तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 156, कुल 914 में से
संदर्भ में पढ़ेंAn exact, line-by-line transcription of the Sanskrit text with Vedic accents as printed in the image:
प्रपा० २ अनु० १५] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १५३
अनेन ब्रह्मयज्ञेन मरणादूर्ध्वमुत्तमं स्वर्गमारोहति, जीवनवेलायां पङ्क्तिपावनत्वात्स-
मानानां मध्य उत्तमो भवति । उत्तमः स्वर्ग एव प्रपञ्च्यते । वित्तेन पूर्णां पृथिवीं
ब्राह्मणेभ्यो ददत्पुरुषो यावन्तं स्वर्गमनेकभोगोपेतं प्राप्नोति तावन्तमसौ प्राप्नोति ।
ततो भूयांसमधिकमपि प्राप्नोति । अक्षय्यं पुनरावृत्तिरहितं च लोकं प्राप्नोति ।
तस्मादूर्ध्वं पुनर्मृत्युं न प्राप्नोति । किंतु परब्रह्मणः सायुज्यं मोक्षं गच्छति ॥ ˙
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये द्वितीयप्रपाठके चतुर्दशोऽनुवाकः ॥ १४ ॥
अथ द्वितीये पञ्चदशोऽनुवाकः ।
ग्रहेणस्वाध्याये यानि कारणान्यनध्यायस्य तान्यत्रापोद्य कारणान्तरमनध्यायस्य
दर्शयति—
तस्य॒ वा ए॒तस्य॑ य॒ज्ञस्य॒ द्वाव॑न-
ध्या॒यौ यदा॒त्माऽशुचि॒र्यद्दे॑शः—, इति ।
उक्तस्य ब्रह्मयज्ञस्य द्वावनध्यायौ विध्येते । आत्मा ब्रह्मयज्ञस्य कर्ता स्वयमशु-
चिर्यदा भवति तदानीमेकोऽनध्यायः। देशो वा मूत्रपुरीषादिभिरशुचिर्भवति स द्विती-
योऽनध्यायः । न तु कश्चित्तृतीयोऽनध्यायहेतुरस्ति ।
अथ तस्य यज्ञस्य सुलभत्वं दर्शयति—
स॒मृद्धि॑र्दैव॒तानि॑—, इति ।
समृद्धिः सामग्री । सा च यज्ञान्तरेषु द्रव्यार्जनादिना संपाद्यते । इह तु दैवतान्येव
सामग्री न तु बाह्यसाधनं किंचिदपेक्षितमस्ति ।
ब्रह्मयज्ञेन तुष्टेषु दैवतेषु फलं भवत्येव तस्मादेवंभूते कालादिवैकल्यशङ्कां परित्यज्य
ह्यनुष्ठाने फलसिद्धिं दर्शयति—
य ए॒वं वि॒द्वान्म॑हारा॒त्र उ॒षस्युदि॑ते व्रजँ॒स्तिष्ठ॒-
न्न्नासी॑नः॒ शया॑नो॒ऽरण्ये॒ ग्रामे॑ वा॒ याव॑त्त॒रस॑ꣳ
स्वा॒ध्या॒यमधी॑ते॒ सर्वाँ॑ल्लो॒काञ्जय॑ति॒ सर्वाँ॑ल्लो॒का-
न॑नु॒णोऽनु॒संच॑रति॒ तदे॒षाऽभ्यु॑क्ता—, इति ।
अस्य यज्ञ[स्य]निमित्तद्वयव्यतिरेकेणानध्यायकारणं नास्ति सामग्री च न प्रयाससं-
१ क. ॰हणाध्ययने या॑ । २ क. ख. ॰ह दैं । ३ ग. ॰कल्प्यशं ।
२०