स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)
Smritichandrika: Vyavaharakanda of Devannabhatta
देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा
xvii
पुटसंख्या
अमग्न्याधेयसमित्निरूपणम् .... .... .... 320
प्रकृतौ पिण्डपितृयज्ञे पक्षद्वयप्रकारः ... .. ,,
होममन्त्रेषूहप्रकारः .... .... ... 327
पैतृकत्वाद्धमौकरणं प्राचीनवीतिना कार्यम् .... .... 329
(38) उभयविधाग्नौकरणार्थनिर्णयः .... ... 330
अनग्निकस्य द्विजपाणावप्सु वेत्युभयविधमग्नौकरणम् .... 332
अप्स्विति पक्षे विषयविशेषः .... .... .... 333
पाणिहोमपक्षे व्रीहियववत्पित्र्यवैश्वदैविकब्राह्मणपाण्योर्विकल्पः ... 335
हुतशेषस्य पित्र्यब्राह्मणभोजनपात्रेष्वेव निक्षेपः .... ... ,,
सत्यपि ब्राह्मणबाहुल्ये प्रथमोपविष्टस्यैव पाणौ होमः .... ,,
पाणौ हुतस्य तदानीमेव भोजने निषेधः ... .... 336
(39) परिवेषणविधिः .... .... .... 3
xviii
पुटसङ्ख्या
(42) पिण्डदानविधिः .... .... .... 361
पिण्डनिर्वापणकालस्य यथास्वशाखं व्यवस्था .... .... 362
पितृसेवितावशिष्टभोजनं नित्यम् .... .... 364
कचित्प्रत्याम्नायः .... .... .... ,,
पिण्डनिर्वापणस्थाने कर्तव्यादि .... .... 365
पिण्डप्रदाने मन्त्राः .... .... 368
पिण्डदाने यजमानस्य पूर्वपुरुषा एव देवता न वस्वादयः .... 369
अत्र वाक्यान्तरविरोधे परिहारः .... .... 370
पिण्डप्रमाणम् .... .... .... 371
पिण्डनिर्वापणानन्तरकृत्यम् .... .... .... 372
पिण्डार्चने विशेषः .... .... .... 376
पिण्डचालनानन्तरमग्नौकरणाग्निं प्रति गच्छेत् .... .... 377
मातामहादिश्राद्धे कृत्स्नपितृश्राद्धकल्पस्यातिदेशः.... ... ,,
(43) पिण्डदानप्रयोगसरणिः .... ... 379
(44) पिण्डदानविषयाणि .... .... .... 382
गृह्ये विधानान्तरानुक्तौ पिण्डपितृयज्ञकल्पनैव पिण्डदानं कार्यम् .... 383
नामगोत्रादीनामपरिज्ञाने .... .. ... 388
(45) ब्राह्मणभोजनात्मकप्रधानपाश्चात्याङ्गविषयाणि .... ,,
भुक्तवद्भ्यो ब्राह्मणेभ्य आशीर्वादग्रहणप्रकारः .... .... 389
पात्रचालनकर्तृविषये विधिप्रतिषेधौ .... .... 391
स्वस्तिवाचनप्रयोगः .. ... .... ,,
अक्षय्योदकदानम् .... .... .... ,,
दक्षिणात्वेन देयवस्तुनिरूपणम् .... ... 392
दक्षिणादानप्रयोगः .... .. .... 394
xix
पुटसङ्ख्या
स्वधावाचनम् .... .... .... 397
ब्राह्मणविसर्जनम् .... .... .... 399
पितृप्रार्थना.... .... .... .... 400
प्रियोक्तिपूर्वकं स्वस्थानं प्रति ब्राह्मणविसर्जनम् .... .... 401
(46) पिण्डप्रतिपत्त्यादिविषयाणि .... ... 402
कर्तुः पुत्रार्थिलाभावे अग्निजलादिषु पिण्डप्रक्षेपणम् .... ,,
सति पुत्रार्थित्वे पत्नी मध्यमपिण्डं प्राश्नीयात् .... .... ,,
तीर्थश्राद्धे पिण्डानामप्स्वेव प्रतिपत्तिः .... .... 404
पिण्डप्रक्षेपणादनन्तरं द्विजोच्छिष्टशोधनम् .... ... ,,
अत्र विषयविशेषविचारः .... .... .... 405
श्राद्धदिने वैश्वदेवानुष्ठानकालविचारः .... .... 406
श्राद्धादौ पृथक्पाकाद्वैश्वदेवकरणे न दोषः .... .... 407
अत्र नित्यश्राद्धविचारः .... .... ... 408
‘वैश्वदेवार्थं पृथक्पाके कृतेऽपि पित्रर्थपाकादेव भोजनम् .... 409
पितृसेवितस्य भोजनप्रकारः .... .... .... ,,
विप्रैरेव श्राद्धशिष्टान्ने गृहीते अन्नान्तरं संपाद्य भोक्तव्यम् .... 410
अनुज्ञापक्ष एव पितृसेवितभोजनियमः .... .... ,,
