ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 169, कुल 518 में से
संदर्भ में पढ़ेंपञ्चमाध्याये चतुर्थः खण्डः । १४९
अथ चतुर्थः खण्डः ।
एवं महाव्रतस्तोत्रस्य स्वरूपमभिधाय 'प्राणेन पुरस्तादि'त्यादिना
'आसन्दीमारुह्योद्गायेती'त्यन्तेन तत् प्रयोगप्रकार उच्यते । पक्षिरूपस्य
तस्य महाव्रतस्य लोमनखस्थानीयानां विधास्यमानानां प्राणादिसाम्नां
परिमाद इति संज्ञा तैश्चाहवनीयादिकमुपस्थेयमित्यस्मिन् खण्डे विधी-
यते । अस्य चोपस्थानस्य कालादिकं सूत्रकारो विशदीकृतवान् । महा-
व्रतस्य पृष्ठ उपाकृते युक्तं स्तोमं परिमादो गायेदिति शाडिटायनः, प्र-
तिगृह्य तृणे अयुक्त्वेति गौतमशाण्डिल्यौ, धानञ्जय्यश्च प्रागेव स्तोत्रो-
पाकरणादित्येक इति, तत्र प्राणसाम्ना आहवनीयोपस्थानं विधत्ते—
प्राणेन पुरस्तादाहवनीयमुपतिष्ठन्ते प्राणमेव त-
ज्जयन्ति ॥ १ ॥
इन्द्रं नर इत्यस्यां 'हाउ३ आयुः३ सात्यम्३' इति गीयमानं साम प्रा-
णः । तेन साम्ना पुरस्तात् पूर्व्वस्यां दिश्यवस्थाय आहवनीयमुपतिष्ठ-
न्ते । सदसो निर्गत्य दक्षिणेनाग्नीध्रीयं गत्वा चित्याग्निमुत्तरेण आहवनी-
यस्य पूर्वभागं प्राप्य उपस्थानमित्यर्थः । यद्यपि परिमादो गायेदित्ये-
कवचनेन एकस्यैव गानकर्त्तृत्वात् तत्करणके उपस्थानेऽप्येक एवेति
उपतिष्ठन्त इति बहुवचनमनुपपन्नं तथापि 'सर्वाण्युद्गाता सकृत् सकृ-
द्गायेत् निधनमितरावुपेयातामपि मध्ये निधनेषु' इति सूत्रकारेण इतर-
योरपि निधनभागेऽन्वयस्योक्तत्वात् त्रयोप्युपस्थाने कर्त्तार इति बहुव-
चनमुपपद्यते । एवमुत्तरत्रापि द्रष्टव्यम् । तत्तेन प्राग्दिक् सम्बन्धिनाह-
वनीयोपस्थानेन प्राणमेव पञ्चवृत्त्यात्मकं शरीरे वर्त्तमानस्य प्राणवायोः
या प्राणाख्या प्रथमा वृत्तिः तामेव जयन्ति लभन्त इत्यर्थः । प्राणवृत्ति-
रपि नासिकातो निर्गत्य प्राग्गामिनी भवति । अतः प्राक् सम्बन्धिनोप-
स्थानेन तज्जयो युक्तः ॥ १ ॥
अथ चित्याग्नेः पुच्छस्य अपानसाम्नोपस्थानं विधत्ते—
अपानेन पश्चात्पुच्छमुपतिष्ठन्ते अपानमेव तज्ज-
यन्ति ॥ २ ॥
यथैतं प्रत्याव्रज्य पश्चादवस्थाय 'इन्द्रं नर' इत्यस्यामेव 'हाउ३ आनो
हिय३ मनदोहम्३' इति गीयमानं साम अपानः । तेन पुच्छमुपतिष्ठेरन्
तत्तेन प्रत्यग्दिक्सम्बन्धिनोपस्थानेन प्रत्यग्गामिनीम् अपानवृत्तिमेव
जयन्ति ॥ २ ॥