स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
16 स्मृतिचन्द्रिकायां
पितामहोऽप्येवमेव कुर्याज्जीवति साग्निकः ।
साग्निकोऽपि न कुर्वीत जीवति प्रपितामहे ॥ इति ॥
प्रपितामहग्रहणं पितृपितामहोपेतप्रपितामहप्रदर्शनार्थम् । अत एव
विष्णुः—'पितरि पितामहे प्रपितामहेच च जीवति नैव दद्यात्'
इति । पितरि पितामहे च जीवति कथं कार्यमित्यपेक्षिते स
एवाह—'पितरि जीवति यः श्राद्धं कुर्यात्स येषां पिता कुर्यात्तेषां
कुर्यात् पितरि पितामहे च येषां पितामहः' इति । तथा
पि त्रादिषु त्रिषु द्वयोरेकस्य वा मरणेऽपि तेनैवोक्तं—'यस्य
पिता प्रेतस्स्यात्स पित्रे पिण्डं विधाय पितामहात्परं द्वाभ्यां
दद्यात् । यस्य पितामहः प्रेतस्स्यात्तस्मै पिण्डं विधाय प्र-
पितामहात्परं द्वाभ्यां दद्यात् । यस्य पितामहप्रपितामहौ च
प्रेतौ स्यातां यस्य पितां प्रपितामहश्च प्रेतौ स्यातां स
पित्रे पिण्डं विधाय पितामहात्परं द्वाभ्यां दद्यात्' इति ।
भविष्यत्पुराणे पितरि जीवति द्वयोरेव श्राद्धमुक्तं—
जीवमाने न देयं स्याद्यस्माद्भरतसत्तम ।
तस्माज्जीवपिता कुर्याद्द्वाभ्यामेव न संशयः ॥
इति । मनुस्तु त्रिषु यो जीवति तमेव श्राद्धे भोजयेदित्याह—
ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् ।
विप्रवद्भावितं श्राद्धे स्वकं पितरमाशयेत् ॥
पिता यस्य तु वृत्तस्स्याज्जीवेद्वाऽपि पितामहः ।
पितुस्तु नाम संकीर्त्य कीर्तयेत्प्रपितामहम् ॥
17
पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः ॥
इति । पूर्वेषां पितामहादीनाम् । निगमोऽपि—‘यो जीवति
पितॄणां तं भोजयेत्पितृस्थान इत्येके, जीवतामजीवतां वा देय-
मेवेति हिरण्यकेतुः’ इति । एवं पिण्डपितृयज्ञेऽपि द्रष्टव्यम् ।
अत एव याज्ञवल्क्यः—
होमतः पितृयज्ञस्य जीवेत्पितरि जीवतः ।
पितरं भोजयित्वा वा पिण्डौ निर्वृणुयात्पिता ॥
उभौ यस्य व्यतीतौ तु जीवेच्चेत्प्रपितामहः ।
पिण्डौ निर्वृणुयात्पूर्वी भोजयेत्प्रपितामहम् ॥
इति । यमस्तु होमोऽपि पाक्षिक इत्याह—
पित्र्यं जीवपितुर्नोक्तमग्नौ होमोऽपि पाक्षिकः ।
येभ्यो वाऽपि पिता तेभ्यो दद्याद्वैतानकर्मणि ॥
दद्यात्तेभ्यः परेभ्यस्तु जीवेच्चेत्रितयं यदि ।
इति । पित्र्यं पिण्डदानं, वैतानकर्मणि पिण्डपितृयज्ञ इत्यर्थः ।
आपस्तम्बस्तु पितरि जीवति न पिण्डदानं नित्यमित्याह—
‘यदि जीवति पिता न दद्यादा होमाच्च्यक्त्वा विरमेत्’
इति । अत्र यथास्वशाखं व्यवस्था । भविष्यत्पुराणेऽपि
श्राद्धे प्रत्यक्षार्चनं निषिद्धमित्युक्तम्—
प्रत्यक्षार्चनं श्राद्धे न युक्तं मनुरब्रवीत् ।
SMRITI CHA.—VOL. V. 3
१८ स्मृतिचन्द्रिकायां
पिण्डनिर्वापणं चापि महापातकसम्मितम् ॥
इति । मनुरत्र ज्ञानवान्, मनुना तु प्रत्यक्षार्चनस्योक्तत्वात् ।
इति स्मृतिचन्द्रिकायां जीवत्पितृश्राद्धाधिकारनिर्णयः.
अथ श्राद्धकालाः.