पितृसेवितमपि माषमांसादिकमन्वाधानादिने कृतान्वाधानेन न
भोक्तव्यम् .... .... ... ,,
सत्यापि नियमे व्रतिनः वैधमाचरतो न व्रतभङ्गः .... .... 411
दातृभोक्तृनियमान्तराणि .... .... .... 412
श्राद्धकर्तुः फल निरूपणम् .... .... ... 413
(47) यथाशक्ति पार्वणानुष्ठानविधिः .... .... 414
पात्रासंपत्तौ .... .... .... ,,
xx
पुटसङ्ख्या
एकस्यापि ब्राह्मणस्यालाभे .... .... .... 415
पक्कद्रव्यसंपादनासम्भवे आमश्राद्धेऽधिकारः .... .... 416
सर्वश्राद्धेषु शूद्रः पार्वणविधानेनाममेव दद्यात् .... .... ,,
लब्धक्रीतादिपक्कान्नसद्भावेऽप्यामाश्राद्धमेव द्विजैः कार्यम् .... 417
पाकसामग्रीसद्भावेऽप्यनग्निकादिनाऽऽमश्राद्धं कार्यम् ... ,,
पक्केनैव श्राद्धं कचिदावश्यकम् .. . .... ,,
आमश्राद्धे विशेषः .... .... .... 418
आमद्रव्यस्याप्यसम्भवे हेमश्राद्धम् .... .... 419
आमश्राद्धे हेमश्राद्धे च कर्तव्यांशस्य भेदः .... .... ,,
हेमद्रव्यस्याप्यलाभे .... .... .... 420
श्राद्धाङ्गसंपादनासम्भवे .... .... .... ,,
विस्मृतपार्वणानुष्ठानासम्भवे .... .... .... ,,
सङ्कल्पश्राद्धपार्वणश्राद्धयोर्भेदप्रदर्शनम् .... .... 421
अनुकल्पानुष्ठानेऽपि शास्त्राभावे सति मुख्यकल्पानुष्ठानफलं भवति .... ,,
(48) प्रतिसांवत्सरिकश्राद्धम् .... .... 422
यजमानस्यासामर्थ्ये, कारणान्तरेण कालातिपत्तौ वाऽन्यैश्श्राद्धं कुर्यात् ,,
आब्दिकं मासिकं च श्राद्धं पार्वणवदनुष्ठेयम् ... .... 423
पितृमृताहे मातामहादिश्राद्धं न कार्यम् .... .... 424
पैतृकस्य मातामहश्राद्धस्य च अमावास्यादिकाले यौगपद्यं, समान-
तन्त्रत्वं च .... .... .... 425
मातापित्रोस्सांवत्सरिकश्राद्धकालस्यैक्ये कर्तव्यांशविचारः .... 426
मातापित्रोर्युगपन्मरणे पौर्वापर्याज्ञाने .... .... ,,
भ्रात्रादीनां सांवत्सरिकश्राद्धदिनैक्ये श्राद्धमनेकं ज्येष्ठादिक्रमेण
पृथगेव कार्यम् .... .... .... ,,
पुटसंख्या
अत्र वाक्यान्तरेण विरोधे तत्परिहारः .... ... 427
मृताहश्राद्धं पार्वणविधानेनैकोद्दिष्टविधानेन वा कार्यम् ... 428
बहुसम्मतत्वात्पार्वणपक्षस्यैव परिग्राह्यत्वम् .... .... 429
परस्परविरुद्धानां स्मृतीनां विषयभेदेन व्यवस्था .... 430
अविभक्तैः प्रतिसांवत्सरिकश्राद्धकरणविषयः ... .... 431
(49) नित्यश्राद्धादिविषयाणि .... .... ,,
नित्यश्राद्धनिरूपणम् .... .... ,,
नित्यश्राद्धमुक्तकाले पार्वणविधानेन यथा श्रद्धं यथासामर्थ्यमनुष्ठेयम्.... 432
काम्यश्राद्धनिरूपणम् .... .... ,,
वृद्धिश्राद्धनिरूपणम् .... .... ,,
वृद्धिश्राद्धकालविचारः ... .... 433
वृद्धिश्राद्धे कर्तव्यविशेषनिरूपणम् .... .... 434
वृद्धिश्राद्धे पैतृकप्रचारोपि दैविकप्रचारवदाश्रयणीयः .... 436
वृद्धिश्राद्धे आवाहनादौ प्रयोगभेदः .... .... 439
(50) वृद्धिश्राद्धप्रयोगः .... ... .... 441
अर्घ्यप्रदाने विशेषः .... .... .... 442
अग्नौकरणे विशेषः .... .... .... 443
तृप्तिप्रश्नपिण्ड नयोर्विशेषः .... .... .... 444
पिण्डार्चनानन्तरं कर्तव्यविशेषः .... .... .... 445
पार्वणस्य द्वैविध्यम् .... .... .... 446
(51) अन्यदाभ्युदयिककर्मनिरूपणम् .... .... 446
तत्र मातरस्सगणाधिपाः पूज्याः .... .... 448
(52) कर्माङ्गश्राद्धविषयाणि .... .... .... 450
(53) तीर्थश्राद्धविषयाणि .... .... .... 451
श्रीः.
