तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 155, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 155ग्रहणाध्ययने यान्यनध्यायकारणानि॑ तानि ब्रह्मयज्ञाध्ययने स्वाध्यायं न निवारय-
ग्रहणाध्ययने यान्यनध्यायकारणानि॑ तानि ब्रह्मयज्ञाध्ययने स्वाध्यायं न निवारय-
न्तीति वक्तुं तेषामनध्यायकारणानां यज्ञाङ्गत्वमुपचरति—
तस्य॑ वा ए॒तस्य॑ य॒ज्ञस्य॑ मे॒घो ह॒विर्धानं॑ वि॒द्युद॒ग्निर्वर्ष॑ꣳ
ह॒विस्त॑नयि॒त्नूर्वष॑ट्कारो यद॑वस्फू॒र्जति॒ सोऽनु॑वषट्-
कारो वा॒युरा॒त्माऽमा॑वा॒स्या॑ स्वि॒ष्टकृत्—, इति ।
अनध्यायहेतूनापस्तम्बो दर्शयति—विद्युत्स्तनयित्नुर्वृष्टिश्चापतौ यत्र संनिपतेयुस्त्र्यह-
मनध्याय इति । सोऽयमकालमेघो ग्रहणाध्ययने निषिद्धोऽपि ब्रह्मयज्ञाध्ययने
स्वीकार्य एवै । यथा सोमयागे हविर्धानं न यागाविरोधि तथा तत्र मेघोऽपि । एवं
विद्युदादौ द्रष्टव्यम् । अग्निर्ग्रामगृहादिदाहकः । अकाले महानुत्पातरूपो वायुरात्मा
यजमानस्थानीयः । स्पष्टमन्यत् ।
अनध्यायहेतूनां वर्जनीयत्वं निवार्योपादेयत्वं दर्शयति—
य ए॒वं वि॒द्वान्मे॒घे वर्ष॑ति वि॒द्योत॑माने स्तनय॑त्यवस्फू-
र्जति॒ पव॑माने वा॒याव॑मावा॒स्या॑याꣳ स्वाध्या॒यमधी॑ते॒ तर्प॑
ए॒व तत्त्व॑प्यते तपो॑ हि स्वा॒ध्याय॒ इति—, इति ।
मेघादयो विरोधिनो न भवन्तीति यो विद्वान्सोऽयं सत्स्वपि मेघादिनिमित्तेषु
स्वाध्यायमधीते तदा तपस्तप्तं भवति । यस्मादयं ब्रह्मयज्ञः स्वाध्यायः कृच्छ्र-
चान्द्रायणादिवत्तपोरूपस्तस्मान्न सन्त्यनध्यायाः । न हि चान्द्रायणादिकं मेघादिषु वर्ज्य
कदाचिदप्यवर्जनेनानुष्ठितस्य ब्रह्मयज्ञस्य फलं दर्शयति—
उत्त॑मं नाक॑ꣳ रोहत्युत्त॒मः स॑मा॒नानां॑ भवति॒ याव॑न्त॑ꣳ
ह वा इ॒मां वि॒त्तस्य॑ पू॒र्णां दद॑त्स्व॒र्गं लो॒कं जय॑ति
ताव॑न्तं लो॒कं जय॑ति॒ भूया॑ꣳसं चाक्ष॒य्यं चाप॑ पुनर्मृ॒त्युं
जय॑ति॒ ब्रह्म॑णः सायु॑ज्यं गच्छति ( १ ), इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके
चतुर्दशोऽनुवाकः ॥ १४ ॥
१ क. ख. 'नि म° । २ ख. घ. ॰वास्याः स्वि° । ३ ख. 'ब । सो° । ४ ख. तद्वस्तं