तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 158, कुल 914 में से
संदर्भ में पढ़ें[प्रपा०२अनु०१९] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । १५५
प्रविशति, तथा शोधनीयवस्तुगतः पाप्मा शोधकेऽग्नौ प्रविष्टः । तमाग्निगतं पापं(प्मानं)
देवा आहुतिभिर्विनाशितवन्तः । तदाहुतिगतं पापं कृत्स्नं यज्ञेन, यज्ञगतं च पापं
दक्षिणाभिः, दक्षिणागतं च पापं प्रतिग्रहीत्रा ब्राह्मणेन, ब्राह्मणगतं च पापं तत्त-
न्मन्त्रगतैर्गाथ्यादिच्छन्दोभिः, छन्दोगतं च पापं स्वकीयशाखारूपेण स्वाध्यायेन ।
न चौत्र स्वाध्यायगतस्य पाप्मनो निवर्तकान्तरमन्वेष्टव्यम् । यस्मादपहतपाप्मा स्वाध्यायः,
न खलु कश्चिदपि पाप्मा स्वाध्यायं स्प्रष्टुमीष्टे । यस्मादेतत्स्वाध्यायस्वरूपं देवानापि
शोधकम्, देवा हि पूर्वस्मिञ्जन्मनि मनुष्या भूत्वा स्वाध्यायमधीत्य तदर्थं चानुष्ठाय शुद्धाः
सन्तो देवत्वं प्राप्ताः, [ तस्मात् ] तमीदृशं