ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
DevanagariSanskritpublished518 पृष्ठ
पृष्ठ 183, कुल 518 में से
संदर्भ में पढ़ेंपृष्ठ 183
पञ्चमाध्याये सप्तमः खण्डः । १६३
देवाः खलु पुरा वाचं छन्दोरूपां व्यभजन्त गायत्रीं प्रातःसवने
अग्नये वसुभ्यो व्यभजन्त । त्रिष्टुभं माध्यन्दिने सवने इन्द्राय रुद्रेभ्यो
व्यभजन्त । जागतं तृतीयसवने विश्वेभ्यो देवेभ्यो आदित्येभ्यो व्यभजन्त ।
एवं विभज्यमानायास्तस्या वाचः यो रसः सारोऽत्यरिच्यत तद्गौरी-
वितन्नाम सामाभवत् । तच्च अनुष्टुभमनुलक्ष्य परिप्लवते सञ्चरति । कुत-
एतत् ? यदिदमनुष्टुप्छन्दः सा वाक् गौरीवितं च वाचो रसः अतो
अनुष्टुप्च्छन्दस्कामेवर्चं आधारतया गृह्णाति ॥ १ ॥
एवं विशिष्टच्छन्दस्येतत्साम विधाय प्रशंसति—
यद्गौरीवितेनान्वहं स्तुवते वाच्येव तद्वाचा रस-
न्दधति ॥ २ ॥
'अभि प्र गोपतिं गिर' इत्यस्यां योनावुत्पन्नं साम गौरीवितं तच्चानु-
[