ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 177, कुल 518 में से
संदर्भ में पढ़ेंअथास्मिन् स्तोत्रे गीयमाने दुन्दुभीनां वादनं विधत्ते—
सर्व्वा॑सु स्रक्ति॑षु दुन्दु॒भयो॑ व्वद॒न्ति या व्वन॒स्पति॑षु
व्वाक्तामेव तज्जय॑न्ति ॥ १८ ॥
सर्वासु स्रक्तिषु वेद्याः कोणेषु दुन्दुभयो वदन्ति शब्दं कुर्युस्तदेवं
यथा वदन्ति तथा तान्वादयेदित्यर्थः । वाद्यपूर्वं देवेभ्यो निष्क्रम्य वन-
स्पतिषु या वाक् प्रविष्टा तामेव वाचं तत्तेन दुन्दुभिशब्देन जयन्ति
प्राप्नुवन्ति ॥ १८ ॥
अथ भूमिदुन्दुभिवादनं विधत्ते—
भूमि॑दुन्दुभिर्भवति या पृ॑थि॒व्यां व्वाक्तामेव तज्ज-
य॑न्ति ॥ १९ ॥
आग्नीध्रीयस्य पश्चादर्द्धमन्तर्वेद्यर्द्धं बहिर्वेदि भूमावटं खात्वा सव-
नीयस्य ऋषभचर्मेणापिदधाति स भूमिदुन्दुभिर्भवति तां “वादयन्ती”-
ति शेषः, स्पष्टमन्यत् ॥ १९ ॥
अन्यासामपि वाचां प्रयोगं विधत्ते—
सर्व्वा॒ व्वाचो॑ व्वदन्ति येषु॑ लो॒केषु॒ व्वाक्तामेव
तज्जय॑न्ति ॥ २० ॥
सर्वाः संस्कृताश्चासंस्कृताश्च ग्राम्यवाचश्च वदन्ति प्रेक्षकाः सर्वे
जना इत्यर्थः, गतमन्यत् ॥ २० ॥
अथ राजपुरुषाणां देवयजनस्य परितो गमनं विधत्ते—
सन्नद्धाः॑ कव॒चिनः॑ परिय॒न्तीन्द्रि॒यस्यै॒व तद्रू॒पं क्रिय॒-
तेऽथो॑ महाव्रतमेव महयन्ति ॥ २१ ॥
सन्नद्धाः सन्नद्धहस्तत्राणादिकाः कवचिनः कवचयुक्ताश्च राजपु-
रुषाः रथमारुह्य गृहीतचापशराः सन्तः परियन्ति देवयजनं परितो
गच्छेयुः। इन्द्रियस्यैव बलस्यैव तद्रूपं क्रियते यदेतत् कवचिनां परिगमनं
अथो अपि च महाव्रतमेव महाव्रताख्यमेवाहर्महयन्ति ॥ २१ ॥
इति ताण्ड्यमहाब्राह्मणे पञ्चमाध्यायस्य पञ्चमः खण्डः ।
अथ षष्ठः खण्डः ।
एवं पञ्चविधमहाव्रतस्तोत्रस्य शिरःप्रभृतिगान् पञ्चावयवानध्व-
र्यादयः पञ्च सहोपक्रम्य युगपदुद्गायेयुरित्येकः पक्षः, उद्गातैव कृत्स्न-
स्तोत्रमुद्गायेदित्यपरः, तत्र प्रथमं पक्षं विदधाति ।
१४ ता०