स्मृतिचन्द्रिका
श्राद्धकाण्डप्रारम्भः.
उक्तमाह्निके नित्यश्राद्धं, अधुना तत्प्रसङ्गाच्छ्राद्धप्रकरण-
मारभ्यते
तत्रादौ श्राद्धमहिमा । तत्र सुमन्तुः—
श्राद्धात्परतरं नान्यच्छ्रेयस्करमुदाहृतम् ।
तस्मात्सर्वप्रयत्नेन श्राद्धं कुर्याद्विचक्षणः ॥
देवलोऽपि—
अरोगः प्रकृतिस्थश्च चिरायुः पुत्रपौत्रवान् ।
अर्थवानर्थकामी च श्राद्धकामो भवेदिह ॥
परत्र च परां तुष्टिं लोकांश्र्च विविधान् शुभान् ।
श्राद्धकृत्समवाप्नोति यशश्च विपुलं नरः ॥
याज्ञवल्क्योऽपि —
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं प्रीता नृणां पितामहाः ॥
यमोऽपि—
ये यजन्ति पितॄन् देवान् ब्राह्मणान् सहुताशनान् ।
सर्वभूतान्तरात्मानं विष्णुमेव यजन्ति ते ॥
SMRITI CHA.—Vol. V.
२ स्मृतिचन्द्रिकायां
आयुः पुत्रान् यशस्स्वर्गं कीर्तिं पुष्टिं बलं श्रियम् ।
पशून् सुखं धनं धान्यं प्राप्नुयात्पितृपूजनात् ॥
मार्कण्डेयपुराणेऽपि—
पिता पितामहश्चैव तथैव प्रपितामहः ।
पिण्डसम्बन्धिनो ह्येते विज्ञेयाः पुरुषास्त्रयः ॥
लेपसम्बन्धिनस्त्वन्ये पितामहपितामहात् ।
प्रभृत्युक्तास्त्रयस्तेषां यजमानश्च सप्तमः ॥
तथाऽन्ये पूर्वजास्स्वर्गे येचान्ये नरकौकसः ।
ये च तिर्यक्त्वमापन्ना ये च भूतादिसंस्थिताः ॥
तांत्सर्वान्यजमानो वै श्राद्धं कुर्वन्यथाविधि ।
समाप्याययते वत्स येन येन शृणुष्व तत् ॥
अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ।
तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः ॥
यदम्बु स्नानवस्त्रोत्थं भूमौ पतति पुत्रक ।
तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते ॥
यास्तु गन्धाम्बुकणिकाः पतन्ति धरणीतले ।
ताभिराप्यायनं तेषां ये देवत्वं कुले गताः ॥
उद्धृतेषु तु पिण्डेषु याश्चात्र कणिका भुवि ।
ताभिराप्यायनं तेषां ये तिर्यक्त्वं कुळे गताः ॥
ये चादन्ताः कुले बालाः क्रियायोग्या ह्यसंस्कृताः ।
विपन्नास्ते तु विकिरसंमार्जनजलाशिनः ॥
श्राद्धकाण्ड श्राद्धमहिमा ७
भुक्त्वा चाचमतां यच्च जलं यच्चाङ्घ्रिसेचने ।
ब्राह्मणानां तथैवान्ये तेन तृप्तिं प्रयान्ति वै ॥
तेनानेककुले तत्र तत्तद्योन्यन्तरं गताः ।
प्रयान्त्याप्यायनं वत्स सम्यक् श्राद्धक्रियावताम् ॥
बृहस्पतिरपि—
य एवं वेत्ति मतिमांस्तस्य श्राद्धफलं भवेत् ।
उपदेष्टाऽनुमन्ता च लोके तुल्यफलौ स्मृतौ ॥
इमं श्राद्धविधिं पुण्यं कुर्याद्वाऽपि पठेत्तु यः ।
सर्वकामैस्स बध्नाति ह्यमृतत्वं च विन्दति ॥
तथाऽकरणेऽपि दोषस्तेनैव दर्शितः—
न तत्र वीरा जायन्ते नारोगा न शतायुषः ।
न च श्रेयोऽधिगच्छन्ति यत्र श्राद्धं विवर्जितम् ॥
आदित्यपुराणेऽपि—
न सन्ति पितरश्चेति कृत्वा मनसि यो नरः ।
श्राद्धं न कुरुते तत्र तस्य रक्तं पिबन्ति ते ॥
तथा धनाशुद्धावपि दोषो मार्कण्डेयपुराणे दर्शितः—
अन्यायोपार्जितैर्द्रव्यैर्यच्छ्राद्धं क्रियते नरैः ।
तृप्यन्ति तेन चण्डालाः पुल्कसाद्याश्च योनयः ॥ इति ॥
इति स्मृतिचन्द्रिकायां श्राद्धमहिमा.
