सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

शिरःप्रभृतीन्हृदयपर्यन्तानवयवान्क्रमेण स्पृष्ट्वा दर्भाणां महदित्यादिना वक्ष्यमाणेन
सहान्वयः ।
अथाऽऽचमनादीन्प्रशंसति—
यत्त्रिराचा॒मति॒ तेन॒ ऋच॑ः प्रीणाति॒ यद्द्विः परि॑-
मृ॒ज॑ते॒ तेन॒ यजूं॑ᳵषि॒ यत्सकृ॑दुप॒स्पृश॑ति॒ तेन॒
सामा॑नि॒ यत्स॒व्यं पा॒णिं पादौ॒ प्रोक्ष॑ति॒ यच्छिर॒-
श्चक्षु॑षी॒ नासि॑के॒ श्रोत्रे॒ हृदय॒माल॑भते॒ तेनाथ॑र्वा-
ङ्गि॒रसौ॑ ब्राह्म॒णानी॑तिहा॒सान्पु॑रा॒णानि॑ क॒ल्पा-
न्गाथा॑ नारा॒शꣳसीः॑ प्रीणा॒ति— , इति ।
अत्र सव्यपाणिपादयोः प्रोक्षणानुवादादेव प्रोक्षणविधिरुन्नेतव्यः ।
हृदयस्पर्शनोत्तरभाविकर्तव्यं विधत्ते—
दर्भा॑णा

[प्रपा०२अनु०११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १४७

च्चारणेनोपक्रमं कुर्यात् । योऽयमोमित्येवंरूपो यजुर्मन्त्रः स त्रयीं विद्यां प्रति वेदत्र-
यस्य प्रतिनिधिरूपः । अत एव प्रणवगतानामकारोकारमकारमात्राणां वेदत्रयरूपेणाध्य-
यनमाथर्वणिका आमनन्ति—“ तस्य ह वै प्रणवस्य पूर्वा मात्रा पृथिव्यकारः स
ऋग्भिर्ऋग्वेदोऽथ द्वितीयाऽन्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदस्तृतीया द्यौः स मकारः
स सामभिः सामवेदः ” इति । किंचैषा प्रणवरूपा सर्वा वागपि । अत एव च्छन्दोगा
आमनन्ति-“ तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक्संतृष्णा ”
इति । अश्वत्थपत्रे दृश्यमानास्तन्तुसदृशा अवयवाः शङ्कवः, तैर्यथा कृत्स्नानि पर्णानि
व्याप्तानि तद्वदोंकारेण सर्वाऽपि वाग्व्याप्ता । ऐतरेयेऽपि प्रणवादेरकारस्यैव सर्ववाग्व्या-
प्तिमामनन्ति-“ अकारो वै सर्वा वाक्सैषा स्पर्शोष्माभिर्व्यज्यमाना बह्वी नानारूपा भवति ”
इति । अत एव मातृकामन्त्रे सर्वानपि ककारादीन्वर्णानकारशिरस्कानेव पठन्ति । य-
( त )स्माद्युक्तं प्रणवस्य सर्वात्मकत्वम् । किंचैतत्प्रणवस्वरूपमुत्कृष्टमक्षरमविनश्वरं सर्व-
वेदान्तवेद्यं परब्रह्म वस्तु । अत एव पिप्पलादशाखायामधीयते-“ एतद्वै सत्यकाम
परं चापरं च ब्रह्म यदोंकारः ” इति । कठाश्च पठन्ति-“ एतदेवाक्षरं ब्रह्म एतद्दे-
वाक्षरं परम् ” इति । तस्मात्प्रणवेनैव स्वाध्यायप्रारम्भो युक्तः ।
प्रणवप्रशंसापरामृचमवतारयति—
तदे॒तदृचाऽभ्यु॑क्तम्—, इति ।
तदेतत्परब्रह्मस्वरूपं प्रणवाक्षरं कयाचिदृचा स्पष्टमुक्तम् ।
तामृचं दर्शयति—
ऋचो॒ अक्ष॑रे पर॒मे व्यो॑म॒न्यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुर्यस्तन्न
वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सत॒ इति–, इति ।
या एता ऋचस्ताः सर्वाः परम उत्कृष्टे व्योमन्विशेषेण रक्षकेऽक्षरे प्रणवे निषे-
दुराश्रिताः । अत एव कठशाखायामधीयते—
“ सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् ” इति ।
न केवलमृच एव तस्मिन्प्रणवे समाश्रिताः किंतु विश्वे सर्वे देवा अपि यस्मिन्प्र-
णवाक्षरेऽधिनिषेदुः, अधिकत्वेन निष्णाः । अत एवोत्तरतापनीये देवानां परमात्म-
ध्यानार्थं प्रणवपर्यवसानमुक्तम् —“ आत्मानमनुष्ठुभाऽन्विष्य प्रणवेनैव तस्मिन्नवस्थिताः ”


१ क. ख. पूर्वमा॰ । २ ग. ॰रेयास्तु प्र॰ । ३ क. ख. ॰वेन स्वा॰ । ४ ग. ॰णवं प्र॰ ।
५ ग. ॰शंस्याप॰ । ६ क 'ष्ठमन्वि॰ ।

१४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[प्रपा०२अनु०११]
इति । अनेनैव प्रकारेणर्चो देवाश्च यस्मिन्प्रणवे निषेदुस्तत्प्रणवाक्षरं यो न वेद स
पुमानधीयानोऽपि ऋचा किं करिष्यति, न खलु फलरहितां केवलां कृषिं केचि-
त्प्रार्थयन्ते । य इह्ये पुनर्महात्मानस्तत्प्रणवाक्षरं विदुस्ते महर्षय इमे परिदृश्यमानाः
परमहंसाः समासते सम्यगवतिष्ठन्ते । ऐहिकामुष्मिकविषयक्लेशरहिताः सुखिनो वर्तन्ते ।
तांश्च परमहंसाञ्जाबालशाखाध्यायिन उदाहरन्ति—" तत्र परमहंसा नाम संवर्तका-
रुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरतदत्तात्रेयरैवतकप्रभृतयः ” इति । ईत्यनेन मन्त्रेण
प्रशस्तत्वात्प्रणवस्य वेदत्रयप्रतिनिधित्वं युक्तम् ।
तेन प्रणवेन प्रारभ्य पश्चात्पठनीयान्मन्त्रान्दर्शयति—
त्रीने॒व प्रा॒युङ्क्त॑ भूर्भुव॒ः स्वर्वि॒त्या॑है॒तद्वै वाच॒ः
स॒त्यं यद्दे॒व वाच॒ः स॒त्यं तत्प्रा॒युङ्क्त—,इति ।
भूर्भुवः स्वरिति यद्व्याहृतित्रयं तल्लोकत्रयात्मकब्रह्मप्रतिपादकं तदाह पठेत् ।
तेन त्रीनेव वेदान्प्रयुक्तवान्भवति । व्याहृतीनां वेदत्रयसारत्वेन प्रोक्तत्वात् । एतच्च
च्छन्दोगा अधीयते—"स एतां त्रयीं विद्यामभ्यतपत्तस्यास्तप्यमानाया रसान्प्रावृहद्भूरि-
त्यृग्भ्यो भुव इति यजुर्भ्यः स्वरिति सामभ्यः” इति । [ एतद्व्याहृतित्रयं ] वेदत्रयसा-
रत्वेन प्रोक्तत्वाद्वाचः संबन्धि सत्य(त्यं) स्वरूपमित्युच्यते । अतस्तत्सत्यमेव प्रयुक्त-
वान्‍भवति ।
व्याहृतित्रयादूर्ध्वं पठनीयं दर्शयति—
अथ॑ सावि॒त्रीं गा॑य॒त्रीं त्रि॒रन्वा॑ह प॒च्छोऽर्ध॒र्चशोऽन॑वान ३
स॑वि॒ता श्रिय॑ः प्रसवि॒ता श्रिय॑मे॒वाऽऽप्नो॒त्यथो॑ प्र॒ज्ञात॑यैव
प्र॒ति॒पदा॒ छन्दा॑ꣳसि प्रति॑पद्यते ( १ ), इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठक
एकादशोऽनुवाकः ॥ ११ ॥
अथ व्याहृत्यनन्तरं सावित्रीं सवितृदेवताकां गायत्रीच्छन्दस्कां तत्सवितुरित्यादि-
कामृचं च त्रिः पठेत् । तत्रायं प्रकारः । प्रथमं पादशः पादे पादे विरम्य पठेत् ।
ततोऽर्धर्चश एकैकस्मिन्नर्धे विरम्य पठेत् । ततोऽनवानं विरामरहितं यथा भवति
तथा पठेत् । तस्यामृचि प्रतिपाद्यो यः सविता सोऽयं श्रियः प्रेरकः, अतो ब्रह्म-
यज्ञानुष्ठायी श्रियं प्राप्नोत्येव । एवमेकस्मिन्नहनि विधानमुक्तम् । अथो अनन्तरम् ।
१ क. फलरहितां । ग. वृषरहितां । २ क. ख. ॰रतात्रे॰ । ३ ग. इत्याङ्गिरसम' । ४ ख.
॰न वाचः ।

