पश्चाद्गार्हप-
त्यस्योपविश्य पुच्छेनैकविँशेन स्तुवीरँस्ते येनैव
निःसर्पेयुस्तेन पुनः प्रसृप्य यथायतनमुपविश्यासन्दीमा-
रुह्योद्गातात्मनोद्गायेति ॥ ७ ॥
हविर्द्धाने हविर्द्धानमण्डपे उद्गातारः शिरसा स्तुत्वा संरब्धाः
समन्वारब्धाः प्रत्यञ्चः प्रत्यङ्मुखाः सन्त एयुः हविर्द्धानादुच्छेयुः अप-
रया द्वारा हविर्द्धानान्निष्क्रम्य मार्ज्जालीयादीनां धिष्ण्यानां दक्षिणतः
परीत्य पूर्वया द्वारा सदः प्रविश्य मैत्रावरुणधिष्ण्यस्य पश्चादुपविश्य
रथन्तरेण पञ्चदशेन स्तुवीरन्। ततस्त उद्गातारः उदञ्चः उदङ्मुखाः प्र-
सर्पेयुः होतुर्धिष्ण्यमपरेण ब्राह्मणाच्छंसिधिष्ण्यस्य पश्चादुपविश्य बृहता
सप्तदशेन स्तुवीरन् ते पुनर्येनैव पथा प्रसर्पेयुः तेनैव पुनर्निःसृप्य निर्ग-
त्य दक्षिणेन धिष्ण्यान् परीत्य पूर्वया द्वारा सदो निर्गत्य अपरया द्वारा
हविर्द्धाने प्रपद्य पूर्वया द्वारा हविर्द्धानान्निष्क्रम्येत्यर्थः । तत उत्तरेणा-
ग्नीध्रमाग्नीध्रीयं धिष्ण्यं परीत्य गार्हपत्यस्य पश्चादुपविश्य एकविं-
शस्तोमेन पुच्छेन स्तुवीरन् त उद्गातारो येनैव पथा निःसर्पेयुः सदसो
निष्क्रान्ताः तेनैव पुनः सदः प्रसृप्य प्रपद्य यथायतनमुपविशेयुः । तत
उद्गाता आसन्दीमारुह्य आत्मनोद्गानं कुर्य्यात् । अत्रोपविश्येति पूर्व-
कालतामात्रे क्त्वाप्रत्ययो द्रष्टव्यः ॥ ७ ॥
अत्रोद्गाने पत्नीनां वीणाविशेषैरुपगानं विधत्ते—
तं पत्न्योऽपघाटिलाभिरुपगायन्त्यार्त्तिविज्यमेव तत्प-
त्न्यः कुर्वन्ति सह स्वर्गँल्लोकमयामेति ॥ ८ ॥
तमुद्गातारमपघाटिलाभिर्वीणाविशेषैरुपगायन्ति उपगानं कुर्युः
तदुपगानमार्त्विज्यमेव पत्न्यः कुर्वन्ति यजमानैः सह स्वर्गं लोकं प्रा-
प्नुयामेति बुद्ध्या । अपघाटिलाशब्दस्यार्थं सूत्रकारो विस्पष्टमेवोक्तवान्
‘पश्चिमेनोपगातॄन्द्वेद्द्वे एकैका पत्नी काण्डवीणां पिच्छोलां व्यत्यासं वाद-
येदुपमुखं पिच्छोलावादनेन काण्डमयी अपघाटिला इत्याचक्षत’ इति,
उपमुखं स्थापयित्वा मुखमारुतेन वाद्यमाना वीणाऽपघाटिला इत्याच-
क्षतइति। पिच्छोला वादनदण्डेन वाद्यमाना काण्डमयी काण्डवीणा इत-
रयोरेव अपघाटिलासंज्ञेत्यर्थः ॥ ८ ॥
अस्मिन्नहनि सर्वेषामपि यजमानानां गृहेषु ब्राह्मणभोजनार्थं पाकः
कर्त्तव्य इति विधत्ते—
कुले कुलेऽन्नं क्रियते तद्यत्पृच्छेयुः किमिदं कुर्व्वन्ती-
तीमे यजमाना अन्नमत्स्यन्तीति ब्रूयुः ॥ ९ ॥
अन्येष्वहःसु गृहपतिप्रधाना एव सर्वे ब्राह्मणान् भोजयितुमन्नानि