तत्र याज्ञवल्क्यः-
अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसम्पत्तिः विषुवत्सूर्यसङ्क्रमः ॥
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्तिताः ॥
इति । यस्यां तिथौ सूर्याचन्द्रमसोः सन्निकर्षः साऽमावा-
स्या । तस्यां तिथौ श्राद्धमावश्यकम् । तथाच लौगाक्षिः-
श्राद्धं कुर्यादवश्यं तु प्रमीतपितृकस्स्वयम् ।
इन्दुक्षये मासि मासि वृद्धौ प्रत्यब्दमेव च ॥
इति । इन्दुक्षयोऽमावास्या । अष्टका मार्गशीर्षादिमासचतुष्ट-
यापरपक्षाष्टम्यः, 'हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्ट-
काः' इति शौनकस्मरणात् । अत्रापि श्राद्धमावश्यकं-
अमावास्याव्यतीपातपौर्णमास्यष्टकासु च ।
विद्वान् श्राद्धमकुर्वाणः प्रायश्चित्तीयते तु सः ॥
इति पितामहस्मरणात् । वृद्धिः पुत्रादिः । अत्रापि श्राद्धमाव-
श्यकम्-
श्राद्धकाण्डे श्राद्धकालाः 19
वृद्धौ न तर्पिता यैर्वै देवता गृहमेधिभिः ।
तद्दानमासुरं सर्वमासुरो विधिरैव सः ॥
इति वृद्धशातातपस्मरणात् । कृष्णपक्षोऽपरपक्षः । अत्रापि श्राद्धं
नित्यम्, 'शाकेनाप्यपरपक्षं नातिक्रामेत्' इति कात्यायनस्म-
रणात् । अत्र विशेषमाह वसिष्ठः— 'अपरपक्ष ऊर्ध्वं चतुर्थ्याः
पितृभ्यो दद्यात्' इति । ऊर्ध्वं चतुर्थ्याः पञ्चमीमारभ्येत्यर्थः ।
गौतमोऽपि— 'अथ श्राद्धममावास्यायां पितृभ्यो दद्यात्प-
ञ्चमीप्रभृति वाऽपरपक्षस्य यथाश्राद्धं सर्वस्मिन्वा' इति ।
अपरपक्षस्य पञ्चमीमारभ्य पितृभ्यो दद्यात् सर्वस्मिन्वाऽ-
परपक्षे प्रतिपदमारभ्येत्यर्थः । कात्यायनोऽपि— 'अपरपक्षे
श्राद्धं कुर्वीतोर्ध्वं चतुर्थ्या यदहस्सम्पद्येत' इति । चतुर्थ्या
ऊर्ध्वं यस्मिन्नहनि द्रव्यादि सम्पद्येत तस्मिन्वा कुर्या-
दित्यर्थः । अनेनैकस्मिन्नहनि श्राद्धं कुर्यादित्युक्तं भवति । उक्तं
च गौतमेन— 'सर्वस्मिन्वा द्रव्यदेशब्राह्मणसंनिधाने वा' इति ।
अत्र यथासामर्थ्यं व्यवस्था । अत एव गौतमः— 'काल-
नियमश्शक्तितः' इति । अत्र सामर्थ्यतः कालनियमो भव-
तीत्यर्थः । यद्येकस्मिन् अहनि तदा पृथगेव अमावास्या-
श्राद्धं कार्यम् । 'अमावास्याऽष्टका वृद्धिः कृष्णपक्षः' इति
पृथगुपादानात् 'अपरपक्षे यदहस्सम्पद्येत अमावास्यायां
विशेषेण' इति नियमस्मरणात्, तथा—
न निर्वपति ग्रहश्राद्धं प्रमीतपितृको द्विजः ।
20 स्मृतिचन्द्रिकायां
इन्दुक्षये मासि मासि प्रायश्चित्तीयते तु सः ॥
इति व्याघ्रेणाकरणे प्रायश्चित्तविधानाच्च । तथा 'यथा
कथञ्चिन्नित्यानि कुर्यादिन्दुक्षयादिषु' इति हारीतेन नित्य-
त्वाभिधानात् । अतो यत्कैश्चिदुक्तं—'अमावास्याश्राद्धमापर-
पक्षिकश्राद्धेन विकल्प्यते' इति, तदपास्तम् । अपरपक्षे
पुनरापस्तम्बोक्तो विशेषः । 'मासिमासि कार्यमपरपक्षस्यापरा-
ह्नः श्रेयांस्तथाऽपरपक्षस्य जघन्यान्यहानि' इति । जघन्या-
नि दशम्यादीनि । अत एव मनुः—
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
श्राद्धे प्रशस्तास्तिथयो यथैता न तथेतराः ॥