[प्रपा०२अनु०१२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् १४९

तदा¹दिदिवसेषु, प्रज्ञातयैव प्रतिपदा पूर्वस्मिन्दिवसे किंचित्पठित्वा परेद्युरनुष्ठा²ना-
यायमुपक्रम इति या प्रतिपत्प्रज्ञाता यः प्रारम्भप्रदेशो बुद्धौ स्थापितस्तयैव प्रतिपदा
प्रारम्भप्रदेशेन च्छन्दांसि वेदावयवान्परेद्युः प्रतिपद्यते प्रारभते । पूर्वेद्युर्यावद्व्यवसितं
तत एवाऽऽरभ्योत्तरेद्युरधीयीत न तु³ विप्रयुक्तं कांचिद्देवभागम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठक एकादशोऽनुवाकः ॥ ११ ॥
अथ द्वितीयप्रपाठके द्वादशोऽनुवाकः ।
यत्पूर्वमुक्तं प्राच्यां दिशि ग्रामाद्बाहिरित्यादि । तत्राशक्तस्यानुकल्पं विधत्ते—
ग्रामे॒ मन॑सा स्वाध्या॒यम॑धीयी॑त दिवा॒ नक्तं॑ वा—इति ।
यदा बहिर्गन्तुमशक्तो ग्रामेऽधीयते तदा मन⁴सैवाधीयीत । उदित आदित्ये प्रार-
ब्धुमशक्तश्चेद्दिवा नक्तं⁵ वाऽधीयीत ।
कस्यचिन्महर्षेर्मते मुख्य एवायं पक्षोऽपीति दर्शयितुं⁶ तमृषिमुदाहरति--
इति॑ ह॒ स्माऽऽह॒ शौच॒ आह्ने॑यः—, इति ।
शुचिनामकस्य महर्षेः पुत्रः शौर्चः⁷, अहिसंज्ञाताया मातुः पुत्र आह्नेयो मह-
र्षिरिति ह स्माऽऽह ग्रामे मनसेत्यादिकमपि मुख्यपक्षमे(ए)वेत्याह ।
नियमान्तरेष्वेप्यशक्तस्यानुकल्पान्विधत्ते—
उ॒तार॑ण्येऽबल॑ ९ उ॒त वा॒चोत १० तिष्ठ॑न्नुत व्रज॑न्नुताऽऽ-
सी॑न उ॒त शया॑नोऽधीयी॒तैवै स्वा॑ध्या॒यं तप॑स्वी
पु॒ण्यो॑ भवति य ए॒वं वि॒द्वान्त॒त्स्वा॑ध्या॒यमधी॑ते—,इति।
ग्रामे मनसाऽध्ययनमुक्तम्, अरण्येऽप्यबलोऽशक्तश्चेन्मनसाऽधीयीतै । तमेवाबलं ११
प्रत्युत वाचेति पक्षान्तरमुच्यते । उच्चैरध्येतुमशक्तः केवलेन मनसौ, यदा निद्रालस्य-
चिन्तादिकं भवति तदानीं वाचा जिह्वास्पन्दनमात्रेणाधीयीत । दर्भेषूवासीन इति यदुक्तं
तत्राऽऽसननिर्वन्धे १२ शक्तिरहितस्योत व्रजन्नित्यादयः पक्षाः । आलस्यपरिहारायेत-
१ ख. ग. ॰दिवि॑॰ । २ क. ॰ष्ठायी यत उपक्रामते सा प्रतिपत्प्रज्ञातया प्रारम्भप्रदेशेषु
थापितया तयैव । ३ क. ख. तु यं कं॰ । ४ क. ख. ॰नसःऽधी॰ । ५ ख. ग. नक्तमधी॰ । ६ ग.
यितुमेत॑ । ७ क. ख. ॰र्षेः शौ॑॰ । ८ ग ॰चः, इति। अ॑॰ । ९ ख. ग. ॰ब्वश॑॰ । १० घ.
चोदति॑ । ११ ख. ॰त : बलवन्तं प्र॰ । १२ क. ख. ॰सा नि॰ । १३ क. ॰ह्वादिस्प॰ । ख.
ह्वाक्ष्यादिस्प॰ ।

१५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०२अनु०१३]
स्ततः शनैर्व्रजन्वा क्वचिदेव तिष्ठन्वा नियममन्तरेण स्वेच्छयैवोपविश्य वा शयानो वा
शक्त्यनुसारेण स्वाध्यायमधीयीतैव । न त्वङ्गलोपानुसारेण प्रधानस्य लोपो न्याय्यः।
तादृशस्वाध्याययुक्तोऽपि तपस्वी भवति, अध्ययनफलं प्राप्नोति । पुण्यः पङ्क्तिपाव-
नश्च भवति ।
एतस्य ब्रह्मयज्ञस्याङ्गभूतं कंचिन्मन्त्रं प्रदर्शयति—
नमो॒ ब्रह्म॑णे नमो॑ अस्त्व॒ग्नये॒ नमः॑ पृथि॒व्यै नम॒
ओष॑धीभ्यः । नमो॑ वा॒चे नमो॑ वा॒चस्पत॑ये
नमो॒ विष्ण॑वे बृह॒ते क॑रोमि (१), इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके
द्वादशोऽनुवाकः ॥ १२ ॥
ब्रह्मशब्देन वेदः प्रजापतिर्वोच्यते । वाक्शब्देन सरस्वती । वाचस्पतिर्बृहस्पतिः ।
प्रशस्तत्वाद्विष्णुर्बृहत् । अस्य मन्त्रस्य विनियोग उपरिष्टाद्भविष्यति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये द्वितीयप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥
अथ द्वितीये त्रयोदशोऽनुवाकः !
तत्रैव ब्रह्मयज्ञे कंचिदन्यं विशेषं विधत्ते—
म॒ध्यंदि॑ने प्रबलमधीयी॒तासौ खलु॒ वावैष आ॑दि॒त्यो यद्ब्रह्म॑-
ण॒स्तस्मा॒त्तर्हि॑ तेजिष्ठं॑ तप॑ति॒ तदे॒षाऽभ्यु॒क्ता—इति ।
मध्यंदिनकाले प्रबलमुच्चतरं यथा भवति तथाऽधीयीत । योऽयं ब्रह्मयज्ञानुष्ठाता
ब्राह्मणोऽस्ति स एषोऽसौ दिवि दृश्यमान आदित्य एव तत्प्राप्तियोग्यत्वात् । यस्मा-
दादित्यरूपो ब्राह्मणो मध्यंदिने प्रबलमधीयीत तस्मात्तदात्मक आदित्योऽपि तर्हि
मध्यंदिने काले तेजिष्ठमतिशयेन तीक्ष्णं यथा भवति तथा तपति । तदेतदादित्यप्र-
हात्म्यं प्रति काचिदृगभ्युक्ता ।
तामेतामृचं दर्शयति—
चि॒त्रं दे॒वाना॒मुद॑गादनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒
द्यावा॑पृथि॒वी अ॒न्तरि॑क्षꣳ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्चेति,–इति ।
१ क. ख. ॰धीयते त° ।

