सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 179, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 179

पञ्चमाध्याये षष्ठः खण्डः । १६९
स्तोत्रीया तान्दध्यादपराभिस्तिसृभिरुद्गीयाथ योत्तरस्य
पक्षस्य स्तोत्रीया तान्दध्यात्तिसृभिर्वैकया वा स्तुतं꣡-
स्यादथ या पुच्छस्य स्तोत्रिया तान्दध्यात् ॥ ४ ॥
आत्मनः राजनस्यादितस्तिसृभिः स्तोत्रियाभिरुद्गीय उद्गानं कृत्वा
अथानन्तरं या शिरसः स्तोत्रीया अध्वर्युणावशेषिता तामुद्गाता दध्यात्
प्रथमपर्यायस्य प्रथमविष्टार्वानन्तरं तया स्तुवीतेत्यर्थः । एवमुत्तरत्रापि
योज्यम् । यदा राजनस्य साम्नः पञ्चविंशस्तोमस्य अन्त्याभिस्तिसृभिः
स्तोत्रीयाभिरेकया वा अस्तुतं स्यात् स्तुतिः कृता न भवेत् अथास्मिन्
स्थाने गृहपतिनोच्छेषितां पुच्छस्य स्तोत्रियाम्प्रत्येत्तत् । नत्वेकैकस्या
उच्छेषणम् ॥ ४ ॥
आत्मनि प्रतिधानञ्च किमर्थमित्यत आह—
आत्मन्येव तदङ्गानि प्रतिदधति स्वर्गस्य लोकस्य
समष्ट्यै ॥ ५ ॥
तत्तेन उक्तक्रमेण स्तोत्रीयाणां प्रक्षेपेण आत्मनि मध्यकाय एव
शिरःप्रभृतीन्यङ्गानि प्रतिदधति संयोजयति । सम्पूर्णाङ्गो हि गन्तुं श-
क्नोति प्रतिधानं स्वर्गस्य लोकस्य समष्ट्यै सम्प्राप्त्यै भवति ॥ ५ ॥
अथ सर्वे महाव्रतेन स्तुवीरन्नित्युक्तं पक्षं निरस्य उद्गातैव शिरःप्र-
कृतिकेन सर्वेण स्तोत्रेण स्तुवीतेत्यमुं पक्षं दर्शयति—
अथो खल्वाहुः कथमध्वर्युर्बह्वृचः साम गायेदित्यु-
द्गातैव सर्व्वेणोद्गायेत्तदेव समृद्धं꣡ समृद्धावेव प्रतिति-
ष्ठन्ति ॥ ६ ॥
अध्वर्युर्य्यजुर्वेदाध्यायी मैत्रावरुणोऽपि, बह्वृचः ऋग्वेदाध्यायी, अनि-
त्यं हि तयोः सामाध्ययनं ततः कथं साम गायेतामिति ब्रह्मवादिन आ-
हुः । अथो खल्विति पक्षान्तरपरिग्रहे एवमुक्त्वा तदनन्तरमेव निश्चित-
वन्तः उद्गातैव सर्वेण कृत्स्नेन शिरःप्रभूतिकेन महाव्रतस्तोत्रेणोद्गा-
येत् तदेव समृद्धं, स्वशाखात्वेन सम्यगधीतत्वात् स्वरादिविकल्पा-
भावेन सम्यक् प्रयुक्तत्वात् तदेव स्तोत्रं समृद्धं सम्पूर्णं भवति । तथा
च सत्रणोऽपि समृद्ध्यावेव प्रतिष्ठिता भवन्ति ॥ ६ ॥
अथास्मिन् पक्षे स्तुतिप्रकारमाह—
हविर्द्धाने शिरसा स्तुत्वा स꣡꣢रब्धाः प्रत्यञ्च एयुस्ते
दक्षिणेन धिष्ण्यान् परीत्य पश्चान्मैत्रावरुणस्य धिष्ण्य-