इति । दशम्यादितिथिषु चतुर्दशीं वर्जयित्वेत्यर्थः । चतुर्दशी
तु शस्त्रहतानामेव । यथाऽऽह याज्ञवल्क्यः—
प्रतिपत्प्रभृति ह्येता वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥
इति । शस्त्रग्रहणं विषादेरपि प्रदर्शनार्थम् । अत एव म-
रीचिः—
विषशस्त्रश्वापदाहितिर्यग्ब्राह्मणघातिनाम् ।
चतुर्दश्यां क्रिया कार्या अन्येषां तु विगर्हिता ॥
प्रचेता अपि—
वृक्षारोहणलोहाद्यैः विद्युज्जलविषादिभिः ।
नखिदंष्ट्रिविपन्नानां तेषां शस्ता चतुर्दशी ॥
श्राद्धकाण्डे श्राद्धकालाः 21
इति । अत्र विशेषमाह गर्गः—
चतुर्दश्यां तु यच्छ्राद्धं सपिण्डीकरणात्परम् ।
एकोद्दिष्टविधानेन तत्कार्यं शस्त्रघातिने ॥
इति । शस्त्रघातिने यदाऽऽपरपक्षिकश्राद्धं चतुर्दश्यां क्रियते
तदैकोद्दिष्टविधानेन नान्यथेत्यर्थः । अत एव सुमन्तुः—
एकापिण्डीकृतानां तु पृथक्त्वं नोपपद्यते ।
सपिण्डीकरणादूर्ध्वं ऋते कृष्णचतुर्दशीम् ॥
इति । यत्तु मार्कण्डेयपुराणे—
प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा ।
परार्थिनां तृतीया तु चतुर्थी शत्रुनाशिनी ॥
पञ्चम्यां श्रियमाप्नोति षष्ठ्यां पूज्यो भवेन्नरः ।
गाणाधिपत्यं सप्तम्यामष्टम्यामृद्धिमुत्तमाम् ॥
श्रियो नवम्यामाप्नोति दशम्यां पूर्णकामताम् ।
वेदांस्तथाऽऽप्नुयात्सर्वानैकादश्यां क्रियापरः ॥
द्वादश्यां जयलाभं च प्राप्नोति पितृपूजकः ।
प्रजामिष्टां पशून् मेध्यान् स्वातन्त्र्यं बुद्धिमुत्तमाम् ॥
दीर्घमायुस्तथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ।
अवाप्नोति न सन्देहः श्राद्धं श्राद्धपरो नरः ॥
युवानः पितरो यस्य मृताश्शस्त्रेण वा हताः ।
तेन कार्यं चतुर्दश्यां तेषां सिद्धिमभीप्सता ॥
22 स्मृतिचन्द्रिकायां
श्राद्धं कुर्वन्नमावास्यां यत्नेन पुरुषश्शुचिः ।
सर्वान्कामानवाप्नोति स्वर्गं चानन्तमश्नुते ॥
इति, तत् नित्यत्वनिराकरणार्थं न, किंतु कालविशेषात्फल-
विशेषो भवतीत्येवंपरम्, अत एवापस्तम्बः - 'सर्वेष्वेवा-
परपक्षस्याहस्सु क्रियमाणे पितॄन् प्रीणाति कर्तुस्तु कालनि-
यमात्फलविशेषः' इति । प्रकृतमुच्यते - अयनद्वयं मकरक-
र्कटकसंक्रान्ती । अत्रापि श्राद्धं नित्यम् । अत एव विष्णु-
पुराणे पराशरः -
उपप्लवे चन्द्रमसो रवेश्च त्रिष्वष्टकास्वप्ययनद्वये च ।
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ॥
श्राद्धं कृतं तेन समास्सहस्रं रहस्यमेतत्पितरो वदन्ति ॥
अत्र पानीयमप्यत्रेति वचनादयनश्राद्धं नित्यमिति गम्यते ।
जातूकर्ण्योपि -
ग्रहोपरागे विषुवे च जाते पित्र्ये मघायामयनद्वये च ।
नित्यं च शङ्खे च तथैव पर्वे दत्तं भवेन्निष्कसहस्रतुल्यम् ॥
इति । अत्र नित्यं दत्तं निष्कसहस्रतुल्यमित्यन्वयः । पित्र्ये
नभस्यापरपक्षे या मघा तस्यामित्यर्थः । शङ्खादिस्वरूपमपि तेनै-
वोक्तं -
शङ्खं प्राहुरमावास्यां क्षीणसोमां द्विजोत्तमाः ।
अष्टकासु भवेत्पर्वं तत्र दत्तं यथाऽक्षयम् ॥
इति । अथवा पद्मं शङ्खोक्तं—
यथा विष्टिर्व्यतीपातो भानुवारस्तथैव च ।
