सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 178, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 178

१५८ ताण्ड्यमहाब्राह्मणे
सर्व्वे सहर्त्विजो महाव्रतेन स्तुवीरन् ॥ १ ॥
महाव्रतेन शिरआदिभिः पञ्चविधेन स्तोत्रेण ऋत्विजः सर्वे युगपत्
स्तुवीरन् ॥ १ ॥
कतमः कतमेनावयवेन स्तुवीत इत्यत आह—
अध्वर्य्युः शिरसोद्गायेन्मैत्रावरुणो दक्षिणेन पक्षेण
ब्राह्मणाच्छꣳस्युत्तरेण गृहपतिः पुच्छेनोद्गातात्मना ॥२॥
शिरसा शिरस्त्वेन परिकल्पितेन त्रिवृता स्तोमेन गायत्रेण साम्ना
अध्वर्य्युः शिरसोद्गायेत्, तथा मैत्रावरुणो दक्षिणेन पक्षेण, तथा तेन
परिकल्पितेन रथन्तरसाम्ना पञ्चदशस्तोमेनोद्गातोद्गायेत्, तथा ब्राह्मणा-
च्छंस्युत्तरेण पक्षेण तदात्मना परिकल्पितेन सप्तदशस्तोमेन बृहत्साम्ना
स्तुवीत। गृहपतिर्यजमानः भद्रं यज्ञायज्ञीयं च विकल्पितेन परिकल्पिते-
नान्यतरेण एकविंशस्तोमकेनोद्गायेत्। स्वयमुद्गाता आत्मनो मध्ये आ-
त्मा तद्रूपतया परिकल्पितेन राजनसाम्नोद्गायेत्, अत्राध्वर्य्युः शिर-
सोद्गायेदित्यादिना अध्वर्य्युप्रभृतीनामुद्गातृकार्ये विधानात्प्रस्तोतृप्रति-
हर्त्तारावपि तस्य तस्य कल्पनीयौ। तत्राध्वर्य्योरग्रे द्वितीयः प्रस्तोता
तृतीयः प्रतिहर्त्ता कार्य्यः पक्षयोस्तु द्वितीययोरुद्गातृत्वात् तदनन्तर-
भाविनौ तृतीयचतुर्थावेव प्रस्तोतृप्रतिहर्त्तारौ कार्य्यौ पुच्छे तु अविनि-
युक्तौ सुब्रह्मण्योन्नेतारौ प्रस्तोतृप्रतिहर्त्तारौ कर्त्तव्यौ नह्यत्र गत्यन्तरम-
स्तीत्येकः पक्षः। अध्वर्य्युप्रभृतीनामेवोद्गातृत्वविधानान्नेतरयोर्बाध इति
उद्गातृवर्गौ यौ प्रस्तोतृप्रतिहर्त्तारौ तावेव सर्वत्र क्रमेण प्रस्तोतृप्रति-
हर्त्तारौ कुर्य्यातामित्यपरः पक्षः। इममेव पक्षं सूत्रकारः 'सर्व्वे सहर्त्विजो
महाव्रतेन स्तुवीरन्नित्युद्गातृविकार एव स्या'दित्यादिना दर्शितवान्॥२॥
यद्यध्वर्य्युप्रभृतयः सर्वे महाव्रतेन स्तुवीरन्-तत्र किञ्चिद्विशेषमाह—
तद्यद्येवं कुर्यु्युरेकैकया स्तोत्रीययाऽस्तुतयोद्गातारम-
भिसमेय्युः ॥ ३ ॥
तत्तत्र महाव्रते यद्येवं कुर्यु्युः। तदा स्वीयेषु स्तोत्रेषु शिरःप्रभृतिषु
अस्तुतया एकैकया स्तोत्रीयया उद्गातारमभिसमेयुरभिगच्छेयुः। इय-
मस्तुतेत्युद्गात्रे निवेदयेयुरित्यर्थः ॥ ३ ॥
अथैतर्हि निवेदितानां स्तोत्रीयाणां क्रमेणोद्गात्रा विनियोगप्रकारमाह—
तिसृभिरुद्गाताऽत्मन उद्गीयाथ या शिरसः स्तोत्रीया
तां दध्यादपराभिस्तिसृभिरुद्गीयाथ या दक्षिणस्य पक्षस्य