कामयन्ते। अस्मिन् अहनि कुले कुले यजमानानां गृहे गृहे अन्नं क्रियते
पृथक् पृथक् ब्राह्मणान् भोजयितुमन्नं कर्त्तव्यम्। तत्तत्र एवं क्रियमाणे य-
द्यदि पृच्छेयुः प्रेक्षका जनाः किमिदं कुले कुले कुर्वन्तीति तदैवं प्रति-
ब्रूयुः इमे यजमाना अन्नमत्स्यन्तीति अस्मिन् लोके बहुलमन्नं प्रदाय
अमुष्मिन् लोके बहुलमेते भोक्ष्यन्त इति ॥ ९ ॥
अथैतत्प्रशंसति—
यो वै दीक्षितानां पापं कीर्त्तयति तृतीयमेवाऽध्शं
पाप्मनोहरत्यन्नादस्तृतीयं पिपीलिकास्तृतीयम् ॥ १० ॥
यः खलु दीक्षितानां दीक्षणीयेषु संस्कृतानां पापमशुभं कीर्त्तयति
स पुरुषः एषां पापस्य तृतीयमंशं हरति। यो दीक्षितानामन्नमत्ति सोऽ-
न्नादस्तृतीयमंशं हरति। आज्येष्वन्नेषु च बहुषु सत्सु बह्व्यः पिपीलिका-
स्तद्भक्षणार्थमागच्छन्ति तास्तृतीयमंशं पापं हरन्ति। अत आज्यादिषु
पिपीलिकापतने दोषाशंका न कार्येत्यर्थः ॥ १० ॥
परिमादः पूर्वमुक्ताः ता अन्नस्य प्रशंसति—
परिमद्भिश्चरन्ति त्वक्च वा एतल्लोम च महाव्रतस्य
यत् परिमादस्त्वचञ्चैव तल्लोम च महाव्रतस्याप्त्वाव-
रुन्धते ॥ ११ ॥
याः पूर्वमुक्ताः परिमादस्ता महाव्रतस्य त्वक्लोमस्थानीयास्ततस्ता
आप्त्वा प्राप्य अवरुन्धते स्वयमपि त्वचं लोम च लभन्त इत्यर्थः। 'यद्दे-
तान् ह वै पुरुषो देवेभ्यः करोति तादृगस्मै देवाः कुर्वन्ती'ति श्रुतेः॥११॥
अथ वीणाविशेषस्य वादनं विधत्ते—
वाणं वितन्वन्त्यन्तो वै क्वाणोऽन्तो महाव्रतमन्ते-
नैव तदन्तमभिवादयन्ति ॥ १२ ॥
वाणं महावीणा तम् वितन्वन्ति तंत्रीभिः संयोज्य वादयन्तीत्यर्थः।
१६२ ताण्ड्यमहाब्राह्मणे
वाणो वीणानामन्तः परमः श्रेष्ठ इत्यर्थः । वाणः खलु सर्वेषां वाद्याविशे-
षाणां अन्तोऽवसानभूतः महाव्रतमहामन्तः तत्तेनान्तेनैवान्तमभिलक्ष्य
वादयन्ति ॥ १२ ॥
तस्य वाणस्य तन्त्रीसंख्यां विधाय प्रशंसति-
शततन्त्रीको भवति शतायुर्वै पुरुषः शतवीर्य्यः ॥ १३॥
"सर्वमायुर्य्यन्ती"ति शेषोऽर्थो निगदसिद्धः ॥ १३ ॥
वाणस्योल्लेखनं विधाय प्रशंसति-
तमुल्लिखेत्'प्राणाय त्वाऽपानाय त्वा व्यानाय त्वेति
प्राणापानव्यानानेव तदाप्त्वाऽवरुन्धते' ॥ १४ ॥
प्राणाय त्वेत्यादिना मन्त्रेण औदुम्बर्य्याः शाखया वाणमुपलिखति
हे वाण ! त्वां प्राणायर्थमुल्लिखामीति मन्त्रार्थः । तत्तेन प्राणादीनि चाप्त्वा
प्राप्य निरुन्धते इति ॥ १४ ॥
पञ्चमाध्याये सप्तमः खण्डः । १६३
देवाः खलु पुरा वाचं छन्दोरूपां व्यभजन्त गायत्रीं प्रातःसवने
