स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
पृष्ठ 47, कुल 474 में से
संदर्भ में पढ़ेंश्राद्धकाण्डे श्राद्धकालाः २७
इति । यत्तु मार्कण्डेयपुराणे—
विशिष्टब्राह्मणप्राप्तौ सूर्येन्दुग्रहणेऽयने ।
विषुवे रविसङ्क्रान्तौ व्यतीपाते च पुत्रके ॥
श्राद्धार्हद्रव्यसंप्राप्तौ तथा दुस्स्वप्नदर्शने ।
जन्मर्क्षग्रहपीडासु श्राद्धं कुर्वीत चेच्छया ॥
इति, इच्छा कामः, तदापि श्राद्धं कुर्वीतेत्येवं परम्, न पुनः
काम्यमेवेति वक्तुम् । अत एव कूर्मपुराणे—
नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः ।
बान्धवानां च मरणे नरकी स्यात्ततोऽन्यथा ॥
काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु ।
इति । श्राद्धं प्रति रुचिरिति—रुचिरिच्छा श्राद्धं प्रति यदा
तदैव तत्कार्यमित्यर्थः । चकारोऽन्येषामपि श्राद्धकालानां
प्रदर्शनार्थः । अत एव यमः—
आषाढ्यामपि कार्त्तिक्यां माघ्यां त्रीन्पञ्च वा द्विजान् ।
तर्पयेत्पितृपूर्वं तु तस्याप्यक्षयमुच्यते ॥
देवलोपि—
तृतीया रोहिणीयुक्ता वैशाखस्य सिता तु या ।
मघाभिस्संहिता कृष्णा नभस्ये तु त्रयोदशी ॥
तथा शतभिषग्युक्ता कार्तिके नवमी तथा ।
इन्दुक्षयगजच्छायावैधृतीषु युगादिषु ॥
एते कालास्समुद्दिष्टाः पितॄणां प्रीतिवर्धनाः ।