पद्मकं नाम तत्प्रोक्तमयनाच्च चतुर्गुणम् ॥
इति । यत्तु विष्णुरोक्तं—'आदित्यसङ्क्रमो विषुवद्वयं व्यती-
पातो जन्मर्क्षमभ्युदयश्च,
एतांश्च श्राद्धकालान्वै काम्यानाह प्रजापतिः ।
श्राद्धमेतेषु यद्दत्तं तदानन्त्याय कल्पते ॥
इति, तदपि न नित्यत्वनिराकरणार्थम् । वचनद्वयेनाग्निहोत्रा-
दिवन्नित्यत्वकाम्यत्वयोरविरोधात् । द्रव्यं ब्राह्मणसम्पत्तिरिति,
द्रव्यस्य श्राद्धार्हस्य ब्राह्मणस्य वा वक्ष्यमाणस्य सम्पत्ति-
र्लाभो यस्मिन् काले सः श्राद्धकाल इत्यर्थः । अत्रापि श्रा-
द्धमावश्यकम् । यथाऽऽह हारीतः—
तीर्थे द्रव्योपपत्तौ तु न कालमवधारयेत् ।
पात्रं च ब्राह्मणं प्राप्य सम्यक्श्राद्धं विधीयते ॥
इति । तीर्थं गङ्गादि । विषुवत् मेषे तुलायां च सूर्यसङ्क्रमः ।
अत्र पुलस्त्योक्तो विशेषः—
अयनद्वितये श्राद्धं विषुवद्वितये तथा ।
युगादिषु च सर्वासु पिण्डनिर्वापणादृते ॥
इति । सूर्यसङ्क्रमः सूर्यस्य राशितो राश्यन्तरगमनम् । सूर्य-
सङ्क्रम इत्यनेनैव सङ्क्रान्तिमात्रसिद्धौ अयने विषुवे चेति
24 स्मृतिचन्द्रिकाया
पृथग्वचनं फलभूयस्त्वार्थम् । अत एव शङ्खः-
हस्तिच्छायासु यद्दत्तं यद्दत्तं राहुदर्शने ।
विषुवत्ययने चैव सर्वमानन्त्यमश्नुते ॥
इति । व्यतीपातो योगविशेषः वृद्धमनुनोक्तः-
श्रवणाश्विधनिष्ठाद्र्रानागदैवतमस्तकैः ।
यद्यमा रविवारेण व्यतीपातस्स उच्यते ॥
इति । यद्यमावास्या रविवारेण श्रवणादिना च युक्ता स
व्यतीपात इत्यर्थः । नागदैवतमाश्लेषानक्षत्रम् । मस्तकं मृग-
शिराः । तत्रापि श्राद्धं नित्यम् ।
अमावास्याव्यतीपातपौर्णमास्यष्टकासु च ।
विद्वान् श्राद्धमकुर्वाणः प्रायश्चित्तीयते तु सः ॥
इति पितामहस्मरणात् । गजच्छाया हस्तिच्छाया, तस्यां श्राद्धं
दद्यात् । तथा काठकश्रुतिः-'एतद्वि देवपितृणामयनं यद्ध-
स्तिच्छायायां श्राद्धं दद्यात्' इति । महाभारतेऽपि-
आजेन सर्वलोहेन वर्षासु नियतव्रतः ।
हस्तिच्छायासु विधिवत्कर्णव्यजनवीजितम् ॥
इति । श्राद्धं दद्यादिति शेषः । कर्णव्यजनवीजितमित्यनेनैत-
द्धस्तिच्छायाविषयमित्यवगम्यते । मनुरपि-
अपि नस्स कुले भूयाद्यो नो दद्यात्त्रयोदशीम् ।
पायसं मधुसर्पिभ्यां प्राक्छाये कुञ्जरस्य च ॥
[Header] श्राद्धकाण्डे श्राद्धकालाः 25
इति । प्राची छाया यस्य देशस्य स प्राक्छायः, तस्मि-
न्नित्यर्थः । अथवा पारिभाषिकी गजच्छाया । सा च स्मृ-
त्यन्तरे दर्शिता—
यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः ।
तिथिवैश्रवणी या च गजच्छायेति सा स्मृता ॥
इति । पितृदैवत्ये मघायाम् । हंसः सूर्यः । करो हस्तनक्षत्रम् ।
वैश्रवणी त्रयोदशी । पुराणेऽपि—
हंसे हस्तस्थिते या तु मघायुक्ता त्रयोदशी ।
तिथिवैश्रवणी नाम सा छाया कुञ्जरस्य तु ॥
हंसे करस्थिते या तु अमावास्या करान्विता ।
सा छाया कुञ्जरच्छाया इति बोधायनोऽब्रवीत् ॥
वनस्पतिगते सोमे या छाया प्राङ्मुखी भवेत् ।
गजच्छाया तु सा प्रोक्ता तस्यां श्राद्धं प्रकल्पयेत् ॥