[प्रपा०२अनु०१३] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १५१
देवानां दीप्यमानानां रश्मीनामनीकं समूहावष्टम्भनरूपमादित्यमण्डलं चित्रं काल-
भेदेनारुणशुक्लादिवर्णोपेतत्वाच्चित्रं तादृशं मण्डलमुदगात्पूर्वस्यां दिश्युदयं२ प्राप्नोत् ।
तच्च मण्डलमन्धकारनिवारणोपयुक्तत्वान्मित्रादीनां चक्षुःस्थानीयम् । तदर्थमेवैायं लोक-
त्रयमाप्रा रश्मिभिरापूर्य वर्तते । तन्मण्डलवर्ती४ सूर्यरूपः परमात्मा जगतो जङ्गमस्य
तस्थुषः स्थावरस्याऽऽत्मा जीवरूपेण शरीरेष्ववस्थितः । इत्यनेन मन्त्रेणाऽऽदित्य-
माहात्म्यमवगन्तव्यम् ।
ब्रह्मयज्ञस्येतरयज्ञवैलक्षण्यं दर्शयति—
स वा ए॒ष य॒ज्ञः स॒द्यः प्र॒ताय॑ते स॒द्यः
संति॑ष्ठते॒ तस्य॑ प्रा॒क्साय॑मव॒भृथः—,इति ।
अयं ब्रह्मयज्ञो यस्मिन्नहनि प्रारभ्यानुष्ठीयते तस्मिन्नेवाहनि समाप्यते नतु यज्ञा-
न्तरवदितरादिनेष्वनुगच्छति तस्मात्प्रातःकाले प्रारब्धस्य तस्य यज्ञस्य सायमव-
भृथः समाप्तिः ।
समाप्तिकाले मन्त्रविशेषं विधत्ते—
नमो॒ ब्रह्म॑ण॒ इति॑ परिधानीयां त्रि॒रन्वा॑ह—,इति ।
परिधीयते समाप्यते यया सेयमृक्परिधानीया । सा चात्र पूर्वानुवाक आम्नाता,
※ नमो ब्रह्मणे इत्येषा, तां त्रिः पठेत् ।
तत्पाठादूर्ध्वं कर्तव्यतां दर्शयति—
अप॒ उप॑स्पृ॒श्य गृ॒हाने॑ति॒ ततो॒ यत्किंच॑
ददा॑ति॒ सा दक्षि॑णा ( १ ), इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके
त्रयोदशोऽनुवाकः ॥ १३ ॥
सेयं दक्षिणा गृह एव न चारण्य इत्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये द्वितीयप्रपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥
═════════════════════════════════
१ ग. ॰मूहनानाम्° । २ ग. ॰मेव लो° । ३ ख. 'बाह लो° । ४ क. ख. ॰र्ती प° ।
॰तवृ° ।

ग्रहणाध्ययने यान्यनध्यायकारणानि॑ तानि ब्रह्मयज्ञाध्ययने स्वाध्यायं न निवारय-
न्तीति वक्तुं तेषामनध्यायकारणानां यज्ञाङ्गत्वमुपचरति—
तस्य॑ वा ए॒तस्य॑ य॒ज्ञस्य॑ मे॒घो ह॒विर्धानं॑ वि॒द्युद॒ग्निर्वर्ष॑ꣳ
ह॒विस्त॑नयि॒त्नूर्वष॑ट्कारो यद॑वस्फू॒र्जति॒ सोऽनु॑वषट्-
कारो वा॒युरा॒त्माऽमा॑वा॒स्या॑ स्वि॒ष्टकृत्—, इति ।
अनध्यायहेतूनापस्तम्बो दर्शयति—विद्युत्स्तनयित्नुर्वृष्टिश्चापतौ यत्र संनिपतेयुस्त्र्यह-
मनध्याय इति । सोऽयमकालमेघो ग्रहणाध्ययने निषिद्धोऽपि ब्रह्मयज्ञाध्ययने
स्वीकार्य एवै । यथा सोमयागे हविर्धानं न यागाविरोधि तथा तत्र मेघोऽपि । एवं
विद्युदादौ द्रष्टव्यम् । अग्निर्ग्रामगृहादिदाहकः । अकाले महानुत्पातरूपो वायुरात्मा
यजमानस्थानीयः । स्पष्टमन्यत् ।
अनध्यायहेतूनां वर्जनीयत्वं निवार्योपादेयत्वं दर्शयति—
य ए॒वं वि॒द्वान्मे॒घे वर्ष॑ति वि॒द्योत॑माने स्तनय॑त्यवस्फू-
र्जति॒ पव॑माने वा॒याव॑मावा॒स्या॑याꣳ स्वाध्या॒यमधी॑ते॒ तर्प॑
ए॒व तत्त्व॑प्यते तपो॑ हि स्वा॒ध्याय॒ इति—, इति ।
मेघादयो विरोधिनो न भवन्तीति यो विद्वान्सोऽयं सत्स्वपि मेघादिनिमित्तेषु
स्वाध्यायमधीते तदा तपस्तप्तं भवति । यस्मादयं ब्रह्मयज्ञः स्वाध्यायः कृच्छ्र-
चान्द्रायणादिवत्तपोरूपस्तस्मान्न सन्त्यनध्यायाः । न हि चान्द्रायणादिकं मेघादिषु वर्ज्य
कदाचिदप्यवर्जनेनानुष्ठितस्य ब्रह्मयज्ञस्य फलं दर्शयति—
उत्त॑मं नाक॑ꣳ रोहत्युत्त॒मः स॑मा॒नानां॑ भवति॒ याव॑न्त॑ꣳ
ह वा इ॒मां वि॒त्तस्य॑ पू॒र्णां दद॑त्स्व॒र्गं लो॒कं जय॑ति
ताव॑न्तं लो॒कं जय॑ति॒ भूया॑ꣳसं चाक्ष॒य्यं चाप॑ पुनर्मृ॒त्युं
जय॑ति॒ ब्रह्म॑णः सायु॑ज्यं गच्छति ( १ ), इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके
चतुर्दशोऽनुवाकः ॥ १४ ॥

१ क. ख. 'नि म° । २ ख. घ. ॰वास्याः स्वि° । ३ ख. 'ब । सो° । ४ ख. तद्वस्तं

An exact, line-by-line transcription of the Sanskrit text with Vedic accents as printed in the image:

प्रपा० २ अनु० १५] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १५३
अनेन ब्रह्मयज्ञेन मरणादूर्ध्वमुत्तमं स्वर्गमारोहति, जीवनवेलायां पङ्क्तिपावनत्वात्स-
मानानां मध्य उत्तमो भवति । उत्तमः स्वर्ग एव प्रपञ्च्यते । वित्तेन पूर्णां पृथिवीं
ब्राह्मणेभ्यो ददत्पुरुषो यावन्तं स्वर्गमनेकभोगोपेतं प्राप्नोति तावन्तमसौ प्राप्नोति ।
ततो भूयांसमधिकमपि प्राप्नोति । अक्षय्यं पुनरावृत्तिरहितं च लोकं प्राप्नोति ।
तस्मादूर्ध्वं पुनर्मृत्युं न प्राप्नोति । किंतु परब्रह्मणः सायुज्यं मोक्षं गच्छति ॥ ˙
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये द्वितीयप्रपाठके चतुर्दशोऽनुवाकः ॥ १४ ॥
अथ द्वितीये पञ्चदशोऽनुवाकः ।
ग्रहेणस्वाध्याये यानि कारणान्यनध्यायस्य तान्यत्रापोद्य कारणान्तरमनध्यायस्य
दर्शयति—
तस्य॒ वा ए॒तस्य॑ य॒ज्ञस्य॒ द्वाव॑न-
ध्या॒यौ यदा॒त्माऽशुचि॒र्यद्दे॑शः—, इति ।
उक्तस्य ब्रह्मयज्ञस्य द्वावनध्यायौ विध्येते । आत्मा ब्रह्मयज्ञस्य कर्ता स्वयमशु-
चिर्यदा भवति तदानीमेकोऽनध्यायः। देशो वा मूत्रपुरीषादिभिरशुचिर्भवति स द्विती-
योऽनध्यायः । न तु कश्चित्तृतीयोऽनध्यायहेतुरस्ति ।
अथ तस्य यज्ञस्य सुलभत्वं दर्शयति—
स॒मृद्धि॑र्दैव॒तानि॑—, इति ।
समृद्धिः सामग्री । सा च यज्ञान्तरेषु द्रव्यार्जनादिना संपाद्यते । इह तु दैवतान्येव
सामग्री न तु बाह्यसाधनं किंचिदपेक्षितमस्ति ।
ब्रह्मयज्ञेन तुष्टेषु दैवतेषु फलं भवत्येव तस्मादेवंभूते कालादिवैकल्यशङ्कां परित्यज्य
ह्यनुष्ठाने फलसिद्धिं दर्शयति—
य ए॒वं वि॒द्वान्म॑हारा॒त्र उ॒षस्युदि॑ते व्रजँ॒स्तिष्ठ॒-
न्न्नासी॑नः॒ शया॑नो॒ऽरण्ये॒ ग्रामे॑ वा॒ याव॑त्त॒रस॑ꣳ
स्वा॒ध्या॒यमधी॑ते॒ सर्वाँ॑ल्लो॒काञ्जय॑ति॒ सर्वाँ॑ल्लो॒का-
न॑नु॒णोऽनु॒संच॑रति॒ तदे॒षाऽभ्यु॑क्ता—, इति ।
अस्य यज्ञ[स्य]निमित्तद्वयव्यतिरेकेणानध्यायकारणं नास्ति सामग्री च न प्रयाससं-
१ क. ॰हणाध्ययने या॑ । २ क. ख. ॰ह दैं । ३ ग. ॰कल्प्यशं ।
२०

पाद्या वि॑द्यंत इत्येवं १ विद्वान्पुमान्कालविषय आसनादिनियमविषये देशविषये च श्रद्धा-
जाड्यं परित्यज्य यावत्तरसं यावद्बलं यथाशक्ति स्वाध्यायमधीयानः स्वापेक्षितान्सर्वां-
ल्लोकान्प्राप्नोति । तत्र तत्र लोके पुरुषान्तरवदृणयुक्तो न भवति, किंत्वनृण एवानुसंच-
रति, तैत्तस्मिन्ननृणस्यानुसंचारे काचिदृक्चोक्ता विद्यते ।
तामेतामृचं दर्शयति—
अनृ॒णा अ॒स्मिन्न॑नृ॒णाः पर॑स्मिंस्तृ॒तीये॑ लो॒के
अ॑नृणाः स्याम॑ । ये दे॑व॒याना॑ उ॒त पि॑तृ॒याणाः॑
सर्वा॑न्प॒थो अ॑नृ॒णा आक्षी॑ये॒मेति॑—, इति ।
अस्मिन्भूलोके परस्मिन्नन्तरिक्षे तृतीये द्युलोके च, ब्रह्मयज्ञबलादनृणाः स्याम
ऋणेऽपाकृते सति देवयानाः पन्थान उत्तरमार्गविशेषाः पितृयाणाः पन्थानो दक्षिण
मार्गविशेषा ऋणाभावेन प्रतिबन्धाभावात्सर्वानपि मार्गान्सर्वतः प्राप्नुयाम । ऋषीणां
मृणं ब्रह्मयज्ञेनापोद्यत इति तावत्सर्वेषां संमतम् । देवपितृकार्ययोरसमर्थस्य तदुभयविषय
मप्युणमनेनैवापोद्यते ।
अत एव स्मर्यते—
“जप्येनेव तु संसिद्ध्येद्ब्राह्मणो नात्र संशयः ।
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते” इति ॥
ततः सर्वा॑न्प॒थो अ॑नृणा आक्षी॑ये॒मेत्येतदुपपन्नम् ।
तदेतदनृणत्वं संभावयितुं पापस्पर्शराहित्येन स्वाध्यायं प्रशंसति—
अ॒ग्निं वै जा॒तं पाप्मा ज॑ग्राह॒ तं दे॒वा आहु॑तीभिः पा॒प्मान॒म-
पा॑घ्नन्नाहु॑तीनां य॒ज्ञेन॑ य॒ज्ञस्य॑ दक्षि॑णाभिर्दक्षि॑णानां ब्राह्म॑-
णेन॑ ब्राह्म॒णस्य॑ छन्दे॑भिश्छ

[प्रपा०२अनु०१९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १५५
प्रविशति, तथा शोधनीयवस्तुगतः पाप्मा शोधकेऽग्नौ प्रविष्टः । तमाग्निगतं पापं(प्मानं)
देवा आहुतिभिर्विनाशितवन्तः । तदाहुतिगतं पापं कृत्स्नं यज्ञेन, यज्ञगतं च पापं
दक्षिणाभिः, दक्षिणागतं च पापं प्रतिग्रहीत्रा ब्राह्मणेन, ब्राह्मणगतं च पापं तत्त-
न्मन्त्रगतैर्गाथ्यादिच्छन्दोभिः, छन्दोगतं च पापं स्वकीयशाखारूपेण स्वाध्यायेन ।
न चौत्र स्वाध्यायगतस्य पाप्मनो निवर्तकान्तरमन्वेष्टव्यम् । यस्मादपहतपाप्मा स्वाध्यायः,
न खलु कश्चिदपि पाप्मा स्वाध्यायं स्प्रष्टुमीष्टे । यस्मादेतत्स्वाध्यायस्वरूपं देवानापि
शोधकम्, देवा हि पूर्वस्मिञ्जन्मनि मनुष्या भूत्वा स्वाध्यायमधीत्य तदर्थं चानुष्ठाय शुद्धाः
सन्तो देवत्वं प्राप्ताः, [ तस्मात् ] तमीदृशं