अग्नये वसुभ्यो व्यभजन्त । त्रिष्टुभं माध्यन्दिने सवने इन्द्राय रुद्रेभ्यो
व्यभजन्त । जागतं तृतीयसवने विश्वेभ्यो देवेभ्यो आदित्येभ्यो व्यभजन्त ।
एवं विभज्यमानायास्तस्या वाचः यो रसः सारोऽत्यरिच्यत तद्गौरी-
वितन्नाम सामाभवत् । तच्च अनुष्टुभमनुलक्ष्य परिप्लवते सञ्चरति । कुत-
एतत् ? यदिदमनुष्टुप्छन्दः सा वाक् गौरीवितं च वाचो रसः अतो
अनुष्टुप्च्छन्दस्कामेवर्चं आधारतया गृह्णाति ॥ १ ॥
एवं विशिष्टच्छन्दस्येतत्साम विधाय प्रशंसति—
यद्गौरीवितेनान्वहं स्तुवते वाच्येव तद्वाचा रस-
न्दधति ॥ २ ॥
'अभि प्र गोपतिं गिर' इत्यस्यां योनावुत्पन्नं साम गौरीवितं तच्चानु-
[
१६४ ताण्ड्यमहाब्राह्मणे
यद्गौरीवितं साम एतत् खलु यज्ञस्य यज्ञसम्बन्धि श्वस्तनं श्वः पर-
स्मिन् दिने भवं पूर्वापरयोरह्नोः सन्धायकमित्यर्थः । यद्यदि तद्गौरीवित-
मनुत्सृजेयुः परित्यजेयुः तदा सत्रिणोऽश्वस्तनाः उत्तरकाले सम्बन्ध-
हिताश्च अप्रजसः प्रजारहिताः स्युर्भवेयुः । अतोऽन्वहं कर्त्तव्यमित्यर्थः ५॥
प्रकारान्तरेण प्रशंसति—
सं वा अन्यो यज्ञस्तिष्ठत इत्याहुर्वागेव न सन्ति-
ष्ठत इति यद्गौरीवितमन्वहं भवति वाचमेव तत्पुनः
प्रयुञ्जते ॥ ६ ॥
अन्यो वाग्रहितो यज्ञः सन्तिष्ठते वै परिसमाप्त एव भवतीति ब्रह्म-
वादिन आहुः तथा अन्येषु सन्तिष्ठमानेष्वपि वागेव न सन्तिष्ठत इत्या-
हुर्यस्मादेवं तस्माद्गौरीवितं वाचः स्वरात्मकं सामान्वहं भवति तत्तेन ।
असंस्थितां पुनः प्रयुञ्जते श्वस्तनाभावाय गौरीवितं साम प्रत्यहमनु-
ष्टुप्सु कर्त्तव्यमित्युक्तं भवति । अत एतत् आद्यन्ते अहनी मुक्त्वा अन्ये-
षु मध्यवर्त्तिष्वहःसु कर्त्तव्यमिति ज्ञायते ॥ ६ ॥
अथ सुज्ञानाख्यं सामान्वहं कार्य्यमिति विधित्सुस्तस्य निधनं
विदधाति—
स्वर्णिधनमन्वहं भवति ॥ ७ ॥
'सोमः पुनानं ऊर्मिणे'त्यस्यां योनावुत्पन्नं सुज्ञानं तस्योपेति निधनं
तस्य स्थाने स्वरिति निधनं कर्त्तव्यमित्यर्थः । तथा च सूत्रकृतोक्तं 'उपा-
स्थानेष्वन्यानि निधनानि स्वरानादेशे तथा स्वराणि स्युरि'ति प्रकृत्य
स्वरसकाशात्ते दैवोदाससुज्ञानयोश्चेति ॥ ७ ॥
अथैतत् प्रशंसति—
देवक्षेत्रं वा एतेऽभ्यारोहन्ति ये स्वर्णिधनमुपयन्ति
स उ वै सत्रिणः सत्रमुपनयेदित्याहुर्य एनान्देवक्षेत्रम-
भ्यारोहयेदिति न वै देवक्षेत्र आसीन आर्त्तिमार्च्छति
यत् स्वर्णिधनमन्वहं भवति नैव काञ्चनार्त्तिमार्च्छन्ति ॥ ८ ॥