4 स्मृतिचन्द्रिकायां
अथ श्राद्धभेदाः..
तत्र विश्वामित्रः—
नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धं सपिण्डनम् ।
पार्वणं चेति विज्ञेयं गोष्ठ्यं शुद्धयर्थमष्टमम् ॥
कर्माङ्गं नवमं प्रोक्तं दैविकं दशमं स्मृतम् ।
यात्रास्वेकादशं प्रोक्तं पुष्ट्यर्थं द्वादशं स्मृतम् ॥
तत्र नित्यनैमित्तिकयोर्लक्षणं पारस्करेणोक्तम्—
अहन्यहनि यच्छ्राद्धं तन्नित्यमिति कीर्तितम् ।
वैश्वदेवविहीनं तु अशक्तोऽप्युदकेन तु ॥
एकोद्दिष्टं तु यच्छ्राद्धं तन्नैमित्तिकमुच्यते ।
तदप्यदैवं कर्तव्यमयुग्मानाशयेद्विजान् ॥ इति ॥
काम्यादीनां लक्षणं वृद्धवसिष्ठेनोक्तम्—
अभिप्रेतार्थसिद्धयर्थं काम्यं पार्वणवत्स्मृतम् ।
पुत्रजन्मविवाहादौ वृद्धिश्राद्धमुदाहृतम् ॥
नवानीतार्घ्यपात्रं च पिण्डश्च परिकीर्यते ।
पितृपात्रेषु पिण्डेषु सपिण्डीकरणं तु तत् ॥
प्रतिपर्व भवेद्यस्मात् प्रोच्यते पार्वणं तु तत् ।
गोष्ठ्यां यत्क्रियते श्राद्धं गोष्ठीश्राद्धं तदुच्यते ।
बहूनां विदुषां प्राप्तौ सुखार्थं पितृतृप्तये ॥
इति । शुद्धयर्थस्य लक्षणं प्रचेतसोक्तम्—
क्रियते शुद्धये यत्तु ब्राह्मणानां तु भोजनम् ।
श्राद्धकाण्डे श्राद्धाधिकारिनिर्णयः ५
शुद्धयर्थमिति तत्प्रोक्तं श्राद्धं पार्वणवत्कृतम् ॥
कर्माङ्गादीनां लक्षणं पारस्करेणोक्तम्-
निषेककाले सोमे च सीमन्तोन्नयने तथा ।
ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं विधिवत्कृतम् ॥
देवानुद्दिश्य क्रियते यत्तद्दैविकमुच्यते ।
तन्नित्यश्राद्धवत्कुर्याद्द्वादश्यादिषु यत्नतः ॥
गच्छन् देशान्तरं यद्वि श्राद्धं कुर्यात्तु सर्पिषा ।
तद्यात्रार्थमिति प्रोक्तं प्रवेशे च न संशयः ॥ इति ।
अत्र कर्माङ्गवचनमकरणे कर्मवैगुण्यज्ञापनार्थम् । सर्पिषा
सर्पिःप्रधानकेनेत्यर्थः । अन्यथा केवलेन तृप्तेरशक्यत्वात् ॥
इति स्मृतिचन्द्रिकायां श्राद्धभेदाः.