कारादिश्रवणेन वृथायुःक्षयमन्तरेण कंचित्पुरुषार्थं पश्यामः । अत एव वाजसनेयिनः
समामनन्ति—“ नानुध्यायाद्बहूञ्शब्दान्वाचो विग्लापनं हि तत् ” इति । वेदव्यतिरि-
क्तस्य शब्दजालस्य कण्ठशोषमात्रपर्यवसायित्वमेवोपपाद्यते । यस्मादयं वेदत्यागी
सुकृतस्य पन्थां पुण्यानुष्ठानमार्गं न जानाति तस्मात्कण्ठशोषमात्रपर्यवसानम् ।
द्विविधं हि पुरुषेणार्थ्यते, ऐहिकजीवनमामुष्मिकौ च भोगमोक्षौ । तत्र जीवनस्य
कौव्यादेरपि कृषिवाणिज्यादिकर्मि(देरि)वै भवेत्साधनैत्वम् । आमुष्मिकमार्गं तु वेदम-
न्तरेण सर्वतो न जानाति । अतः शास्त्रान्तराणि शृण्वतः कण्ठशौष एव परिशिष्यते
न केवलं सुकृतज्ञानमात्राभावः प्रत्युत दुरितं च महत्संपद्यते ।
अत एव मनुना स्मर्यते—
“योऽनधीत्य द्विजो वेदानन्यत्र कुरुते मतिम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः” इति ।
इत्थं स्वाध्यायपरित्यागे बाधं दर्शयित्वा तदनुष्ठाने श्रेयो दर्शयति—
तस्मा॑त्स्वाध्यायोऽध्ये॑तव्यो॒ यं यं॒ क्रतु॑म-
धी॒ते तेनं॑ तेना॒स्येष्टं भ॑वत्य॒ग्नेर्वायोरा॑दि॒त्यस्य॑
सायु॑ज्यं गच्छति तदे॒षाऽभ्युक्ता—,इति ।
यस्मात्स्वाध्यायव्यतिरेकेण सुकृतमार्गो न ज्ञायते तस्मात्स्वाध्यायोऽध्येतव्यः,
ग्रहणाध्ययनं ब्रह्मयज्ञाध्ययनं च कर्तव्यम् । तच्चोभयं परमपुरुषार्थसाधनमित्युपनिषदि
बहूनामृषीणां मतभेदोपन्यासप्रसङ्गेन विस्पष्टमाम्नातम्—स्वाध्यायप्रवचने एवेति नाको
मौद्गल्यः, तद्धि तपस्तद्धि तप इति । सत्यवदनमेव परमपुरुषार्थसाधनमिति राथींत-
रस्य मतम् । कृच्छ्रचान्द्रायणादिरूपं तप एव तत्साधनमिति पौरिशिष्टेर्मतम् । मौद्ग-
ल्यस्त्वत्यन्तरहस्यदर्शी रहस्यार्थत्वात्तदेतदुभयमुवाच । तत्र ग्रहणार्थमध्ययनं[स्वाध्यायः]
गृहीतस्य वेदस्य प्रकर्षेण प्रतिदिनं ब्रह्मयज्ञरूपेण वचनं प्रवचनम् । उभे एवोत्तमे पुरु-
षार्थसाधने सत्यादीनामर्थात्सिद्धत्वात् । यो हि निरन्तरं स्वाध्यायं पठति तस्यानृत-
वदने कः प्रसङ्गः । तपोऽप्यर्थात्सिद्धं निषिद्धविषयप्रवणानामिन्द्रियाणां बलक्षयद्वारे-
णोद्धतत्वं वारयितुं कृच्छ्रचान्द्रायणादिना शरीरशोषैरूपं तपः क्रियते । स्वाध्यायप-
रस्य तु विषयमात्रचिन्तैव नास्ति कुतो दुष्टविषयेषु प्रवृत्तिः ।
१ क. ख. ॰धं पुं॑ । २ ख. काव्या॑दि॑ । ग कार्ष्यादे॑ । ३ क. ॰पि वा॑ । ४ ग. ॰क॑मेव ।
५ ख. ग. ॰व महत्सा॑ । ६ ख. ग. ॰नम् । ७ ॰शोषा ए॑ । ८ ख. ॰ष्ट्यन्ते । न । ९ ख. ब्रह्म-
ध्याय॑ । ग. ब्रह्माध्य॑ । १० ग. ॰म् । एत॑ । ११ ग. ॰थित्वेन सा॑ । १२ ग. राथान्त॑ ।
१३ क. ख. ॰र्शी तदे॑ । १४ क. ॰षणरू॑ । १५ क. ॰ये पुरुषष्ट्॑ । ख. ॰ये पुरुषध॑ ।

[प्रपा०२अनु० १६] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १५७
तच्चिन्तापूर्वकत्वं प्रवृत्तेर्भगवतोक्तम्—
“ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते ।
सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते ॥
क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः ।
स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति” इति ॥
विषयध्याननिवृत्त्यर्थमेव चित्तवृत्तिनिरोधरूपं योगं वक्तुं कृत्स्नं योगशास्त्रं प्रवृ-
त्तम् । सा च विषयध्याननिवृत्तिः स्वाध्यायनिरतस्याप्रयासेनैव सिद्धा । तत्र
किमनेन योगशास्त्रेण कृच्छ्रचान्द्रायणादिना तपसा वा ।
अत एवाभिज्ञा आहुः—
“अर्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत् ।
इष्टस्यार्थस्य संसिद्धौ को विद्वान्यत्नमाचरेत्” इति ॥
एतत्सर्वमभिप्रेत्य मौद्गल्यस्तद्धि तपस्तद्धि तप इति प्रसिद्धिवाचकेन हिशब्देन वीप्सया
च स्वाध्यायप्रवचनयोरत्यादरं दर्शयति । न च स्वाध्यायपाठमात्रेण यागानुष्ठानाभा-
वान्न पुरुषार्थ इति शङ्कनीयम् । अयमध्येताऽग्निष्टोमेवाजपेयराजसूयाश्वमेधादीनां मध्ये
यं यं क्रतुं साङ्गमधीते, अस्याध्येतुः पुरुषस्य तेन तेन क्रतुनेष्टं भवति । त्रिविधो
हि यागः । कायिको वाचिको मानसश्चेति, तत्राध्येतुर्वाचिकस्य निष्पत्तौ नास्त्येव
विवादः । यद्यध्येताऽर्थमपि जानाति तदाऽध्ययनकाले तदनुसंधानान्मानसोऽपि
निष्पद्यते । कायिकश्चेन्नास्ति माऽस्तु नाम द्रव्यार्जनरहितस्याधिकाराभावात् । यस्य
त्वधिकारः कायिकमप्यसौ करोत्वितरस्य तु वाचिकेनैव तत्फलं लभ्यते । तस्मादय-
मध्येताऽग्न्यादीनां सायुज्यं गच्छति । तत्तस्मिन्वेदविदो माहात्म्ये काचिदृगभ्युक्ता ।
तामेतामृचं दर्शयति—
ये अ॒र्वाङ्ङुत वा॑ पु॒राणे वेदं॑ वि॒द्वांस॑मभि॒तो वद॑न्त्यादि॒त्यमे॒व ते
परि॑वदन्ति॒ सर्वै॑ अ॒ग्निं द्वि॒तीयं॑ तृ॒तीयं॑ च ह॒ꣳसमिति॑--,इति ।
अर्वाङर्वाचीनमिदानींतनमनुष्यमध्येतृरूपम् , उत वा पुराणेऽथवा पुरातनं व्यासवै-
शिष्ठादिरूपम् । वेदं विद्वांसं पाठादर्थाच्च वेदतत्त्वाभिज्ञं महात्मानम् । ये मूर्खा
अभितो वदन्ति तत्र तत्र निन्दन्ति ते मूर्खाः सर्वेऽप्यादित्यमेव निन्दन्ति । ततो
द्वितीयमग्निं निन्दन्ति । ततस्तृतीयं हंसं गमनशीलं वायुं निन्दन्ति । अस्य वेद-
१ क. ख. प्रकृतेर्भ॑ । २ ख. ग. ण योगा० । ३ क. ख. ॰मरा० । ४ ग. ऋतुभागम० ।
५ क. ॰नसिकश्चे० । ६ ग. ॰कस्य नास्ति । ७ ख. त्वस्त्वगृधे० । ८ ग. ॰रोतीत० । ९ ग.
॰वरिष्ठं० ।