इति । अमावास्यायां अपराह्न इत्यर्थः—
सैंहिकेयो यदा सूर्य ग्रसते पर्वसन्धिषु ।
गजच्छाया तु सा प्रोक्ता तस्यां श्राद्धं प्रकल्पयेत् ॥
सैंहिकेयो राहुः । अत्र फलविशेषो वायुपुराणे दर्शितः—
घृतेन भोजयेद्विप्रान् घृतं भूमौ समुत्सृजेत् ॥
छायायां हस्तिनश्चैव दत्त्वा श्राद्धं न शोचति ॥
श्रीविष्णुधर्मोत्तरेऽपि—
गयायां दर्शने राहोः खड्गमांसेन योगिनम् ।
SMRITI CHA.—Vol. V 4
भोजयेच्च कुलेऽस्माकं छायायां कुञ्जरस्य च ॥
आकाल्पिकी तु सा तृप्तिस्तेनास्माकं भविष्यति ।
दाता सर्वेषु लोकेषु कामचारी भविष्यति ॥
यदैतत्पञ्चकं न स्यादेकेनापि वयं सदा ।
तृप्तिं प्राप्स्याम चानन्तां किंपुनस्सर्वसम्पदा ॥
इति । तथा भोक्तुरपि दोषः स्मृत्यन्तरे दर्शितः—
कृष्णाजिनप्रतिग्राही विक्रयी वा भवेत्तु यः ।
गजच्छायाश्रितो भुक्त्वा न भूयः पुरुषो भवेत् ॥
ग्रहणं चन्द्रसूर्ययोरिति—ग्रहणमुपरागः । अत्रापि श्राद्धं नि-
त्यम् । अत एव शातातपः—
सर्वस्वेनापि कर्तव्यं श्राद्धं वै राहुदर्शने ।
अकुर्वाणस्तु तच्छ्राद्धं पङ्के गौरिव सीदति ॥
तथाऽत्र फलविशेषो विष्णुना दर्शितः—
राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकम् ।
गुणवत्सर्वकामीयं पितॄणामुपतिष्ठति ॥
इति । ऋष्यशृङ्गोऽपि—
राहुग्रस्ते तु वै सूर्ये यस्तु श्राद्धं प्रकल्पयेत् ।
तेन वै सकला पृथ्वी दत्ता विप्रस्य वै करे ॥
इति । अत्र कालनियममाह वृद्धवसिष्ठः—
त्रिदशास्स्पर्शसमये तृप्यन्ति पितरस्तथा ।
मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः ॥
श्राद्धकाण्डे श्राद्धकालाः २७
इति । यत्तु मार्कण्डेयपुराणे—
विशिष्टब्राह्मणप्राप्तौ सूर्येन्दुग्रहणेऽयने ।
विषुवे रविसङ्क्रान्तौ व्यतीपाते च पुत्रके ॥
श्राद्धार्हद्रव्यसंप्राप्तौ तथा दुस्स्वप्नदर्शने ।
जन्मर्क्षग्रहपीडासु श्राद्धं कुर्वीत चेच्छया ॥
इति, इच्छा कामः, तदापि श्राद्धं कुर्वीतेत्येवं परम्, न पुनः
काम्यमेवेति वक्तुम् । अत एव कूर्मपुराणे—
नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः ।
बान्धवानां च मरणे नरकी स्यात्ततोऽन्यथा ॥
काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु ।
इति । श्राद्धं प्रति रुचिरिति—रुचिरिच्छा श्राद्धं प्रति यदा
तदैव तत्कार्यमित्यर्थः । चकारोऽन्येषामपि श्राद्धकालानां
प्रदर्शनार्थः । अत एव यमः—
आषाढ्यामपि कार्त्तिक्यां माघ्यां त्रीन्पञ्च वा द्विजान् ।
तर्पयेत्पितृपूर्वं तु तस्याप्यक्षयमुच्यते ॥
देवलोपि—
तृतीया रोहिणीयुक्ता वैशाखस्य सिता तु या ।
मघाभिस्संहिता कृष्णा नभस्ये तु त्रयोदशी ॥
तथा शतभिषग्युक्ता कार्तिके नवमी तथा ।
इन्दुक्षयगजच्छायावैधृतीषु युगादिषु ॥
एते कालास्समुद्दिष्टाः पितॄणां प्रीतिवर्धनाः ।
28 स्मृतिचन्द्रिकायां
इति । युगादयस्तु मत्स्यपुराणे दर्शिताः—
वैशाखस्य तृतीया तु नवमी कार्तिकस्य तु ।
माघे पञ्चदशी चैव नभस्ये च त्रयोदशी ॥
युगादयस्स्मृता ह्येता दत्तस्याक्षयकारकाः ॥