अथ श्राद्धाधिकारिनिर्णयः
तत्र बृहस्पतिः-
प्रमीतस्य पितुः पुत्रैः श्राद्धं देयं प्रयत्नतः ।
ज्ञातिबन्धुसुहृच्छिष्यऋत्विग्भृत्यपुरोहितैः ॥ इति ॥
पुत्राभाव इति शेषः । पितुर्ग्रहणं मातुरपि प्रदर्शनार्थम्-
अत एव सुमन्तुः-
मातुः पितुः प्रकुर्वीत संस्थितस्यौरसस्सुतः ॥ इति ।
एतदनुपनीतेनापि कार्यम् । तदाह सुमन्तुः-
श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको हि यः ।
6 स्मृतिचन्द्रिकायां
व्रतस्थो वाऽव्रतस्थो वा एक एव भवेद्यदि ॥
अव्रतस्थोऽनुपनीतः । अत एव वृद्धमनुः—
कुर्यादनुपनीतोपि श्राद्धमेको हि यस्सुतः ।
पितृयज्ञाहुतिं पाणौ जुहुयाद्ब्राह्मणस्य सः ॥ इति ।
अत्र विशेषमाह व्याघ्रः—
कृतचौलस्तु कुर्वीत उदकं पिण्डमेव च ।
स्वधाकारं प्रयुञ्जीत वेदोच्चारं न कारयेत् ॥
मातापित्रोरिति शेषः । स्मृत्यन्तरेऽपि—
कृतचूडोऽनुपेतस्तु पित्रोश्श्राद्धं समाचरेत् ।
उदाहरेत्स्वधाकारं न तु वेदाक्षराण्यरसौ ॥ इति ॥
वेदाक्षराण्यपि प्रयोक्तव्यानीत्याह—
न ह्यस्मिन् युज्यते कर्म किञ्चिदामौञ्जिबन्धनात् ।
नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते ॥ इति ।
एवञ्चात्र विकल्पो द्रष्टव्यः । पुत्राभावे तु शङ्खोक्तम्—
पितुः पुत्रेण कर्तव्याः पिण्डदानोदकक्रियाः ।
पुत्राभावे तु पत्नी स्यात् पत्न्यभावे तु सोदरः ॥
इति । पुत्रग्रहणेनात्र मुख्याः गौणाश्च गृह्यन्ते—
पिण्डदोंऽशहरश्चैषां पूर्वाभावे परःपरः ।
इति याज्ञवल्क्यस्मरणात् । अतो द्विविधपुत्राभावे 'पुत्राभावे
तु पत्नी स्यात्' इति वचनार्थः । तदपि पौत्राभावविषयम्—
श्राद्धकाण्डे श्राद्धाधिकारि... थः ७
पौत्रोथ पुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभौ ।
रिक्थे च पिण्डदाने च समौ तौ परिकीर्तितौ ॥
इति बृहस्पतिना गौणपुत्रसामान्याभिधानात् । न चैवं पिण्ड-
दाने पुत्रपौत्रयोर्विकल्पस्स्यादिति शङ्कनीयम्,
पुत्रेषु विद्यमानेषु नान्यो वै कारयेत्स्वधाम् ।
इति ऋष्यशृङ्गस्मरणात् ।
नैतत्पौत्रेण कर्तव्यं पुत्रवांश्चेत्पितामहः ।
इति कात्यायनस्मरणात् । पुत्राभावे तु पत्नी स्यादित्येतद्यज्ञ-
पत्न्या दायहरत्वात्तद्विषयम् । अन्यथा तु यो दायहरस्स एव
दद्यात् । अत एव विष्ण्वापस्तम्बौ 'यश्चार्थहरस्स पिण्डदायी,
पुत्रः पितृवित्ताभावे पिण्डं दद्यात्' इति । अत एव याज्ञव-
ल्क्येनाऽपि—
पिण्डदोंऽशहरश्चैषां पूर्वाभावे परः परः । इति
पिण्डद
8 स्मृतिचन्द्रिकायां
ण्डाः शिष्याश्च दद्युः । तदभावे ऋत्विगाचार्यौ' इति । मातृ-
सपिण्डा मातुलादयः । सपिण्डाभावे समानोदकाः पिण्डं
दद्युः । तथाच मार्कण्डेयपुराणे—
पुत्राभावे सपिण्डास्तु तदभावे तु सोदकाः ।
मातुस्सपिण्डा ये वा स्युर्ये वा मातुश्च सोदकाः ॥
कुर्युरेनं बिधिं सम्यगपुत्रस्य सुतास्मृताः ।
कुर्यान्मातामहायैवं पुत्रिकातनयस्तथा ॥
सर्वाभावे स्त्रियः कुर्युस्स्वभर्तॄणाममन्त्रकम् ।
तदभावे च नृपतिः कारयेत्स्वकुटुम्बिनाम् ॥