विदोऽग्निवाय्वादित्यसायुज्ययोग्यत्वादेतन्निन्दैव तेषां निन्दा, इत्यनेनैव मन्त्रेणोक्थ्यादि-
रूपत्वलक्षणं वेदविन्माहात्म्यं दर्शितम् ।
अस्य मन्त्रस्य तात्पर्यं दर्शयति—
याव॑ती॒र्वै दे॒वता॒स्ताः सर्वा॑ वेद॒विदि॑ ब्रा॒ह्म॒णे व॑सन्ति
तस्मा॑द्ब्राह्म॒णेभ्यो॑ वेद॒विद्भ्यो॑ दि॒वे दि॑वे॒ नम॑स्कुर्यान्ना-
श्ली॒लं की॑र्तयेदे॒ता ए॒व दे॒वताः॑ प्रीणाति ( १ ), इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके
पञ्चदशोऽनुवाकः ॥ १५ ॥
अग्निरवमो देवतानां विष्णुः परम इत्युक्तत्वादग्निप्रभृतयो विष्णुपर्यन्ता यावत्यो
देवताः सन्ति ताः सर्वाः पाठतोऽर्थतश्च वेदविदि ब्राह्मणे वसन्ति । एकैकस्मिन्मन्त्र
ऐकैको देवः प्रतिपाद्यते । ते च मन्त्राः सर्वेऽध्येतुर्वाचि वेदितुर्मनसि च वर्तन्ते, अतो
वेदविदां ब्राह्मणानां सर्वदेवतात्मकत्वात्तेभ्यः प्रतिदिनं नमस्कुर्यात् । अश्लीलं तदी-
यमशुभं किमपि विद्यमानमविद्यमानं वा न कीर्तयेत्। एतेन वेदविदो ब्राह्मणस्य सत्कारेण
सर्वा अप्येता देवताः परितोषयति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये द्वितीयप्रपाठके पञ्चदशोऽनुवाकः ॥ १५ ॥
अथ द्वितीये षोडशोऽनुवाकः।
अथ कस्यचिदयाज्यस्य याजने तथा कस्यचिदयोग्यस्य पुरुषस्य द्रव्यप्रतिग्रहे
प्रायश्चित्तत्वेन स्वाध्यायं विधत्ते—
रि॒च्यत॑ इव॒ वा ए॒ष प्रेव॑ रिच्यते॒ यो या॒जय॑ति
प्रति॑ वा गृह्णाति॑ याज॒यित्वा॑ प्रतिगृह्य वाऽन॑-
श्नन् स्वा॒ध्यायं॒ वेदम॑धीयीत---, इति ।
यः पुमान्स्वयमापद्रहितोऽपि द्रव्यलोभादयाज्यं याजयति निषिद्धं द्रव्यं
प्रतिगृह्णाति स पुमानिह लोके रिच्यत इव कीर्तिशून्य इव भवति । अहो दुरात्मा-
यमेवं धनिकोऽपि सन्द्रव्यलोभादन्यायं करोतीति सर्वे जनास्तं निन्दन्ति तदिदमुि-


१ ग. ॰णाऽऽदित्यादि॰ । २ ग. एको । ३ ग. ॰र्वाच्यध्येतु॰ ।

[प्रपा० २ अनु० १७] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १६५
लोके रिक्तत्वम् । तथा प्रेव रिच्यते परलोकेऽपि प्रकर्षेण रिक्त इव भवति, पुण्य-
लोकाभाव एव रिक्तत्वम् । याजनप्रतिग्रहयोर्जीविकारूपेण शास्त्रेऽभ्युपगतत्वान्निषि-
द्धयाजनप्रतिग्रहविषयमिदं द्रष्टव्यम् । अतो द्रव्यलोभाद्याजयित्वा प्रतिगृह्य वा¹
भोजन²रहितस्त्रिवारं स्वशाखाध्ययनरूपं वेदं जपेत् ।
तत्राशक्तस्य पक्षान्तरमाह—
त्रि॒रा॒त्रं वा॑ सावि॒त्रीं गा॑य॒त्रीम॒न्वाति॑रेचयति³—, इति ।
गायत्रीच्छन्दस्कां सवितृदेवताकां तत्सवितुर्वरेण्यमित्येतामृचं भोजनरहितो दिन-
त्रयमनुष्ठाय रेचयति, पूर्वोक्तप्रकारेण रिक्तं स्वात्मानमरिक्तं करोति । अपकीर्तिं
पुण्यक्षयं च निवर्तयेदित्यर्थः ।
पक्षद्वयेऽपि दक्षिणां विधत्ते—
व॒रो दक्षि॑णा वरे॑णै॒व वर॑ꣳ स्पृणोत्या॒त्मा हि वर॑: (१), इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके
षोडशोऽनुवाकः ॥ १६ ॥
गौर्वै वर इति सूत्रकारेणोक्तत्वाद्वौरेव दक्षिणा, वरेण श्रेष्ठेन गोद्रव्येण वरं श्रेष्ठं
ब्राह्मणं स्पृणोति प्रीणयति । यस्माद्वरो गौरात्मैव तस्मात्स्वेन समानत्वास्या दक्षि-
णया स्वात्मानमेव दत्तवानिति कृत्वा तत्पापनिवृत्तिर्युक्ता ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके षोडशोऽनुवाकः ॥ १६ ॥
━━━━━━━━━━━━━━━━
अथ द्वितीये सप्तदशोऽनुवाकः ।
━━━━━━━━━━━━━━━━
पूर्वमनापदि दुष्टयाजनस्य प्रायश्चित्तमुक्तम् । इदानीमापदि तद्याजनस्य पूर्वस्मादल्पं
प्रायश्चित्तं विधत्ते—
दु॒हे ह॒वा ए॒ष छन्दा॑ꣳसि यो या॒जय॑ति
स येन॑ य॒ज्ञक्रतुना॑ या॒जये॒त्सोऽर॑ण्यं पँ⁴रेत्य॑
शुचौ दे॒शे स्वा॑ध्या॒यमे॒वैन॑म॒धीय॑न्नासीत॑—, इति ।
यः पुमाँ⁵न्धनाभावे जीवनाभावात्प्राणरक्षणाययाज्यमपि पुरुषं याजयेत् । एतच्च
१ ग. वाऽनश्नन्भोजं । २ ग. ॰हितः स्वाध्यायं त्रिवा॑ । ३ ग. ॰ति । पू॑ । ४ ग.
परीत्य । ५ क. -ख. ॰मान्प्राण॑ ।

वाजसनेयके दर्शितम्- “प्राणस्य वै सम्राट्‌कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रति-
गृह्णाति” इति । ईदृशः पुमांश्छन्दाꣳसि दुहे स्वकीयान्मन्त्रान्रिक्ती करोति फलरहितान्क-
रोति । तत्परिहारार्थं येन यज्ञक्रतुना याजितवानेनेव क्रतुभागं स्वाध्यायं स पुमा-
नरण्ये गत्वा पठन्नासीत, तेन प्रायश्चित्तं संपाद्यते ।
तत्संभावनार्थं ध्यानार्थं वा तत्र यज्ञावयवान्संपादयति—
त॒स्यान॑शनं दी॒क्षा स्थान॒मुप॒सद् आ॒संन्ꣳ सु॒त्या वाग्जु॒हूर्मन॑
उप॒भृच्चक्षु॑र्ध्रु॒वा प्रा॒णो ह॒विः सामा॑ध्व॒र्युः स वा ए॒ष य॒ज्ञः
प्रा॒णद॑क्षिणोऽन॑न्तदक्षिणः समृ॑द्ध्यतरः ( १ ), इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके
सप्तदशोऽनुवाकः ॥ १७ ॥
तस्य प्रायश्चित्तार्थं वेदभागमध्येतुः पुरुषस्य तावत् किल यो भोजनपरित्यागः सैव
दीक्षा । यदेतच्छुद्धदेशरूपं स्थानं ता एवोपसदः, यत्तत्रोपवेशनं सैव सुत्या सोमा-
भिषवः, येयमस्य वाक्सेयं जुहूः, यन्मनः सैवोपभृत्, या धृतिरनुष्ठेयार्थावधारणा
सैव ध्रुवा, यः प्राणस्तदेव हविः, यत्साम गीयमानं स एवाध्वर्युः । सोऽयं
भावनारूपो यज्ञः प्राणदक्षिणः, देहान्ते प्राणपरित्याग एव दक्षिणास्थानीयः, अतोऽ-
नन्तदक्षिणत्वादयं यज्ञोऽतिशयेन समृद्धः । उक्तयज्ञसमाप्तौ प्रभूतमन्नं देयमिति
तात्पर्यार्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदी-
यतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके सप्तदशोऽनुवाकः ॥ १७ ॥
अथ द्वितीयेऽष्टादशोऽनुवाकः ।
प्रायश्चित्तार्थस्वाध्यायप्रसङ्गादवकीर्णिप्रायश्चित्तमुच्यते । तद्विधानार्थमादौ प्रस्तौति—
क॒ति॒धाऽव॑की॒र्णी प्र॑वि॒शति॒ चतु॑र्धेत्या॑हु॒र्ब्रह्म॑वा॒-
दिनो॑ म॒रुतः॑ प्रा॒णैरिन्द्रं॒ बले॑न॒ बृह॒स्पतिं॑ ब्रह्मवर्च॒-
सेना॒ग्निमे॒वेतरे॑ण॒ सर्वे॑ण तस्यै॒तां प्रा॑य॒श्चित्तिं॑
वि॒दांच॑कार सु॒देवः॑ कांश्य॒पः—, इति॑ ।
१ ग. °कामेभ्य अयाज्यं । २ क. ˚हे तदीया˚ । ३ क. ग. गायनं ।