इति । विष्णुपुराणेऽपि—
वैशाखमासस्य सिता तृतीया नवम्यसौ कार्तिकशुक्लपक्षे ।
नभस्यमासस्य च कृष्णपक्षे त्रयोदशी पञ्चदशी च माघे ॥
पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ।
श्राद्धं कृतं तेन समाससहस्रं रहस्यमेतत्पितरो वदन्ति ॥
अत्र शुक्लपक्षे तृतीया, पञ्चदशी कृष्णपक्षे इत्यन्वयः । अत
एव नारदीयपुराणम्—
द्वे शुक्ले द्वे च कृष्णे तु युगाद्याः कवयो विदुः ।
इति । ब्रह्मपुराणे तु माघस्य पौर्णमासी युगादिरित्युक्तं—
वैशाखशुक्लपक्षस्य तृतीयायां कृतं युगम् ।
कार्तिके शुक्लपक्षे च त्रेता च नवमेऽहनि ॥
अथ भाद्रपदे कृष्णे त्रयोदश्यां तु द्वापरम् ।
माघे च पौर्णमास्यां तु घोरं कलियुगं तथा ॥
युगारम्भास्तु तिथयो युगाद्यास्तेन विश्रुताः ।
सूर्यस्य सिंहसंक्रान्त्यामन्तं कृतयुगस्य तु ॥
अथ वृश्चिकसंक्रान्त्यामन्तं त्रेतायुगस्य तु ।
ज्ञेयो वृषभसंक्रान्त्यां द्वापरान्तश्च संख्यया ॥
श्राद्धकाण्डे श्राद्धकालाः २९
तथाच कुम्भसंक्रान्त्यामन्तः कलियुगे स्मृतः ।
युगादिषु युगान्तेषु श्राद्धमक्षयमुच्यते ॥
इति । पुराणेऽपि—
वैशाखस्य तृतीया या नवमी कार्तिकस्य तु ।
पौर्णमासी तु माघस्य नभस्ये च त्रयोदशी ।
युगादयस्मृता ह्येता दत्तस्याक्षयकारकाः ।
तथा मन्वन्तरादौ च देयं श्राद्धं विजानता ।
इति । अत्र कल्पभेदेन व्यवस्थेति केचित् । अत्र पुल-
स्त्योक्तो विशेषः—
अयनद्वितये श्राद्धं विषुवद्वितये तथा ।
युगादिषु च सर्वेषु पिण्डनिर्वपणादृते ॥
मन्वन्तरादयस्तु मत्स्यपुराणे दर्शिताः—
अश्वयुक्शुक्लनवमी कार्तिके द्वादशी सिता ।
तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ।
फाल्गुनस्य त्वमावास्या पुष्यस्यैकादशी सिता ॥
आषाढस्यापि दशमी माघमासस्य सप्तमी ।
श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा ॥
कार्तिकी फाल्गुनी चैत्रे ज्येष्ठे पञ्चदशी सिता ।
मन्वन्तरादयस्त्वेते दत्तस्याक्षयकारकाः ॥
इति स्मृतिचन्द्रिकायां श्राद्धकालाः.
30 स्मृतिचन्द्रिकायां
अथ अमावास्याद्वैधनिर्णयः.
अत्र गौतमः—
'अथ श्राद्धममावास्यायां पितृभ्यो दद्यात्' इति ।
अमावास्या कृष्णपक्षस्य पञ्चदशी तिथिः । तस्यां श्राद्धं
कार्यमित्यर्थः । तत्र कात्यायनोक्तो विशेषः—
पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।
वासरस्य तृतीयेऽंशे नातिसन्ध्यासमीपतः ॥
इति । पिण्डपितृयज्ञाङ्गभूतानां पिण्डानामनु पश्चादाह्रियते
क्रियत इति पिण्डान्वाहार्यकं श्राद्धममावास्यायां क्षीणे रा-
जनि इन्दौ कर्तव्यमित्यर्थः । सोपीन्दुक्षयः कदा भवती-
त्यपेक्षिते स एवाह—
अष्टमांशे चतुर्दश्याः क्षीणो भवति चन्द्रमाः ।
अमावास्याष्टमांशे च पुनः किल भवेदणुः ॥
इति । एवं च तिथिद्वैधे सिनीवाल्यामेव श्राद्धं कार्यमित्युक्तं
भवति । उक्तं च व्यासेन—
दृष्टचन्द्रा सिनीवाली नष्टचन्द्रा कुहूर्माता ।
सिनीवाली यदा पित्र्ये कुहूदैवे तु कर्मणि ॥
हारीतोपि—
यस्यां सन्ध्यागतस्सोमो मृणालमिव दृश्यते ।
