सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 150, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 150

[प्रपा०२अनु०११] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १४७

च्चारणेनोपक्रमं कुर्यात् । योऽयमोमित्येवंरूपो यजुर्मन्त्रः स त्रयीं विद्यां प्रति वेदत्र-
यस्य प्रतिनिधिरूपः । अत एव प्रणवगतानामकारोकारमकारमात्राणां वेदत्रयरूपेणाध्य-
यनमाथर्वणिका आमनन्ति—“ तस्य ह वै प्रणवस्य पूर्वा मात्रा पृथिव्यकारः स
ऋग्भिर्ऋग्वेदोऽथ द्वितीयाऽन्तरिक्षं स उकारः स यजुर्भिर्यजुर्वेदस्तृतीया द्यौः स मकारः
स सामभिः सामवेदः ” इति । किंचैषा प्रणवरूपा सर्वा वागपि । अत एव च्छन्दोगा
आमनन्ति-“ तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक्संतृष्णा ”
इति । अश्वत्थपत्रे दृश्यमानास्तन्तुसदृशा अवयवाः शङ्कवः, तैर्यथा कृत्स्नानि पर्णानि
व्याप्तानि तद्वदोंकारेण सर्वाऽपि वाग्व्याप्ता । ऐतरेयेऽपि प्रणवादेरकारस्यैव सर्ववाग्व्या-
प्तिमामनन्ति-“ अकारो वै सर्वा वाक्सैषा स्पर्शोष्माभिर्व्यज्यमाना बह्वी नानारूपा भवति ”
इति । अत एव मातृकामन्त्रे सर्वानपि ककारादीन्वर्णानकारशिरस्कानेव पठन्ति । य-
( त )स्माद्युक्तं प्रणवस्य सर्वात्मकत्वम् । किंचैतत्प्रणवस्वरूपमुत्कृष्टमक्षरमविनश्वरं सर्व-
वेदान्तवेद्यं परब्रह्म वस्तु । अत एव पिप्पलादशाखायामधीयते-“ एतद्वै सत्यकाम
परं चापरं च ब्रह्म यदोंकारः ” इति । कठाश्च पठन्ति-“ एतदेवाक्षरं ब्रह्म एतद्दे-
वाक्षरं परम् ” इति । तस्मात्प्रणवेनैव स्वाध्यायप्रारम्भो युक्तः ।
प्रणवप्रशंसापरामृचमवतारयति—
तदे॒तदृचाऽभ्यु॑क्तम्—, इति ।
तदेतत्परब्रह्मस्वरूपं प्रणवाक्षरं कयाचिदृचा स्पष्टमुक्तम् ।
तामृचं दर्शयति—
ऋचो॒ अक्ष॑रे पर॒मे व्यो॑म॒न्यस्मि॑न्दे॒वा अधि॒ विश्वे॑ निषे॒दुर्यस्तन्न
वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सत॒ इति–, इति ।
या एता ऋचस्ताः सर्वाः परम उत्कृष्टे व्योमन्विशेषेण रक्षकेऽक्षरे प्रणवे निषे-
दुराश्रिताः । अत एव कठशाखायामधीयते—
“ सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमित्येतत् ” इति ।
न केवलमृच एव तस्मिन्प्रणवे समाश्रिताः किंतु विश्वे सर्वे देवा अपि यस्मिन्प्र-
णवाक्षरेऽधिनिषेदुः, अधिकत्वेन निष्णाः । अत एवोत्तरतापनीये देवानां परमात्म-
ध्यानार्थं प्रणवपर्यवसानमुक्तम् —“ आत्मानमनुष्ठुभाऽन्विष्य प्रणवेनैव तस्मिन्नवस्थिताः ”


१ क. ख. पूर्वमा॰ । २ ग. ॰रेयास्तु प्र॰ । ३ क. ख. ॰वेन स्वा॰ । ४ ग. ॰णवं प्र॰ ।
५ ग. ॰शंस्याप॰ । ६ क 'ष्ठमन्वि॰ ।