सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 181, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 181

क्षतइति। पिच्छोला वादनदण्डेन वाद्यमाना काण्डमयी काण्डवीणा इत-
रयोरेव अपघाटिलासंज्ञेत्यर्थः ॥ ८ ॥
अस्मिन्नहनि सर्वेषामपि यजमानानां गृहेषु ब्राह्मणभोजनार्थं पाकः
कर्त्तव्य इति विधत्ते—
कुले कुलेऽन्नं क्रियते तद्यत्पृच्छेयुः किमिदं कुर्व्वन्ती-
तीमे यजमाना अन्नमत्स्यन्तीति ब्रूयुः ॥ ९ ॥
अन्येष्वहःसु गृहपतिप्रधाना एव सर्वे ब्राह्मणान् भोजयितुमन्नानि
कामयन्ते। अस्मिन् अहनि कुले कुले यजमानानां गृहे गृहे अन्नं क्रियते
पृथक् पृथक् ब्राह्मणान् भोजयितुमन्नं कर्त्तव्यम्। तत्तत्र एवं क्रियमाणे य-
द्यदि पृच्छेयुः प्रेक्षका जनाः किमिदं कुले कुले कुर्वन्तीति तदैवं प्रति-
ब्रूयुः इमे यजमाना अन्नमत्स्यन्तीति अस्मिन् लोके बहुलमन्नं प्रदाय
अमुष्मिन् लोके बहुलमेते भोक्ष्यन्त इति ॥ ९ ॥
अथैतत्प्रशंसति—
यो वै दीक्षितानां पापं कीर्त्तयति तृतीयमेवाऽध्‍शं
पाप्मनोहरत्यन्नादस्तृतीयं पिपीलिकास्तृतीयम् ॥ १० ॥
यः खलु दीक्षितानां दीक्षणीयेषु संस्कृतानां पापमशुभं कीर्त्तयति
स पुरुषः एषां पापस्य तृतीयमंशं हरति। यो दीक्षितानामन्नमत्ति सोऽ-
न्नादस्तृतीयमंशं हरति। आज्येष्वन्नेषु च बहुषु सत्सु बह्व्यः पिपीलिका-
स्तद्भक्षणार्थमागच्छन्ति तास्तृतीयमंशं पापं हरन्ति। अत आज्यादिषु
पिपीलिकापतने दोषाशंका न कार्येत्यर्थः ॥ १० ॥
परिमादः पूर्वमुक्ताः ता अन्नस्य प्रशंसति—
परिमद्भिश्‍चरन्ति त्वक्च वा एतल्लोम च महाव्रतस्य
यत् परिमादस्त्वचञ्चैव तल्लोम च महाव्रतस्याप्त्वाव-
रुन्धते ॥ ११ ॥
याः पूर्वमुक्ताः परिमादस्ता महाव्रतस्य त्वक्लोमस्थानीयास्ततस्ता
आप्त्वा प्राप्य अवरुन्धते स्वयमपि त्वचं लोम च लभन्त इत्यर्थः। 'यद्दे-
तान् ह वै पुरुषो देवेभ्यः करोति तादृगस्मै देवाः कुर्वन्ती'ति श्रुतेः॥११॥
अथ वीणाविशेषस्य वादनं विधत्ते—
वाणं वितन्वन्त्यन्तो वै क्वाणोऽन्तो महाव्रतमन्ते-
नैव तदन्तमभिवादयन्ति ॥ १२ ॥
वाणं महावीणा तम् वितन्वन्ति तंत्रीभिः संयोज्य वादयन्तीत्यर्थः।