ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 173, कुल 518 में से
संदर्भ में पढ़ेंपञ्चमाध्याये पञ्चमः खण्डः । १८३
यत् यदि अस्य साम्नो निधनम् 'इन्द्रस्तसरपूता' इत्येतत् परोक्षमु-
पेयुरुपगच्छेयुः ह्रीतमुखं लज्जाविष्टमुखविकारं पुत्रं प्रतिमुञ्चेरन् स्वात्मनि
संयोजयेरन् । यत् यदि प्रत्यक्षमुपयान्ति तदोद्गीतमुखमेवमपरो निर्देशः
ह्रीतमुखत्वं पुत्रादिगतमपजयन्ति तिरस्कुर्वन्ति । किमिदन्निधनस्य प-
रोक्षं किंवा प्रत्यक्षमिति चेत्?तदुभयं विविच्य प्रदर्शितं निदाने 'ऋश्यं
प्रत्यक्षज्ञापितं परोक्षमपि वेन्द्रेति प्रत्यक्षं इन्द्र इति परोक्षम्'इत्यादिना
'ऋश्यास इन्द्र धुङ्' इतीन्द्रपदमित्युपरि सर्वाणीन्द्रवाचकानि पदानि
सम्बुद्ध्यन्तानि प्रयोज्यानि तेनेन्द्रस्तसरपूता इति प्रथमान्तमपोह्य इ-
न्द्रस्तसरपूतेति संयोज्य यथा 'ऋश्यास इन्द्र मघवन्निन्द्रेति' त्रीणि स-
म्बुद्ध्यन्तानि एवं हीन्द्रः सम्बोध्यत्वात् प्रत्यक्षकृतो भवति अतस्तद्वा-
चकं निधनमपि प्रत्यक्षं भवति । प्रथमान्तत्वे तु परोक्षकृतत्वेन निधन-
स्य परोक्षता स्यात् । सूत्रकृताऽपि इन्द्रप्रभृति प्रत्यक्षं निधनमुपेयु-
रिति ॥ १५ ॥
इति ताण्ड्यमहाब्राह्मणे पञ्चमाध्यायस्य चतुर्थः खण्डः ।
अथ पञ्चमः खण्डः ।
एवं महाव्रतस्तोत्रस्याङ्गभूता लोमनखस्थानीयास्त्रयोदश परिमा-
दो गताः । एतेषाञ्च लोमनखस्थानीयत्वं तैत्तिरीये समाम्नातं 'यदित
इतो लोमानि इतो नखात्परिमादः क्रियन्ते तान्येव तेन प्रत्युप्यन्त इ-
ति, अथ महाव्रतंस्तोत्रं पञ्चविधम् अत्राध्वर्युः शिरसोद्गायेन्मैत्रावरुणो-
दक्षिणेन पक्षेण ब्राह्मणाच्छंस्युत्तरेण गृहपतिः पुच्छेनोद्गातात्मनेत्येवं क-
र्तृविशेषसम्बन्धं वक्ष्यति । तत्रोद्गातुरुद्गानकाले कश्चिद्विशेषं विधत्ते—
आसन्दीमारुह्योद्गायति देवसाक्ष्य एव तदुपारिषद्यं
जयति ॥ १ ॥
उद्गाता आसन्दीमारुह्य आत्मना राजनेन साम्ना उद्गायति तत्तेन
भूमिं परित्यज्य आसन्द्या उपर्यारोहणेन देवसाक्ष्ये देवानां दर्शन एव
उपारिषद्यम् उपरि सदनम् उच्छ्रिते स्वर्गादावस्थानं जयति लभते ॥१॥
आसन्द्या औदुम्बरीत्वं विधाय प्रशंसति—
औदुम्बरी भवत्यूर्गुदुम्बर ऊर्जमेवावरुन्धे ॥ २ ॥
उदुम्बरविकारैः औदुम्बरैः काष्ठैर्निर्मिता भवति । योऽयमुदुम्बरः
स ऊर्ग् वै बलकरमन्नमेव ऊर्ग्विभागसमये तस्योत्पत्तेः । तथा च तैत्ति-
रीयकं 'देवा वा ऊर्जं व्यभजत तत उदुम्बर उदतिष्ठदिति । अत औदुम्ब-