सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 163, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 163

वाजसनेयके दर्शितम्- “प्राणस्य वै सम्राट्‌कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रति-
गृह्णाति” इति । ईदृशः पुमांश्छन्दाꣳसि दुहे स्वकीयान्मन्त्रान्रिक्ती करोति फलरहितान्क-
रोति । तत्परिहारार्थं येन यज्ञक्रतुना याजितवानेनेव क्रतुभागं स्वाध्यायं स पुमा-
नरण्ये गत्वा पठन्नासीत, तेन प्रायश्चित्तं संपाद्यते ।
तत्संभावनार्थं ध्यानार्थं वा तत्र यज्ञावयवान्संपादयति—
त॒स्यान॑शनं दी॒क्षा स्थान॒मुप॒सद् आ॒संन्ꣳ सु॒त्या वाग्जु॒हूर्मन॑
उप॒भृच्चक्षु॑र्ध्रु॒वा प्रा॒णो ह॒विः सामा॑ध्व॒र्युः स वा ए॒ष य॒ज्ञः
प्रा॒णद॑क्षिणोऽन॑न्तदक्षिणः समृ॑द्ध्यतरः ( १ ), इति ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके
सप्तदशोऽनुवाकः ॥ १७ ॥
तस्य प्रायश्चित्तार्थं वेदभागमध्येतुः पुरुषस्य तावत् किल यो भोजनपरित्यागः सैव
दीक्षा । यदेतच्छुद्धदेशरूपं स्थानं ता एवोपसदः, यत्तत्रोपवेशनं सैव सुत्या सोमा-
भिषवः, येयमस्य वाक्सेयं जुहूः, यन्मनः सैवोपभृत्, या धृतिरनुष्ठेयार्थावधारणा
सैव ध्रुवा, यः प्राणस्तदेव हविः, यत्साम गीयमानं स एवाध्वर्युः । सोऽयं
भावनारूपो यज्ञः प्राणदक्षिणः, देहान्ते प्राणपरित्याग एव दक्षिणास्थानीयः, अतोऽ-
नन्तदक्षिणत्वादयं यज्ञोऽतिशयेन समृद्धः । उक्तयज्ञसमाप्तौ प्रभूतमन्नं देयमिति
तात्पर्यार्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदी-
यतैत्तिरीयारण्यकभाष्ये द्वितीयप्रपाठके सप्तदशोऽनुवाकः ॥ १७ ॥
अथ द्वितीयेऽष्टादशोऽनुवाकः ।
प्रायश्चित्तार्थस्वाध्यायप्रसङ्गादवकीर्णिप्रायश्चित्तमुच्यते । तद्विधानार्थमादौ प्रस्तौति—
क॒ति॒धाऽव॑की॒र्णी प्र॑वि॒शति॒ चतु॑र्धेत्या॑हु॒र्ब्रह्म॑वा॒-
दिनो॑ म॒रुतः॑ प्रा॒णैरिन्द्रं॒ बले॑न॒ बृह॒स्पतिं॑ ब्रह्मवर्च॒-
सेना॒ग्निमे॒वेतरे॑ण॒ सर्वे॑ण तस्यै॒तां प्रा॑य॒श्चित्तिं॑
वि॒दांच॑कार सु॒देवः॑ कांश्य॒पः—, इति॑ ।
१ ग. °कामेभ्य अयाज्यं । २ क. ˚हे तदीया˚ । ३ क. ग. गायनं ।