ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 174, कुल 518 में से
संदर्भ में पढ़ें१६४ ताण्ड्यमहाब्राह्मणे
र्यासन्द्युपवेशनेन ऊर्जमेव साक्षात्प्राप्नोति । यदुक्तं सूत्रकारेण 'प्रादेश-
शमात्राः पादा अरत्निमात्राणीतराण्यङ्गानी'ति ॥ २ ॥
तदेतद्विधाय प्रशंसति—
प्रादेशमात्री भवत्यस्य लोकस्यानुद्घाताय ॥ ३ ॥
प्रादेशमात्रपादत्वात् प्रादेशमात्री आसन्दी । एवं पादानां ह्रस्वीय-
स्त्वम् अस्य लोकस्य अस्मात् लोकादनुद्घाताय भवति ॥ ३ ॥
अथ तस्यारोहणं विधाय प्रशंसति—
छन्दोभिरारोहति स्वर्गमेव तल्लोकमारोहति ॥ ४ ॥
'गायत्रेण त्वा च्छन्दसारोहामि' त्रैष्टुभेन त्वा च्छन्दसारोहामि, जा-
गतेन त्वा च्छन्दसारोहामि, आनुष्टुभेन त्वा च्छन्दसारोहामि, बैरा-
जेन त्वा च्छन्दसारोहामि' इति वैराजपञ्चमैः गायत्र्यादिभिश्च्छन्दोभिरा-
सन्दीमारोहति । छन्दोविकल्पश्च सूत्रकारेणोक्तः 'चतुर्भिरिति धानञ्ज-
प्यस्त्रिभिः शाण्डिल्य' इति । तत्तेन रोहणेन स्वर्गे लोकमारोहति ॥ ४ ॥
उपावरोहणकाले एतैरेव प्रतिलोमैश्छन्दोभिरुपावरोहणं विधत्ते—
छन्दोभिरुपावरोहत्यस्मिँल्लोके प्रतितिष्ठति ॥ ५ ॥
एतेषामेव छन्दसां प्रतिलोम आरोहण इति गायत्रस्य प्रथमत्वेन
भूर्लोकात्मकत्वात् अस्मिन् लोके पुनः प्रतितिष्ठतीति । तदुक्तं सूत्रकृता
'आहूयमाने भक्षे प्रतिलोमैः आरोहणीयैः अवरुह्य जपेन्मही द्यौः पृथि-
वी चनेति सर्व्वे सह स्तुवीरन्नि'ति । यद्यध्वर्युप्रभृतयः शिरःप्रभृतिभि-
रुद्गानं कुर्युः । तेषामेकैकया स्तोत्रीयान्यया अस्तुतया उद्गाता अभि-
समेयुरिति वक्ष्यति ॥ ५ ॥
उद्गातुस्तासामुद्गानं विधत्ते—
सर्व्वेणात्मना समुद्धृत्योद्गेयमेषु लोकेषु नेद्व्याहितोऽ-
सानीति ॥ ६ ॥
अध्वर्युप्रभृतिभिः परिशोषिताः स्तोत्रीयाः समुद्धृत्य संगृह्य सर्व्वे-
ण स्तोत्रीयेण आत्मना आत्मभूतेन राजनेन उद्गेयमुद्गानं कार्य्यम् एषु
लोकेषु स्थानेषु शिरःप्रभृतिषु नेत् नैव व्याहितोऽन्तरितोऽसानि भवा-
नीति बुध्वा अतः प्रभृतिषु सर्वेषूद्गातृषु स्तुतं भवतीत्यर्थः ॥ ६ ॥
अथोद्गातुरासन्द्याः सकाशात्पादयोरवरोहणं विधत्ते—
एकस्यां स्तोत्रीयायामस्तुतायां पादावुपाहरति ॥ ७ ॥
पञ्चविंशस्तोमस्य राजनस्य एकस्यां स्तोत्रीयायाम् अन्त्यायामस्तु-