स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 46, कुल 474 में से
संदर्भ में पढ़ेंभोजयेच्च कुलेऽस्माकं छायायां कुञ्जरस्य च ॥
आकाल्पिकी तु सा तृप्तिस्तेनास्माकं भविष्यति ।
दाता सर्वेषु लोकेषु कामचारी भविष्यति ॥
यदैतत्पञ्चकं न स्यादेकेनापि वयं सदा ।
तृप्तिं प्राप्स्याम चानन्तां किंपुनस्सर्वसम्पदा ॥
इति । तथा भोक्तुरपि दोषः स्मृत्यन्तरे दर्शितः—
कृष्णाजिनप्रतिग्राही विक्रयी वा भवेत्तु यः ।
गजच्छायाश्रितो भुक्त्वा न भूयः पुरुषो भवेत् ॥
ग्रहणं चन्द्रसूर्ययोरिति—ग्रहणमुपरागः । अत्रापि श्राद्धं नि-
त्यम् । अत एव शातातपः—
सर्वस्वेनापि कर्तव्यं श्राद्धं वै राहुदर्शने ।
अकुर्वाणस्तु तच्छ्राद्धं पङ्के गौरिव सीदति ॥
तथाऽत्र फलविशेषो विष्णुना दर्शितः—
राहुदर्शनदत्तं हि श्राद्धमाचन्द्रतारकम् ।
गुणवत्सर्वकामीयं पितॄणामुपतिष्ठति ॥
इति । ऋष्यशृङ्गोऽपि—
राहुग्रस्ते तु वै सूर्ये यस्तु श्राद्धं प्रकल्पयेत् ।
तेन वै सकला पृथ्वी दत्ता विप्रस्य वै करे ॥
इति । अत्र कालनियममाह वृद्धवसिष्ठः—
त्रिदशास्स्पर्शसमये तृप्यन्ति पितरस्तथा ।
मनुष्या मध्यकाले तु मोक्षकाले तु राक्षसाः ॥