तज्जातीयैः नरैस्सम्यग्दाहाद्यास्सकलाः क्रियाः ।
सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः ॥
श्री विष्णुपुराणे पराशरोपि—
पुत्रः पौत्रः प्रपौत्रो वा तद्बद्वा भ्रातृसन्ततिः ।
सपिण्डसन्ततिर्वाऽपि क्रियार्हा नृप जायते ॥
तेषामभावे सर्वेषां समानोदकसन्ततिः ।
मातृपक्षस्य पिण्डेन सम्बद्धा ये जलेन वा ॥
कुलद्वयेऽपि चोत्सन्नैस्त्रीभिः कार्याः क्रिया नृप ।
तत्सङ्घातगतैर्वाऽपि कार्याः प्रेतस्य वै क्रियाः ॥
उत्सन्नबन्धुरिक्थानां कारयेदवनीपतिः । इति ।
उक्तेषु पुत्रादिषु कस्य कस्मिन्कर्मण्यधिकार इत्याशङ्क्य स
एवाह—
यः 9
पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः ।
त्रिप्रकाराः क्रिया ह्येतास्तासां भेदान् शृणुष्व मे ॥
आद्याहाद्द्वादशाहाच्च मध्ये यास्स्युः क्रिया मताः ।
ताः पूर्वा मध्यमा मासि मास्येकोद्दिष्टसंज्ञिकाः ॥
प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु ।
क्रियन्ते याः क्रियाः पित्र्याः प्रोच्यन्ते ता नृपोत्तराः ॥
पितृमातृसपिण्डैस्तु समानसलिलैस्तथा ।
तत्सङ्घातगतैश्चैव राज्ञा वा धनहारिणा ॥
पूर्वाः क्रियाश्च कर्तव्याः पुत्राद्यैश्चोत्तराः क्रियाः ।
दौहित्रैर्वा नृपश्रेष्ठ कार्यास्तत्तनयैस्तथा ॥ इति ॥
सपिण्डाद्यैरवनिपाल्यान्तैः पूर्वाः क्रियाः मध्यमाश्च कर्तव्याः ।
पुत्राद्यैरेव भ्रातृसन्तत्यन्तैर्दौहित्राद्यैश्चोत्तराः क्रियाः कर्तव्या न
सपिण्डाद्यैरवनिपाल्यान्तैरित्यर्थः । दौहित्रेषु तु भविष्यत्पुराणो-
क्तो विशेषः—
यथा व्रतस्थोऽपि सुतः पितुः कुर्यात्क्रियां नृप ।
उदकाद्या महाबाहो दौहित्रोऽपि तथाऽर्हति ॥ इति ॥
ननु च पुत्राभावे तु पत्नी स्यादित्येतत्—‘सर्वाभावे स्त्रियः
कुर्युः स्वभर्तृणाममन्त्रकम्’ इति पुराणवचनेन विरुध्यते । मैवम्—
पुत्राभावे तु पत्नी स्यादित्येतद्ब्राह्मादिविवाहोढादिविषयं, तस्या
यज्ञान्वितत्वेन तत्रैव पत्नीशब्दप्रयोगात् । इतरत्र तु—
SMRITI CHA.—Vol. V 2
10 स्मृतिचन्द्रिकायां
क्रयक्रीता तु या नारी न सा पत्नी विधीयते ।
न सा दैवे न सा पित्र्ये दासीं तां कवयो विदुः ॥
इति पत्नीत्वाभावात् स्वभर्तृणाममन्त्रकमिति पुराणवचनं तद्वि-
षयम् । यद्वा-पुत्राभावे तु पत्नी स्यादित्येतद्ब्रह्मवादिनीवि-
षयम्, तस्या अध्ययनसद्भावेन मन्त्रयोगित्वात् । पुराणवच-
नं त्वध्ययनविहीन सद्योवध्वभिप्रायमित्यनुसन्धेयम् । यदत्र युक्तं
तद्ग्राह्यम् । पत्न्यां तु विशेषमाह वृद्धमनुः-
अपुत्रा शयनं भर्तुः पालयन्ती व्रते स्थिता ।
पत्नी दद्यात्तु तत्पिण्डं कृत्स्नमंशं लभेत च ॥
इति । शयनं पालयन्ती सुसंयतेत्यर्थः । विष्णुरपि-
श्वश्रादीनां तथा पिण्डं पत्नी दद्यात्सुसंयता ।
इति । यत्तु कात्यायनेनोक्तं-
पुत्रशिष्योऽथवा पत्नी पिता भ्राताऽथवा गुरुः ।
स्त्रीहारी धनहारी च कुर्युः पिण्डोदकक्रियाम् ॥ इति,
यदपि वृद्धशातातपेन-
मातुलो भागिनेयस्य स्वस्रीयो मातुलस्य च ।