[प्रपा०२अनु०१८] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १६१
अवकीर्णं भग्नव्रतं ब्रह्मचारिणो रेतःस्कन्दनादिकं तद्यस्यास्ति सोऽवकीर्णी, तादृशः
पुमान्स्वकीयैरेवावयवैर्देवान्प्रविशति देवास्तदीयानवयवान्विनाशयन्ति, तत्र कतिभिः
प्रकारैर्देवान्प्रविशतीत्येवमनभिज्ञस्य प्रश्नः । तत्राभिज्ञा ब्रह्मवादिनश्चतुर्भिः प्रका-
रैरित्युत्तरमाहुः । त एव प्रकाराः स्पष्टी क्रियन्ते—स्वकीयैः प्राणैर्मरुतो देवान्प्रवि-
शति । बलेनेन्द्रं प्रविशति । ब्रह्मवर्चसेन बृहस्पतिं प्रविशति । इतरेण सर्वेण
वागादिनाऽग्निमेव प्रविशति । मरुदादयोऽस्य प्राणानपहरन्तीत्यर्थः । कश्यपस्य पुत्रः
सुदेवाख्यः कश्चिदृषिस्तस्यैतस्य दोषस्य प्रायश्चित्तं निश्चितवान् ।
तदिदं प्रायश्चित्तं विधत्ते—
यो ब्र॑ह्मचार्यवकि॒रे

१६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा०२अनु०१९]
अनेनोपस्थानेन पूर्वोक्तदोषसमाधानं दर्शयति—
प्रति॑ हास्मै म॒रुतः॑ प्रा॒णान्द॑धति॒ प्रतीन्द्रो॒ बलं॒ प्रति॒ बृह॒स्पति॒र्ब्र-
ह्मव॒र्चसं प्रत्य॒ग्निरित॑रः सर्व॒ꣳ सर्व॑तनुर्भू॒त्वा सर्व॒मायु॑रेति,—इति ।
अस्मै यजमानार्थं मरुतो देवाः प्राणान्प्रतिदधाति प्रतिष्ठापयन्ति । एवमिन्द्राद-
योऽपि । ततोऽयं सर्वतनुः संपूर्णसर्वावयवो भूत्वा संपूर्णमायुः प्राप्नोति ।
अभिमन्त्रणस्याऽऽवृत्तिं विधत्ते—
त्रि॑रभिम॑न्त्रयेत त्रिष॑त्या॒ हि दे॒वाः,—इति ।
त्रिवारानुष्ठाने सत्यमिदं न तु कपटरूपमिति विश्वासो येषां देवानां ते त्रिषत्याः।
उक्तं प्रायश्चित्तं पापान्तरेऽप्यतिदिशति—
योऽपूत॑ इव॒ मन्ये॑त॒ स इ॒त्थं जु॑हुयादित्थ॒मभि॑मन्त्रयेत
पुनी॑त ए॒वाऽऽत्मा॑न॒मायु॑रे॒वाऽऽत्मन्ध॑त्ते,—इति ।
निश्चितस्यावकरस्याभावे कस्यापि पापस्य संभावनयाऽहमपूत इति यः शङ्कते
सोऽपि पूर्वोक्तहोमाभिमन्त्रणे कुर्यात् । स पुमान्स्वात्मानं शोधयित्वा स्वात्मनि सर्व-
मायुः संपादयति ।
तत्रोभयत्र दक्षिणां विधत्ते—
वरो॒ दक्षि॑णा॒ वरे॑णैव॒ वर॒ꣳ स्पृ॑णोत्या॒त्मा हि वरः॑ (१), इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठ-
केऽष्टादशोऽनुवाकः ॥ १८ ॥
पूर्ववदुच्चारूयेयम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये द्वितीयप्रपाठकेऽष्टादशोऽनुवाकः ॥ १८ ॥
अथ द्वितीय एकोनविंशोऽनुवाकः ।
इदानीं सर्वयागारम्भेषवायुष्करं ब्रह्मोपस्थानं विधित्सुस्तन्मन्त्रमाह । अथवा सा-
कालीनसंध्यावन्दनादूर्ध्वं ध्रुवमण्डले परब्रह्मोपस्थानार्थं मन्त्रमाह—
भूः प्रप॑द्ये॒ भुवः॑ प्रप॑द्ये॒ स्वः॑ प्रप॑द्ये॒ भूर्भुवः॒ स्वः॑
१ क. ‘यितुं स्वा° ।

[प्र० २ अनु० १९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १६३
प्रपद्ये॒ ब्रह्म॑ प्रपद्ये॒ ब्रह्म॑कोशं॒ प्रप॑द्ये॒ऽमृतं॑ प्रपद्ये॒ऽमृत॑कोशं॒
प्रप॑द्ये चतुर्जालं॒ ब्रह्म॑कोशं॒ यं मृत्युर्नावि॑पश्य॑ति॒ तं
प्रप॑द्ये दे॒वान्प्रप॑द्ये दे॒वपुरं॑ प्रपद्ये॒ परी॑वृतो॒ वरी॑वृतो॒
ब्रह्म॑णा॒ वर्म॑णा॒ऽहं तेज॑सा क॒श्यप॑स्य॒, —इति ।
य एते पृथिव्यादयस्त्रयो लोका यश्चैषां लोकानां संघस्तत्सर्वं प्रपद्ये प्राप्नोमि
ब्रह्मशब्देन चतुर्मुखस्य शरीरमुच्यते । तस्य कोशस्थानीयो ब्रह्मलोकः । अमृतशब्देन
विरात्कारणभूतः सूत्रात्मोच्यते, तस्य कोशस्थानीयमव्यक्तम् । एतच्चतुर्विधं प्रपद्ये
भजामीत्यर्थः । चतुर्जालं चतुर्विधा अन्नमयप्राणमयमनोमयविज्ञानमयाः कोशा जाल-
वदावरका यस्य पञ्चमकोशस्य तं चतुर्जालं परब्रह्मणः कोशं यमानन्दमयं मृत्युर्नाव-
पश्यति नहि तस्य कारणरूपस्य कार्यवद्विनाशोऽस्ति, तादृशं कोशमहं प्रपद्ये । देवा-
न्निन्द्रादीन्, तेषां पुरं देवपुरं च प्रपद्ये । अहं तेन ब्रह्मणा वर्मणा कवचरूपेण पर-
मात्मना परीवृतः परितो वेष्टितो वरीवृतः पुनः पुनर्वेष्टितस्तथा कश्यपस्य तेजसा
कश्यपस्य प्रेक्षकस्य कश्यपः पश्यको भवतीति न्यायेन सर्वसाक्षिण ईश्वरस्य तेजसा
परिवृतः । अहमीदृशो रक्षकोऽयं ब्रह्मा तदुपस्थानेन मृत्युं तरामीत्यर्थः ।
ब्रह्मोपस्थानकाले सर्वात्मकस्य परमेश्वरस्य शिशुमाराख्यजलग्र ( ग्रा ? ) हरूपत्वं
ध्यानार्थं दर्शयति—
यस्मै॒ नम॑स्तच्छिरो॒ धर्मो॑ मूर्धानं॒ ब्रह्मोत्त॑रा ह॒नुर्य॒ज्ञोऽ-
ध॑रा विष्ण॑र्हृद॑यं५ संव॑त्सरः॒ प्रज॑न॑नम॒श्विनौ॑ पूर्वपादा॑-
वत्रि॒र्मध्यं॑ मित्रावरु॑णावपरपादा॑व॒ग्निः पु॒च्छस्य॑ प्रथ॒मं
काण्डं॑ तत इन्द्रस्ततः॑ प्र॒जाप॑तिर॒भयं॑ चतुर्थ॑म्५—, इति ।
यस्मै परब्रह्मणे नमः सर्वैर्नमस्कारः क्रियते तत्परं ब्रह्मात्र शिशुमाराख्यध्यात-
व्यस्य जलग्राहस्य शिर उत्तमाङ्गस्थानम् । योऽयमनुष्ठेयो धर्मः स मूर्धानं मूर्धस्था-
नीयः, शिरसो मूर्ध्नश्चैकस्मिन्नेवाऽऽयतने ऊर्ध्वाधोभागभेदेन भिदा । योऽयं चतुर्मुखो
ब्रह्मा सोऽयं तस्य प्र ( ग्रा ? ) हस्योत्तरा हनुः । यो यज्ञः सोऽधरा हनुः । यो
विष्णुः सोऽयं हृदयस्थानीयः । यः संवत्सरः सोऽयं प्रजननेन्द्रियस्थानीयः । याव-
१ ग. °मि । ब्रह्म प्रपद्ये ब्रह्मकोशं प्रपद्येऽमृतं प्रपद्येऽमृतकोशं प्रपद्ये । ब्र° । २ ख. म.
कोशः स्थानं जनलो° । ३ ग. °भूतं सू° । ४ ग. °आत्मरूपमुच्य° । ५ ख. ग. कोशः स्थानम° ।
६ क. °द्ये प्राप्नोमी° । ७ क. ग. जलग्रहस्य ।

