ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 185, कुल 518 में से
संदर्भ में पढ़ेंपञ्चमाध्याये सप्तमः खण्डः । १६५
नां स्थाने आसीनः पुरुषः आर्त्तिमार्च्छति कदाचिदपि तस्यार्त्तिर्न भवती-
त्यर्थः। एवं सति यत् स्वर्णिधनमन्वहमनुष्ठितं भवति तेन काञ्चनार्त्तिं-
कामपि हिंसां नैवार्च्छन्ति न प्राप्नुवन्ति ॥ ८ ॥
अस्मिन् स्वर्णिधने किञ्चिद्दोषमाशङ्क्य परिहरति—
च्यवन्ते वा एतेऽस्माल्लोकादित्याहुर्यै स्वर्णिध-
नमुपयन्तीति यदृचा स्वरूपं यन्त्यस्मिँल्लोके प्रति तिष्ठ-
न्ति यदेकारोऽन्तरिक्षे यत्सानामुष्मिन्त्सर्वेषु लोकेषु
प्रति तिष्ठन्ति स्वर्णिधनेन तुष्टुवानाः ॥ ९ ॥
अन्वहं स्वर्णिधनमुपयन्तः सद्य एवैते स्वर्गं गच्छन्ति । अतोऽस्मा-
ल्लोकात् च्यवन्त इत्याहुर्ब्रह्मवादिनस्तस्यायं परिहारः यदृचा स्तोत्री-
यया स्वरूपं यन्ति स्वर्णिधनमुपगच्छन्ति । ऋचि हि स्वर्णिधनं गीयते
तेनास्मिन् लोके प्रतितिष्ठन्ति ऋगात्मको हि भूर्लोकः । एषुवरिति (?)य-
देकारस्तत्र विद्यते तेनान्तरिक्षलोके प्रतितिष्ठन्ति यत् साम्ना स्वर्णिधन-
मुपयन्ति तेनामुष्मिन् स्वर्गे प्रतितिष्ठन्ति । एवं च स्वर्णिधनेन तुष्टुवा-
नाः स्तुवन्तः सत्रिणः सर्वेषु लोकेषु प्रतिष्ठिता भवन्ति ॥ ९ ॥
अथ सुज्ञानं विधत्ते—
सुज्ञानं भवति ॥ १० ॥
स्पष्टोऽर्थः ॥ १० ॥
सोमः पुनान इत्यस्यामुत्पन्नं साम शोभनज्ञानहेतुत्वात् सुज्ञानम् एत-
देव आख्यायिकामुखेन प्रदर्श्य सत्रिणामपि अनेन साम्ना शोभनज्ञान-
प्राप्तिर्भवतीत्याह—
देवा वै स्वर्गँल्लोकं यन्तोऽज्ञानादबिभयुस्त एतत्
सुज्ञानमपश्यँस्तेन ज्ञात्रमगच्छन्यत् सुज्ञानमन्वहं भ-
वति ज्ञात्रमेव गच्छन्ति ॥ ११ ॥
देवाः पुरा स्वर्गे लोकं गच्छन्तः शङ्कमाना अज्ञानादबिभयुः भीता
आसन् तदेतत्सुज्ञानं साम दृष्ट्वा प्रायुञ्जत प्रायुङ्क्त तेन ज्ञात्रं संज्ञा-
नमगच्छन् प्राप्ताः । तथा सति इदानीमपि सत्रे अन्वहं सुज्ञानं क्रियते
इति यत् तेन ज्ञात्रं ज्ञानमेव गच्छन्ति सर्वे यजमानाः ॥ ११ ॥
इति ताण्ड्यमहाब्राह्मणे पञ्चमाध्यायस्य सप्तमः खण्डः ।