अपराह्णे क्षयस्तस्यां पिण्डानां करणं ध्रुवम् ॥
श्राद्धकाण्डे अमावास्याद्वैधनिर्णयः ३१
इति । यस्यां तिथौ शर्वर्यां पूर्वस्यां दिशि सन्ध्यागतस्सोमः
सूक्ष्म इव दृश्यते तस्यामपराह्ने चन्द्रक्षय इति तत्रैव श्रा-
द्धं कार्यमित्यर्थः । एतच्च कर्मकालव्यापिन्यां सिनीवाल्यां द्र-
ष्टव्यं, अन्यथा दोषश्रवणात्, तथाच बोधायनः—
मध्याह्नात्परतो यत्र चतुर्द्दश्यनुवर्तते ।
सिनीवाली तु सा ज्ञेया पितृकार्ये तु निष्फला ॥
इति । उक्तलक्षणा सिनीवाली पितृकार्ये निष्फलेति ज्ञेये-
त्यर्थः । बृहस्पतिरपि—
मध्याह्नाद्वा त्वमावास्या परस्तात्संप्रवर्तते ।
भूतविद्धा तु सा ज्ञेया न सा पञ्चदशी भवेत् ॥
मध्याह्नात्परस्तात् कर्मकालमतिक्रम्येत्यर्थः । अनेनैवाभिप्रायेण
कार्ष्णाजिनिरपि—
भूतविद्धाममावास्यां मोहादज्ञानतोपि वा ।
श्राद्धकर्माणि ये कुर्युस्तेषामायुः प्रहीयते ॥
इति । अतः कर्मकालव्यापिन्येव सिनीवाली ग्राह्येत्यर्थः ।
अत एव वृद्धमनुः—
यस्यामस्तं रविर्याति पितरस्तामुपासते ।
तिथिं तेभ्यो यतो दत्तो ह्यपराह्नस्स्वयंभुवा ॥
इति । यदा त्वेवंविधा सिनीवाली न लभ्यते तदा कर्म-
कालव्यापिनी कुहूरेव ग्राह्येत्याह हारीतः—
32 स्मृतिचन्द्रिकायां
अपराह्नः पितॄणां तु याऽपराह्नानुयायिनी ।
सा ग्राह्या पितृकार्येषु न पूर्वाऽस्तानुयायिनी ॥
या कुहूरपराह्नानुयायिनी सैव ग्राह्या, न पुनरेवंविधा सिनी-
वालीत्यर्थः । एवञ्च तिथिद्वैधे या कर्मकालव्यापिनी सैव
ग्राह्येत्युक्तं भवति । उक्तं च तेनैव—
भूतविद्धाऽप्यमावास्या प्रतिपन्मिश्रिताऽपि वा ।
पित्र्ये कर्मणि विद्वद्भिः ग्राह्या कुतुपकालिका ॥
भूतविद्धा चतुर्दशीविद्धा । स्मृत्यन्तरेऽपि—
मध्याह्नव्यापिनी या तु तिथिः पूर्वा पराऽपि वा ।
तदहः कर्म कुर्वीत ह्रासवृद्धी न कारणम् ॥
इति । यदा तु तिथिद्वयेऽपि कर्मकालव्यापिनी न भवति तदा
भूतविद्धैव परिग्राह्येत्याह बोधायनः—
घटिकैकाऽप्यमावास्या प्रतिपत्सु न चेत्तथा ।
भूतविद्धाऽपि कर्तव्या दैवे पित्र्ये च कर्मणि ॥
इति । प्रतिपत्सु घटिकैका कर्मकालसंबन्धिनी यदि न स्या-
दित्यर्थः । अत एव जाबालिः—
प्रतिपत्स्वप्यमावास्या पूर्वाह्णव्यापिनी यदि ।
भूतविद्धाऽपि सा कार्या पित्र्ये कर्मणि सर्वदा ॥
इति । एवञ्च यदुक्तं हारीतेन---
पूर्वाह्णे चेदमावास्या अपराह्णे न चेत्तु सा ।
प्रतिपद्यपि कर्तव्यं श्राद्धं श्राद्धविदो विदुः ॥
श्राद्धकाण्डे अमावास्याद्वैधनिर्णयः 33
इति, तत् यत्र पूर्वेद्युश्चन्द्रदर्शनासम्भवेन पिण्डपितृयज्ञोत्कर्षः,
तत्र प्रतिपदि पिण्डपितृयज्ञविधानार्थं, अन्यथा पूर्वोक्तव-
नविरोधात् । यदपि तेनैवोक्तं—
तुलामकरमीनेषु कन्यायां मिथुने तथा ।
भूतविद्धाऽप्यमावास्या पूज्या भवति यत्नतः ॥
इति, एतत् व्रतोपवासादिविषयमिति कैश्चिद्व्याख्यातम् ।
यदा तु तिथद्वयेऽपि कर्मकालव्यापिनी तदा प्रचेतसोक्तं—
सिनीवाली कुहूश्चैव श्रुत्युक्ते श्राद्धकर्मणि ।