श्वशुरस्य गुरोश्चैव सख्युर्मातामहस्य च ॥
एतेषां चैव भार्याणां स्वसुर्मातुः पितुस्तथा ।
श्राद्धमामं तु कर्तव्यमिति वेदविदां स्थितिः ॥ इति,
अत्रापि श्रीविष्णुपुराणवचनानुसारेण व्यवस्था वेदितव्या ।
। यः 11
यत्तु कात्यायनेनोक्तम्—
अपुत्रायां पतिर्दद्यात्सपुत्रायां तु न क्वचित् ।
न पुत्रस्य पिता कुर्यात् नानुजस्य तथाऽग्रजः ॥
इति, तत् स्नेहविहीनपित्रादिविषयम् । अत एव बोधायनः—
पित्रा श्राद्धं न कर्तव्यं पुत्राणां तु कथञ्चन ।
भ्रात्रा नैव च कर्तव्यं भ्रातॄणां च कनीयसाम् ॥
अपि स्नेहेन कुर्यातां सपिण्डीकरणं विना ।
गयायां तु विशेषेण ज्यायानपि समाचरेत् ॥ इति ॥
अत्र धनहारित्वादिनिमित्ताभावेऽपि कृतेऽभ्युदय इत्याह वृद्ध-
शातातपः—
पितुश्श्राद्धं तु कर्तव्यं सर्वेषां वर्णलिङ्गिनाम् ।
एवं कुर्यान्नरस्सम्यङ्महतीं श्रियमाप्नुयात् ॥
इति । लिङ्गिन आश्रमिणः । एतच्च सवर्णाभिप्रायेण, अ-
न्यथा दोषश्रवणात् । तथाच मरीचिः—
ब्राह्मणो ह्यसवर्णस्य यः करोत्यौर्ध्वदैहिकम् ।
तद्वर्णत्वमसौ याति इह लोके परत्र च ॥
पारस्करोऽपि—
न ब्राह्मणेन कर्तव्यं शूद्रस्य त्वौर्ध्वदैहिकम् ।
शूद्रेण वा ब्राह्मणस्य विना पारशवात्क्वचित् ॥
इति स्मृतिचन्द्रिकायां श्राद्धाधिकारिनिर्णयः
12 स्मृतिचन्द्रिकायां
अथ मातामहश्राद्धाधिकारिनिर्णयः.
तत्र पुलस्त्यः—
मातुः पितरमारभ्य त्रयो मातामहाः स्मृताः ।
तेषां तु पितृवच्छ्राद्धं कुर्युर्दुहितृसूनवः ॥
पितृवच्छ्राद्धं पार्वणमित्यर्थः । तच्च श्राद्धमावश्यकम् । अत एव
व्यासः—
पितॄन् मातामहांश्चैव द्विजश्श्राद्धेन तर्पयेत् ।
अनृणश्च पितॄणां तु ब्रह्मलोकं स गच्छति ॥
पुराणेऽपि—
कृत्वा तु पैतृकं श्राद्धं पितृप्रभृतिषु त्रिषु ।
कुर्यान्मातामहानां च तथैवानृण्यकारणात् ॥
इति । आनृण्यग्रहणं नित्यत्वज्ञापनार्थम् । अत एवाकरणे
दोषः पुराणे दर्शितः—
पार्वणं कुरुते यस्तु केवलं पितृहेतुकम् ।
मातामहं न कुरुते पितृहा स प्रजायते ॥
पितरो यत्र पूज्यन्ते तत्र मातामहा ध्रुवम् ।
अविशेषेण कर्तव्यं विशेषान्नरकं व्रजेत् ॥
इति । यत्र यस्मिन् कर्मणि पितरः पूज्यन्ते तत्राविशेषेण
मातामहा अपि पूज्या इत्यर्थः । अनेन सर्वस्मिन्नपि पितृ-
श्राद्धे मातामहश्राद्धमपि कार्यमित्युक्तं भवति । अत्र केषु-
चिदपवादमाह कात्यायनः—
कर्षूसमन्वितं मुक्त्वा तदाद्यं श्राद्धषोडशम् ।
प्रत्याब्दिकं च शेषेषु पिण्डास्स्युष्षडिति स्थितिः ॥
इति । कर्षूसमन्वितं सपिण्डीकरणश्राद्धम् । षोडशग्रहणमे-
कोद्दिष्टोपलक्षणार्थम् । एवञ्च यन्मातामहश्राद्धं पितृश्राद्धेषु
विहितं तत्रैव दोषानृण्ययोरभिधानात्तदेव सर्वदौहित्रसाधार-
णम् । यः पुनर्धनहारी दौहित्रः स नवश्राद्धाद्यपि कुर्यादेव ।
'यो यत आददीत स तस्मै श्राद्धं कुर्यात्' इति स्मरणात् ।
अनेनैवाभिप्रायेण स्कन्दोपि—
श्राद्धं मातामहानां तु अवश्यं धनहारिणा ।
दौहित्रेणार्थनिष्कृत्यै कर्तव्यं विधिवत्सदा ॥
