सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 159, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 159

कारादिश्रवणेन वृथायुःक्षयमन्तरेण कंचित्पुरुषार्थं पश्यामः । अत एव वाजसनेयिनः
समामनन्ति—“ नानुध्यायाद्बहूञ्शब्दान्वाचो विग्लापनं हि तत् ” इति । वेदव्यतिरि-
क्तस्य शब्दजालस्य कण्ठशोषमात्रपर्यवसायित्वमेवोपपाद्यते । यस्मादयं वेदत्यागी
सुकृतस्य पन्थां पुण्यानुष्ठानमार्गं न जानाति तस्मात्कण्ठशोषमात्रपर्यवसानम् ।
द्विविधं हि पुरुषेणार्थ्यते, ऐहिकजीवनमामुष्मिकौ च भोगमोक्षौ । तत्र जीवनस्य
कौव्यादेरपि कृषिवाणिज्यादिकर्मि(देरि)वै भवेत्साधनैत्वम् । आमुष्मिकमार्गं तु वेदम-
न्तरेण सर्वतो न जानाति । अतः शास्त्रान्तराणि शृण्वतः कण्ठशौष एव परिशिष्यते
न केवलं सुकृतज्ञानमात्राभावः प्रत्युत दुरितं च महत्संपद्यते ।
अत एव मनुना स्मर्यते—
“योऽनधीत्य द्विजो वेदानन्यत्र कुरुते मतिम् ।
स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः” इति ।
इत्थं स्वाध्यायपरित्यागे बाधं दर्शयित्वा तदनुष्ठाने श्रेयो दर्शयति—
तस्मा॑त्स्वाध्यायोऽध्ये॑तव्यो॒ यं यं॒ क्रतु॑म-
धी॒ते तेनं॑ तेना॒स्येष्टं भ॑वत्य॒ग्नेर्वायोरा॑दि॒त्यस्य॑
सायु॑ज्यं गच्छति तदे॒षाऽभ्युक्ता—,इति ।
यस्मात्स्वाध्यायव्यतिरेकेण सुकृतमार्गो न ज्ञायते तस्मात्स्वाध्यायोऽध्येतव्यः,
ग्रहणाध्ययनं ब्रह्मयज्ञाध्ययनं च कर्तव्यम् । तच्चोभयं परमपुरुषार्थसाधनमित्युपनिषदि
बहूनामृषीणां मतभेदोपन्यासप्रसङ्गेन विस्पष्टमाम्नातम्—स्वाध्यायप्रवचने एवेति नाको
मौद्गल्यः, तद्धि तपस्तद्धि तप इति । सत्यवदनमेव परमपुरुषार्थसाधनमिति राथींत-
रस्य मतम् । कृच्छ्रचान्द्रायणादिरूपं तप एव तत्साधनमिति पौरिशिष्टेर्मतम् । मौद्ग-
ल्यस्त्वत्यन्तरहस्यदर्शी रहस्यार्थत्वात्तदेतदुभयमुवाच । तत्र ग्रहणार्थमध्ययनं[स्वाध्यायः]
गृहीतस्य वेदस्य प्रकर्षेण प्रतिदिनं ब्रह्मयज्ञरूपेण वचनं प्रवचनम् । उभे एवोत्तमे पुरु-
षार्थसाधने सत्यादीनामर्थात्सिद्धत्वात् । यो हि निरन्तरं स्वाध्यायं पठति तस्यानृत-
वदने कः प्रसङ्गः । तपोऽप्यर्थात्सिद्धं निषिद्धविषयप्रवणानामिन्द्रियाणां बलक्षयद्वारे-
णोद्धतत्वं वारयितुं कृच्छ्रचान्द्रायणादिना शरीरशोषैरूपं तपः क्रियते । स्वाध्यायप-
रस्य तु विषयमात्रचिन्तैव नास्ति कुतो दुष्टविषयेषु प्रवृत्तिः ।
१ क. ख. ॰धं पुं॑ । २ ख. काव्या॑दि॑ । ग कार्ष्यादे॑ । ३ क. ॰पि वा॑ । ४ ग. ॰क॑मेव ।
५ ख. ग. ॰व महत्सा॑ । ६ ख. ग. ॰नम् । ७ ॰शोषा ए॑ । ८ ख. ॰ष्ट्यन्ते । न । ९ ख. ब्रह्म-
ध्याय॑ । ग. ब्रह्माध्य॑ । १० ग. ॰म् । एत॑ । ११ ग. ॰थित्वेन सा॑ । १२ ग. राथान्त॑ ।
१३ क. ख. ॰र्शी तदे॑ । १४ क. ॰षणरू॑ । १५ क. ॰ये पुरुषष्ट्॑ । ख. ॰ये पुरुषध॑ ।