ये स्वर्णिधनमुपयन्ति उपगच्छन्ति प्रयुञ्जते इत्यर्थः । एते देवक्षेत्रं
देवानां स्थानं स्वर्गशब्दवाच्यमेवाभ्यारोहन्ति । अपि च य उद्गातादि-
रेतान् यजमानान् देवक्षेत्रं स्वर्णिधनेनाभ्यारोहयेत् । इतिर्हेतौ अतः
कारणात् स एव सत्रिणो यजमानान् सत्रमुपनयेत फलप्रदानशक्तं
सम्पूर्णप्रयोगं प्रापयेदित्याहु र्ब्रह्मवादिनः । किञ्च न वै खलु देवक्षेत्रे देवा-
पञ्चमाध्याये सप्तमः खण्डः । १६५
नां स्थाने आसीनः पुरुषः आर्त्तिमार्च्छति कदाचिदपि तस्यार्त्तिर्न भवती-
त्यर्थः। एवं सति यत् स्वर्णिधनमन्वहमनुष्ठितं भवति तेन काञ्चनार्त्तिं-
कामपि हिंसां नैवार्च्छन्ति न प्राप्नुवन्ति ॥ ८ ॥
अस्मिन् स्वर्णिधने किञ्चिद्दोषमाशङ्क्य परिहरति—
च्यवन्ते वा एतेऽस्माल्लोकादित्याहुर्यै स्वर्णिध-
नमुपयन्तीति यदृचा स्वरूपं यन्त्यस्मिँल्लोके प्रति तिष्ठ-
न्ति यदेकारोऽन्तरिक्षे यत्सानामुष्मिन्त्सर्वेषु लोकेषु
प्रति तिष्ठन्ति स्वर्णिधनेन तुष्टुवानाः ॥ ९ ॥
अन्वहं स्वर्णिधनमुपयन्तः सद्य एवैते स्वर्गं गच्छन्ति । अतोऽस्मा-
ल्लोकात् च्यवन्त इत्याहुर्ब्रह्मवादिनस्तस्यायं परिहारः यदृचा स्तोत्री-
यया स्वरूपं यन्ति स्वर्णिधनमुपगच्छन्ति । ऋचि हि स्वर्णिधनं गीयते
तेनास्मिन् लोके प्रतितिष्ठन्ति ऋगात्मको हि भूर्लोकः । एषुवरिति (?)य-
देकारस्तत्र विद्यते तेनान्तरिक्षलोके प्रतितिष्ठन्ति यत् साम्ना स्वर्णिधन-
मुपयन्ति तेनामुष्मिन् स्वर्गे प्रतितिष्ठन्ति । एवं च स्वर्णिधनेन तुष्टुवा-
नाः स्तुवन्तः सत्रिणः सर्वेषु लोकेषु प्रतिष्ठिता भवन्ति ॥ ९ ॥
अथ सुज्ञानं विधत्ते—
सुज्ञानं भवति ॥ १० ॥
स्पष्टोऽर्थः ॥ १० ॥
सोमः पुनान इत्यस्यामुत्पन्नं साम शोभनज्ञानहेतुत्वात् सुज्ञानम् एत-
देव आख्यायिकामुखेन प्रदर्श्य सत्रिणामपि अनेन साम्ना शोभनज्ञान-
प्राप्तिर्भवतीत्याह—
देवा वै स्वर्गँल्लोकं यन्तोऽज्ञानादबिभयुस्त एतत्
सुज्ञानमपश्यँस्तेन ज्ञात्रमगच्छन्यत् सुज्ञानमन्वहं भ-
वति ज्ञात्रमेव गच्छन्ति ॥ ११ ॥
देवाः पुरा स्वर्गे लोकं गच्छन्तः शङ्कमाना अज्ञानादबिभयुः भीता
आसन् तदेतत्सुज्ञानं साम दृष्ट्वा प्रायुञ्जत प्रायुङ्क्त तेन ज्ञात्रं संज्ञा-
नमगच्छन् प्राप्ताः । तथा सति इदानीमपि सत्रे अन्वहं सुज्ञानं क्रियते
इति यत् तेन ज्ञात्रं ज्ञानमेव गच्छन्ति सर्वे यजमानाः ॥ ११ ॥
इति ताण्ड्यमहाब्राह्मणे पञ्चमाध्यायस्य सप्तमः खण्डः ।
above it: it's न्वि!
