सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 162, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 162

[प्रपा० २ अनु० १७] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १६५
लोके रिक्तत्वम् । तथा प्रेव रिच्यते परलोकेऽपि प्रकर्षेण रिक्त इव भवति, पुण्य-
लोकाभाव एव रिक्तत्वम् । याजनप्रतिग्रहयोर्जीविकारूपेण शास्त्रेऽभ्युपगतत्वान्निषि-
द्धयाजनप्रतिग्रहविषयमिदं द्रष्टव्यम् । अतो द्रव्यलोभाद्याजयित्वा प्रतिगृह्य वा¹
भोजन²रहितस्त्रिवारं स्वशाखाध्ययनरूपं वेदं जपेत् ।
तत्राशक्तस्य पक्षान्तरमाह—
त्रि॒रा॒त्रं वा॑ सावि॒त्रीं गा॑य॒त्रीम॒न्वाति॑रेचयति³—, इति ।
गायत्रीच्छन्दस्कां सवितृदेवताकां तत्सवितुर्वरेण्यमित्येतामृचं भोजनरहितो दिन-
त्रयमनुष्ठाय रेचयति, पूर्वोक्तप्रकारेण रिक्तं स्वात्मानमरिक्तं करोति । अपकीर्तिं
पुण्यक्षयं च निवर्तयेदित्यर्थः ।
पक्षद्वयेऽपि दक्षिणां विधत्ते—
व॒रो दक्षि॑णा वरे॑णै॒व वर॑ꣳ स्पृणोत्या॒त्मा हि वर॑: (१), इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके
षोडशोऽनुवाकः ॥ १६ ॥
गौर्वै वर इति सूत्रकारेणोक्तत्वाद्वौरेव दक्षिणा, वरेण श्रेष्ठेन गोद्रव्येण वरं श्रेष्ठं
ब्राह्मणं स्पृणोति प्रीणयति । यस्माद्वरो गौरात्मैव तस्मात्स्वेन समानत्वास्या दक्षि-
णया स्वात्मानमेव दत्तवानिति कृत्वा तत्पापनिवृत्तिर्युक्ता ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके षोडशोऽनुवाकः ॥ १६ ॥
━━━━━━━━━━━━━━━━
अथ द्वितीये सप्तदशोऽनुवाकः ।
━━━━━━━━━━━━━━━━
पूर्वमनापदि दुष्टयाजनस्य प्रायश्चित्तमुक्तम् । इदानीमापदि तद्याजनस्य पूर्वस्मादल्पं
प्रायश्चित्तं विधत्ते—
दु॒हे ह॒वा ए॒ष छन्दा॑ꣳसि यो या॒जय॑ति
स येन॑ य॒ज्ञक्रतुना॑ या॒जये॒त्सोऽर॑ण्यं पँ⁴रेत्य॑
शुचौ दे॒शे स्वा॑ध्या॒यमे॒वैन॑म॒धीय॑न्नासीत॑—, इति ।
यः पुमाँ⁵न्धनाभावे जीवनाभावात्प्राणरक्षणाययाज्यमपि पुरुषं याजयेत् । एतच्च
१ ग. वाऽनश्नन्भोजं । २ ग. ॰हितः स्वाध्यायं त्रिवा॑ । ३ ग. ॰ति । पू॑ । ४ ग.
परीत्य । ५ क. -ख. ॰मान्प्राण॑ ।