१६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [प्रपा०२अनु०१९]
श्विनौ तौ तस्य ग्र ( ग्रा ? ) हस्य पूर्वपादौ । योऽयमत्रिमुनिः सोऽयं मध्यशरीरम् ।
यौ मित्रावरुणौ देवौ तावपरपादौ । शिशुमारस्य पुच्छे बहवो भागाः । तत्राग्निः
पुच्छस्य प्रथमं काण्डं प्रथमो भागः, ततस्तदूर्ध्वमिन्द्रो द्वितीयो भागः, ततोऽप्यूर्ध्वं
प्रजापतिस्तृतीयो भागः, ततोऽपि परतोऽभयं भयरहितं परं ब्रह्म चतुर्थो भागः ।
एवं ध्यातव्यानवयवान्संपाद्यावयविनं दर्शयति—
स वा ए॒ष दि॒व्यः शां॒करः॑ शि॒शुमा॑रस्त५ ह॒,—इति ।
यस्मै नमस्तच्छिर इत्यादिनाऽभयं चतुर्थमित्यन्तेन वाक्येन योऽयं निरूपितः स
एष दिव्यो दिवि भवः, शाकरोऽत्यन्तशक्तिमान् शिशून्मारयति मुखेन निगिरतीति
शिशुमारो जलग्र(ग्रा)हविशेषः, स हि जलमध्येऽत्यन्तविवृतेन मुखेन मनुष्यान्गृ-
ह्णातीति ।
एवं ध्यातव्यो ग्र(ग्रा?)हो निरूपितः, तद्ध्यानं तत्फलं च दर्शयति—
य ए॒वं वेदाप॑ पुनर्मृ॒त्युं ज॑यति॒ जय॑ति स्व॒र्गं लो॒कं
नाध्व॑नि प्रमी॑यते॒ नाग्नौ प्रमी॑यते॒ नाप्सु प्रमी॑-
यते॒ नानप॑त्यः प्रमी॑यते॒ लघ्वा॑न्नो भवति,—इति ।
यः पुमाँन्दिव्यं शिशुमारं वेद मनसा ध्यायति स पुनरपमृत्युं जयति मार्गादि-
मरणरूपोऽपमृत्युविशेषश्च न भवति, दुर्मरणं तस्य न भवतीत्यर्थः । [ लध्वाश्नो ]
लब्धान्नः सर्वत्र सुलभान्नो भवति ।
अथ ध्यानानन्तरमनुमन्त्रणमाह—
ध्रु॒वस्त्वम॑सि ध्रु॒वस्य॑ क्षि॒तम॑सि॒ त्वं भू॒ताना॒मधि॑पतिरसि
त्वं भू॒तानाँ॒ श्रेष्ठो॑ऽसि॒ त्वां भू॒तान्यु॑प॒पर्य्याव॑र्तन्ते॒ नम॑स्ते
नमः॒ सर्वै॑ ते॒ नमो॒ नम॑ः ⁕शिशुकुमाराय नम॑ः(१) इति ॥
इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके द्वितीयप्रपाठक
एकोनविंशोऽनुवाकः ॥ १९ ॥
अनेन मन्त्रेणोदङ्मुखो भूत्वा ध्रुवमण्डलं पश्यञ्शिशुमाररूपेण तमुपतिष्ठेत(त) । हे
शिशुमार त्वं ध्रुवोऽसि विनाशरहितोऽसि । तथा ध्रुवस्य जगत आकाशादेः क्षितं
⁕ ग पुस्तके टिप्पण्यां शिशुमारकुमारायेति पाठोऽन्यपुस्तकस्थो दत्तः ।
१ क. ख. ॰त ऊर्ध्वं । २ ग. संदर्शयति । ३ ख. ग. ॰ति । यदैवं । ४ क. ॰माभित्वं
शि° । ५ क. पुमानप° ६ ग. ॰णमन्त्रमा° ।

निवासस्थानमसि । भूतानां सर्वेषां प्राणिनां त्वमधिपतिरसि ! अत एव भूतानां
मध्ये श्रेष्ठोऽसि । भूतानि सर्वाणि त्वामुपेत्य परितः सेवन्ते । तस्मात्ते तुभ्यं नमोऽस्तु
यत्सर्वं जगत्तवाधीनं तथा सति नमः सर्वं त्वदीयाय सर्वस्मै नमः । तथा ते नमः
सर्वस्य स्वामिने तुभ्यमपि नमः । किं बहुना नमः शिशुकुमाराय नमः शिशुकुमारस्य
जलग्र(ग्रा?)हविशेषस्य कुमारो बालकस्तदाकारो यो ध्रुवस्तस्मै नमस्कारोऽस्तु । उभ-
यतो नमस्कारोऽयं मन्त्रः, तच्च नमस्कारद्वयमादरार्थम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके एकोनविंशोऽनुवाकः ॥ १९ ॥
अथ द्वितीयप्रपाठके विंशोऽनुवाकः ।
संध्यावन्दनाङ्गत्वेन शिशुंमारोपस्थानमुक्तम्, अथ दिगुपस्थानमुच्यते । तत्र प्रथमं
मन्त्रमाह —
नमः॒ प्राच्यै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॑
प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमः॑,—इति ।
.प्राच्यै पूर्वस्यै दिशे तदधिष्ठात्र्यै देवतायै नमोऽस्तु । याश्चैतस्यां प्राच्यां दिशि
[दे]वताः प्रतिवसन्त्येताभ्यो देवताभ्यश्च नमोऽस्तु ।
अथ द्वितीयादिमन्त्रानाह—
नमो॒ दक्षि॑णायै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑वसन्त्ये-
ताभ्य॑श्च॒ नमो॒ नमः॑ प्रती॒च्यै॑ दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॒ प्रति॑-
वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नम॒ उदी॑च्यै दि॒शे याश्च॑ दे॒वता॑ ए॒तस्यां॑
प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नम॑ ऊ॒र्ध्वायै॑ दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॑ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमो॒ऽधरा॑यै दि॒शे याश्च॑ दे॒वता॑
ए॒तस्यां॑ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमो॒ नमो॑ऽवान्तरा॒यै॑ दि॒शे
याश्च॑ दे॒वता॑ ए॒तस्यां॑ प्रति॑वसन्त्ये॒ताभ्य॑श्च॒ नमः॑,—इति ।
एते मन्त्राः प्रथममन्त्रवद्व्याख्येयाः ।
१ ग. ॰गत्ते तवा॰ । २ ग. ॰स्कार॰ । ३ क. ‘शुकुमा’ ।