तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 161, कुल 914 में से
संदर्भ में पढ़ेंविदोऽग्निवाय्वादित्यसायुज्ययोग्यत्वादेतन्निन्दैव तेषां निन्दा, इत्यनेनैव मन्त्रेणोक्थ्यादि-
रूपत्वलक्षणं वेदविन्माहात्म्यं दर्शितम् ।
अस्य मन्त्रस्य तात्पर्यं दर्शयति—
याव॑ती॒र्वै दे॒वता॒स्ताः सर्वा॑ वेद॒विदि॑ ब्रा॒ह्म॒णे व॑सन्ति
तस्मा॑द्ब्राह्म॒णेभ्यो॑ वेद॒विद्भ्यो॑ दि॒वे दि॑वे॒ नम॑स्कुर्यान्ना-
श्ली॒लं की॑र्तयेदे॒ता ए॒व दे॒वताः॑ प्रीणाति ( १ ), इति ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके द्वितीयप्रपाठके
पञ्चदशोऽनुवाकः ॥ १५ ॥
अग्निरवमो देवतानां विष्णुः परम इत्युक्तत्वादग्निप्रभृतयो विष्णुपर्यन्ता यावत्यो
देवताः सन्ति ताः सर्वाः पाठतोऽर्थतश्च वेदविदि ब्राह्मणे वसन्ति । एकैकस्मिन्मन्त्र
ऐकैको देवः प्रतिपाद्यते । ते च मन्त्राः सर्वेऽध्येतुर्वाचि वेदितुर्मनसि च वर्तन्ते, अतो
वेदविदां ब्राह्मणानां सर्वदेवतात्मकत्वात्तेभ्यः प्रतिदिनं नमस्कुर्यात् । अश्लीलं तदी-
यमशुभं किमपि विद्यमानमविद्यमानं वा न कीर्तयेत्। एतेन वेदविदो ब्राह्मणस्य सत्कारेण
सर्वा अप्येता देवताः परितोषयति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्ति-
रीयारण्यकभाष्ये द्वितीयप्रपाठके पञ्चदशोऽनुवाकः ॥ १५ ॥
अथ द्वितीये षोडशोऽनुवाकः।
अथ कस्यचिदयाज्यस्य याजने तथा कस्यचिदयोग्यस्य पुरुषस्य द्रव्यप्रतिग्रहे
प्रायश्चित्तत्वेन स्वाध्यायं विधत्ते—
रि॒च्यत॑ इव॒ वा ए॒ष प्रेव॑ रिच्यते॒ यो या॒जय॑ति
प्रति॑ वा गृह्णाति॑ याज॒यित्वा॑ प्रतिगृह्य वाऽन॑-
श्नन् स्वा॒ध्यायं॒ वेदम॑धीयीत---, इति ।
यः पुमान्स्वयमापद्रहितोऽपि द्रव्यलोभादयाज्यं याजयति निषिद्धं द्रव्यं
प्रतिगृह्णाति स पुमानिह लोके रिच्यत इव कीर्तिशून्य इव भवति । अहो दुरात्मा-
यमेवं धनिकोऽपि सन्द्रव्यलोभादन्यायं करोतीति सर्वे जनास्तं निन्दन्ति तदिदमुि-
१ ग. ॰णाऽऽदित्यादि॰ । २ ग. एको । ३ ग. ॰र्वाच्यध्येतु॰ ।