ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 187, कुल 518 में से
संदर्भ में पढ़ेंवा अप्लवः समुद्रं प्रस्नाति न स तत उदेति यत्प्लवो
भवति स्वर्गस्य लोकस्य समष्ट्यै ॥ ५ ॥
ये संवत्सरं संवत्सरसाध्यं गवामयनमुपयन्ति एते समुद्रमेव प्रस्ना-
न्ति अवगाहन्ते समुद्रवदस्य सत्रस्यातिगाम्भीर्यात् । यः खलु अप्लवः
उडुपरहितः सन् समुद्रमवगाहते स ततः समुद्रात्नोदेति नोद्गच्छति
निमग्न एव भवति यस्तु प्लवात् समुद्रं प्रस्नाति स तु ततः सकाशादुदे-
त्येव । एवं सति समुद्रकल्पे संवत्सरसत्रे अन्वहं प्लवो भवतीति यत्
तेन प्लवेन संवत्सराख्यं सत्रन्तीर्त्वा स्वर्गलोकस्य सम्प्राप्त्यै यजमाना
भवन्ति ॥ ५ ॥
अत्रत्यन्निधनमनूद्य प्रशंसति—
अति विश्वानि दुरिता तरेमेति यदेवैषां दुष्टुतं
दुःशस्तं तदेतेन तरन्ति ॥ ६ ॥
अस्य साम्नो निधनम् 'अति विश्वानि दुरिता तरेमे'ति अस्मिन्निधने
विश्वानि दुरितानि अतितरेमेत्याशासनं दृश्यते एषां सत्रिरणां यद्दु-
ष्टुतम् अयथाशास्त्रं स्तुतं यच्च दुःशस्तम् अयथाशंसनम् स्तवनं
कृतम् एते 'नातितरणप्रार्थनेन तदुभयन्तरन्ति ॥ ६ ॥
अथाभिप्लवषडहस्य प्रथमेऽहनि अनुष्टुप्स्वोकोनिधनाख्यं साम
कर्त्तव्यमिति विधत्ते—
ओकोनिधनꣳ षडहमुखे भवति ॥ ७ ॥
'तमु अभिप्रगायत आजाविरक्ते अव्यत' इत्येतस्यां योनावुत्पन्नं
साम ओकोनिधनं तत्र हि ओक इति निधनं दृश्यते । तत् साम षड-
हस्य मुखे षडहस्य प्रमुखे प्रथमेऽहनि कार्य्यम् ॥ ७ ॥
तदेतत् स्तौति—
परां वा एते परावतं गच्छन्ति ये षडहस्यान्तं
गच्छन्ति यदोकोनिधनꣳ षडहमुखे भवति प्रज्ञात्यै ॥८॥
ये सत्रिरणः षडहस्य अन्तं गच्छन्ति प्रथममहरारभ्य यावत् षष्ठ-
महस्तावत्पर्य्यन्तन्नैरन्तर्य्येणानुतिष्ठन्ति ते पराम्परावतम् अतिदूरं
गच्छन्ति अतिदूरं हि गच्छतां मार्गज्ञानमपेक्षितं यत् षडहमुखे ओको-
निधनं मवति तत् यज्ञस्य प्रज्ञात्यै भवति ॥ ८ ॥
कथमोकोनिधनेन प्रज्ञातिर्भवति तत्राह—
यदा वै पुरुषः स्वमोक आगच्छति सर्व्वं तर्हि प्रजा-