इति । यो धनहारी दौहित्रः तेनावश्यं नवश्राद्धाद्यौर्ध्वदै-
हिकं कार्यमित्यर्थः । तत्रोपपत्तिमाह स एव—
मलमेतन्मनुष्याणां द्रविणं यत्प्रकीर्तितम् ।
तद्गृह्णन् मलमादत्ते दुर्भेदं ज्ञानिनामपि ॥
ऋषिभिस्तस्य निर्दिष्टा निष्कृतिः पावनी परा ।
आ देहपतनात्कुर्यात्तस्य पिण्डोदकक्रियाम् ॥
इति । ननु च—
कुर्यान्मातामहश्राद्धं नियमात्पुत्रिकासुतः ।
उभयोरपि सम्बद्धः कुर्यात्स उभयोरपि ॥
इति यमेन पुत्रिकापुत्र एव नियमग्रहणादन्यत्र नियमो न
गृह्यते, मैवं—वचनार्थापरिज्ञानात् । अस्यार्थः—द्विविधो हि
14 स्मृतिचन्द्रिकायां
पुत्रिकापुत्रः, एको मातामहेन सम्बद्धः अपरः पितृमाता-
महाभ्यामिति । तत्र प्रथमो मातामहश्राद्धं नियमेन कुर्यात् पितृ-
श्राद्धमिच्छया, य उभयसम्बद्धः स उभयोरपीति । अतो ना-
नेन नियमोऽवगम्यते । यदपि मनुनोक्तं--
दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् ।
स एव दद्यात् द्वौ पिण्डौ पित्रे मातामहाय च ॥
इति, तदपि यो धनहारी दौहित्रस्स एव पितृमातामहयोर्नव-
श्राद्धाद्यौर्ध्वदेहिकं कुर्यात्, नेतर इत्येवंपरं न पुनरित-
रस्य श्राद्धमात्रनिषेधार्थं, पूर्वोक्तानृण्यादिप्रतिपादकवचनविरो-
धात् । एवञ्च यत्कैश्चिदुक्तं धनहारिपुत्रिकापुत्रयोर्मातामहश्रा-
द्धमावश्यकं नान्यस्येति, तत् पूर्वोक्तवचनादर्शननिबन्धनामि-
त्युपेक्षणीयम् । पुत्रिकापुत्रश्राद्धे विशेषमाह मनुः--
मातुः प्रथमतः पिण्डं निर्वपेत्पुत्रिकासुतः ।
द्वितीयं तु पितुस्तस्यास्तृतीयं तु पितुः पितुः ॥
इति । द्व्यामुष्यायणे तु पुत्रिकापुत्रे उशनसोक्तो विशेषः--
मातामहं तु मात्रादि पैतृकं पितृपूर्वकम् ।
मातृतः पितृतो यस्मादधिकारोस्ति धर्मतः ॥
इति । क्षेत्रजे तु द्व्यामुष्यायणे देवलोक्तं--
द्व्यामुष्यायणका दद्युः द्वाभ्यां पिण्डोदके पृथक् ।
इति । द्वाभ्यां पितृमातृवर्गाभ्यामित्यर्थः । अत्र क्रमविशेषमाह
मरीचिः--
सगोत्रो वाऽन्यगोत्रो वा यो भवेद्विधिना सुतः ।
पिण्डं श्राद्धविधानं च क्षेत्रिणे प्राङ्निर्वपेत् ॥
बीजिने तु ततः पश्चात् क्षेत्री जीवति चेत्क्वचित् ।
बीजिने दद्युरादौ तु मृते पश्चात्प्रदीयते ॥
इति । क्षेत्रिण इति शेषः ।
इति स्मृतिचन्द्रिकायां मातामहश्राद्धाधिकारिनिर्णयः.
अथ जीवत्पितृकश्राद्धनिर्णयः.
तत्र कात्यायनः—
सपितुः पितृकृत्येषु अधिकारो न विद्यते ।
न जीवन्तमतिक्रम्य किञ्चिद्दद्यादिति श्रुतिः ॥
इति । पितृकृत्येषु श्राद्धेषु पितामहादिसम्बन्धिष्वित्यर्थः । अत्र
केषुचिदपवादो मैत्रायणीयपरिशिष्टे दर्शितः—
उद्वाहे पुत्रजनने पित्र्येष्ट्यां सौमिके मखे ।
तीर्थे ब्राह्मण आयाते षडेते जीवतः पितुः ॥
इति । जीवतः पितुः पुत्रस्य षडेते श्राद्धकाला इत्यर्थः ।
पित्र्येष्ट्यां चातुर्मास्येषु, सौमिके मखे सोमयागादौ पुरोडा-
शात्पिण्डदाने च । एतत्साग्निकाभिप्रायम् । अत एव सुमन्तुः—
न जीवपितृकः कुर्याच्छ्राद्धमग्निमृते द्विज ।
येभ्य एव पिता दद्यात्तेभ्यः कुर्वीत साग्निकः ॥