सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 170, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 170

१५० ताण्ड्यमहाब्राह्मणे
व्रतपक्षौ नाम द्वे सामनी 'इन्द्रं नर' इत्यस्यामेवोत्पन्ने ताभ्यां चि-
त्याग्नेः पक्षयोरुपस्थानं विधत्ते—
व्रतपक्षाभ्यां पक्षावुपतिष्ठन्ते दिश एव तज्जयन्ति ॥३॥
'व्रतपक्षयोः पूर्वेण दक्षिणं पक्षमि'ति सूत्रकारेण व्यवस्थाया दर्शि-
तत्त्वात् पूर्वेण व्रतपक्षेण दक्षिणं पक्षमुत्तरेणोत्तरं चोपतिष्ठेरन् एते अपि
सामनी 'इन्द्रं नर' इत्यस्यामुत्पन्ने 'हाउ३ हे४३ ह४३ इन्द्रं नरो' इति
गीयमानं साम पूर्वो व्रतपक्षः । हाउ३ इहा३ ह४३ इन्द्रं नरो' इति
गीयमानं सामोत्तरः तत्तेन दिक्सम्बन्धः । पक्षयोरुपस्थानेन दिशां
जयो भवति ॥ ३ ॥
पुनरन्यदुपस्थानं विधत्ते—
प्रजापतेर्हृदयेनापिकक्षमुपतिष्ठन्ते ज्यैष्ठ्यमेव तज्जयन्ति ॥४॥
अपिकक्षं पक्षमूलमुत्तरमपिकक्षमुपतिष्ठेरन् प्रजापतेः ज्येष्ठत्वात्
तत्तेनोपस्थानेन ज्यैष्ठ्यमेव जयन्ति ॥ ४ ॥
अथ चात्वालस्योपस्थानं विधत्ते—
वसिष्ठस्य निह्नवेन चात्वालमुपतिष्ठन्ते स्वर्गमेव
तल्लोकमाप्त्वा श्रियं व्वदन्ते ॥ ५ ॥
'असावि देवम्' इत्यस्यामुत्पन्नं साम वसिष्ठस्य निह्नवः । तेन चात्वा-
लमुपतिष्ठेरन् 'आइहो३ एहिया उ२३४वा हाइ असावि देवगोरुजीता३क्षां
धाउ' इत्येतदादिकं तत्साम 'विश्वे देवा मम शृण्वन्तु' इत्यस्यामृचि
'सुम्नेष्विद्वो अन्तमा मदेमेति' विद्यते तस्य चायमर्थः । हे देवाः वः यु-
ष्माकम् अन्तमाः अन्तिकतमाः सन्तः सुम्नेषु सुखेषु मदेम इति । अत
एवंरूपस्यार्थस्य दर्शनात् एतत् करणकोपस्थाने स्वर्गमेव लोकमाप्त्वा
लब्ध्वा श्रियं सम्पदमभिवदन्ते ॥ ५ ॥
अथैतस्य साम्न आधारभूतामृचं विधाय प्रशंसति—
वैश्वदेव्यामृचि भवति विश्वरूपं वै पशूनाꣳरूपं
पशूनेव तज्जयन्ति ॥ ६ ॥
वैश्वदेव्यामृच्येतत् साम भवतीति विश्वरूपं बहुरूपं हि पशूनां
रूपं तत्तेन वैश्वदेव्याः करणेन पशूनेव जयन्ति ॥ ६ ॥
अथान्यदुपस्थानं विधत्ते—
सत्रस्यर्ध्याग्नीध्रमुपतिष्ठन्त ऋद्धावेव प्रतितिष्ठन्ति ॥७॥
'औहोवा३ अगन्म ज्योतिः' इति सत्रस्य ऋद्धिस्तेन साम्ना आग्नी-