स्यातां चेत्ते तु मध्याह्ने श्राद्धं दद्यात्कथं तदा ॥
तिथिक्षये सिनीवाली तिथिवृद्धौ कुहूस्तथा ।
साम्येऽपि च कुहूर्ज्ञेया वेदवेदाङ्गवेदिभिः ॥
साम्ये क्षयवृद्धचभावे । एवमविशेषेण सर्वेषामपि क्षये सिनी-
वाल्यामेव श्राद्धप्राप्तौ विशेषार्थमाह लौगाक्षिः—
सिनीवाली द्विजैः कार्या साग्निकैः पितृकर्मणि ।
स्त्रीभिश्चूद्रैः कुहूः कार्या तथाचानाग्निकैर्द्विजैः ॥
इति । एवञ्च क्षये साग्निकैः सिनीवाल्यां श्राद्धं कार्यम् ।
वृद्धौ तु सर्वैरेव परेद्युः कार्यमित्यनुसन्धेयम् । नन्वेवमपि न
क्षयमात्रे साग्निकैस्सिनीवाली ग्राह्या । यत्र क्षये सिनीवा-
ल्यां पिण्डपितृयज्ञः तत्रैव । अन्यथा—
पितृयज्ञं तु निर्वर्त्य विमश्चन्द्रक्षयेऽग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम् ॥
SMRITI CHA.—VOL. V. 5
34 स्मृतिचन्द्रिकायां
इति मनुना साग्निकैः कृते पिण्डपितृयज्ञे श्राद्धविधानाद्य-
टनात् । अतो यत्र क्षये कुह्वां पिण्डपितृयज्ञस्तत्र साग्निकै-
रपि सैव ग्राह्येति । मैवं, दिनद्वयेऽपि मध्याह्नव्यापित्वे क्षये
सिनीवाल्यामेव चन्द्रदर्शनसम्भवेन कदाचिदपि पिण्डपितृ-
यज्ञाप्राप्तेः 'यदहश्चन्द्रमसं न पश्यन्ति तदहः पिण्डपितृयज्ञं
कुर्वीत' इत्यापस्तम्बेन चन्द्रादर्शन एव पिण्डपितृयज्ञविधा-
नात् । चन्द्रादर्शनं च यत्र चतुर्दशी मुहूर्तत्रयादर्वागेव स-
माप्यते तत्रैवेति ज्योतिषशास्त्रे प्रसिद्धम् । अतो यत्र श्राद्ध-
दिने चन्द्रादर्शने च पिण्डपितृयज्ञप्राप्तिः तत्राग्निमान् कृत्वैव
पितृयज्ञं श्राद्धं कुर्यादिति मनुना नियम्यते, न पुनस्सर्वत्र
कृतपिण्डपितृयज्ञस्यैव अग्निमतः श्राद्धाधिकार इति पितृयज्ञ-
शब्दस्य पिण्डपितृयज्ञपरत्वमङ्गीकृत्योक्तम् । परमार्थतस्तु-पितृ-
यज्ञशब्दः तर्पणाख्यपितृयज्ञपर एव। तदुक्तं मत्स्यपुराणे-
पितृयज्ञं तु निर्वर्त्य तर्पणाख्यं तु योऽग्निमान् ।
पिण्डान्वाहार्यकं कुर्याच्छ्राद्धमिन्दुक्षये सदा ॥ इति ॥
इति स्मृतिचन्द्रिकायाममावास्याद्वैधनिर्णयः
अथान्यान्यप्यमावास्याविषयाणि कानिचिद्वचनानि लिख्यन्ते.
तत्र व्यासः-
अमा वै सोमवारेण रविवारेण सप्तमी ।
चतुर्थी भौमवारेण विषुवत्सदृशं फलम् ॥
लभ्यतेऽसौ ॥"
Line 19:
काले धनिष्ठा यदि नाम तस्मिन् भवेत्तु भूपाल तदा
Line 20:
पितृभ्यः ।
Line 21:
दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः ॥
Wait, let's check lines 19-21:
Line 19: काले धनिष्ठा यदि नाम तस्मिन् भवेत्तु भूपाल तदा
Line 20: पितृभ्यः ।
Line 21: दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः ॥
Wait, look at line 19-20:
काले धनिष्ठा यदि नाम तस्मिन् भवेत्तु भूपाल तदा पितृभ्यः ।
Is "पितृभ्यः ।" on its own line?
Looking at the image:
Line 19 ends with "तदा":
"काले धनिष्ठा यदि नाम तस्मिन् भवेत्तु भूपाल तदा"
Line 20 is just:
"पितृभ्यः ।" indented!
Line 21:
"दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः ॥"