ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 175, कुल 518 में से
संदर्भ में पढ़ेंपञ्चमाध्याये पञ्चमः खण्डः । १५६
तायां प्रस्तूयमानायामुद्गाता पादावुपाहरति भूमेरासन्नं स्थापयति ॥७॥
अथ त्रयाणामप्युद्गातॄणां पादयोर्भूमौ स्थापनकालं विधत्ते--
सह निधनेन प्रतिष्ठामुपयन्त्येष्वेव लोकेषु प्रति-
तिष्ठन्ति ॥ ८ ॥
उत्तमे निधने राजनस्य 'व्वाजीडासु वृहद्वा३४५' इत्यन्तेन सह प्रति-
ष्ठामुपयन्ति भूमौ पादौ प्रतिष्ठापयन्ति । एवं भूमौ स्थापनेन एष्वेव
लोकेषु प्रतिष्ठिता भवन्ति । अत्र बहुवचनेन प्रस्तोतृप्रतिहर्त्रोस्तस्मात्
प्रष्टिरूपादासनात् भूमौ पादप्रतिष्ठापनं कर्त्तव्यमित्यवगम्यते ॥ ८ ॥
अथ प्रसङ्गात् होतुरप्यासनविशेषं विधाय प्रशंसति--
प्रेङ्खामारुह्य होता शꣳसति महस एव तद्रूपं क्रियते ॥९॥
होता प्रेङ्खां दोलामारुह्य तत्रैवासीनो निष्केवल्यं वृहतीसहस्रात्मकं
शस्त्रं शंसति तत्तेन महसस्तेजस एवैश्वर्यरूपमेतत्क्रियते ॥ ९ ॥
कथं प्रेङ्खारोहणेन महसो रूपं कृतं भवति तत्राह—
यदा वै प्रजा मह आविशति प्रेङ्खास्तर्ह्यारोहन्ति ॥ १० ॥
यदा खलु प्रजाः जनान् महस्तेज ऐश्वर्यमाविशति तर्हि तस्मिन्
काले प्रेङ्खा आरोहन्ति ॥ १० ॥
तथाध्वर्योरासनं विधत्ते—
फलकमारुह्याध्वर्युः प्रतिगृणाति ॥ ११ ॥
औदुम्बरफलकमारुह्याध्वर्युः निष्केवल्यं शस्त्रं प्रतिगृणाति ॥११॥
अन्येषामपि ऋत्विजामासनानि विधत्ते—
कूर्च्चानितरेऽध्यासत ऊर्द्धा एव तदुत्क्रामन्तो यन्ति॥१२॥
उक्तेभ्यो येऽन्ये मैत्रावरुणादयस्ते कूर्च्चान् बृसीरध्यासते, तथा
ह्यैतरेयकं 'बृसीर्होत्रकाः समाधिरोहन्ति सत्रह्मका' इति । एवं सर्वेषामृ-
त्विजामूर्द्धोपवेशनात् ऊर्द्धा एव ऊर्द्धाभिमुखा एव सन्त उत्क्रामन्त ऐ-
हिकभोगावसाने स्वर्गं प्रत्युत्क्रामन्तो यन्ति इदानीमुच्चिक्रमिषयैव ते-
ष्वासनेषूपविशन्तीत्यर्थः ॥ १२ ॥
ब्राह्मणश्च शूद्रश्च सत्रिणां प्रशंसनं निन्दनञ्च क्रमेण कुर्य्यातां तदे-
तद्विधत्ते—
अभिगरापगरौ भवतो निन्दत्येनानन्यः प्रान्यः
शꣳसति य एनान्निन्दति पाप्मानमेषाꣳ सोऽपहन्ति यः