Wait, no, look at the circle with dot:
In line 4, under ये वै:
There is a circle with a dot ꣳ on the left margin? No, under ये there is a small circle with a dot: ꣳ!
Wait, why is there a small circle with a dot under ये?
Wait, that's a stray mark or an insertion mark!
Wait, look above it: between वै and वाचमन्न:
There is ꣳ!
Wait, look at line 4:
ये वै ꣳवाचमन्नमादयन्त्यन्नादा भवन्ति ये न्वितर्षय-?
Wait, let's search Tandya Brahmana 8.8.1:
Let's search my memory of Tandya Brahmana 8.8.1:
"ये वै वाचमन्नमादयन्त्यन्नादा भवन्ति ये विवृषयन्ति..." no.
Wait, what are the two Samans in 8.8?
Line 3 says:
अथ श्यावाश्वन्निहवश्चैते द्वे सामनी अन्वहं भवेतामिति विधित्सुराह-
"श्यावाश्व" and "निहव"!
Line 9 says:
`गौरीवितं
वा अप्लवः समुद्रं प्रस्नाति न स तत उदेति यत्प्लवो
भवति स्वर्गस्य लोकस्य समष्ट्यै ॥ ५ ॥
ये संवत्सरं संवत्सरसाध्यं गवामयनमुपयन्ति एते समुद्रमेव प्रस्ना-
न्ति अवगाहन्ते समुद्रवदस्य सत्रस्यातिगाम्भीर्यात् । यः खलु अप्लवः
उडुपरहितः सन् समुद्रमवगाहते स ततः समुद्रात्नोदेति नोद्गच्छति
निमग्न एव भवति यस्तु प्लवात् समुद्रं प्रस्नाति स तु ततः सकाशादुदे-
त्येव । एवं सति समुद्रकल्पे संवत्सरसत्रे अन्वहं प्लवो भवतीति यत्
तेन प्लवेन संवत्सराख्यं सत्रन्तीर्त्वा स्वर्गलोकस्य सम्प्राप्त्यै यजमाना
भवन्ति ॥ ५ ॥
अत्रत्यन्निधनमनूद्य प्रशंसति—
अति विश्वानि दुरिता तरेमेति यदेवैषां दुष्टुतं
दुःशस्तं तदेतेन तरन्ति ॥ ६ ॥
अस्य साम्नो निधनम् 'अति विश्वानि दुरिता तरेमे'ति अस्मिन्निधने
विश्वानि दुरितानि अतितरेमेत्याशासनं दृश्यते एषां सत्रिरणां यद्दु-
ष्टुतम् अयथाशास्त्रं स्तुतं यच्च दुःशस्तम् अयथाशंसनम् स्तवनं
कृतम् एते 'नातितरणप्रार्थनेन तदुभयन्तरन्ति ॥ ६ ॥
अथाभिप्लवषडहस्य प्रथमेऽहनि अनुष्टुप्स्वोकोनिधनाख्यं साम
कर्त्तव्यमिति विधत्ते—
ओकोनिधनꣳ षडहमुखे भवति ॥ ७ ॥
'तमु अभिप्रगायत आजाविरक्ते अव्यत' इत्येतस्यां योनावुत्पन्नं
साम ओकोनिधनं तत्र हि ओक इति निधनं दृश्यते । तत् साम षड-
हस्य मुखे षडहस्य प्रमुखे प्रथमेऽहनि कार्य्यम् ॥ ७ ॥
तदेतत् स्तौति—
परां वा एते परावतं गच्छन्ति ये षडहस्यान्तं
गच्छन्ति यदोकोनिधनꣳ षडहमुखे भवति प्रज्ञात्यै ॥८॥
ये सत्रिरणः षडहस्य अन्तं गच्छन्ति प्रथममहरारभ्य यावत् षष्ठ-
महस्तावत्पर्य्यन्तन्नैरन्तर्य्येणानुतिष्ठन्ति ते पराम्परावतम् अतिदूरं
गच्छन्ति अतिदूरं हि गच्छतां मार्गज्ञानमपेक्षितं यत् षडहमुखे ओको-
निधनं मवति तत् यज्ञस्य प्रज्ञात्यै भवति ॥ ८ ॥
कथमोकोनिधनेन प्रज्ञातिर्भवति तत्राह—
यदा वै पुरुषः स्वमोक आगच्छति सर्व्वं तर्हि प्रजा-