सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 37, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 37

17

पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः ॥
इति । पूर्वेषां पितामहादीनाम् । निगमोऽपि—‘यो जीवति
पितॄणां तं भोजयेत्पितृस्थान इत्येके, जीवतामजीवतां वा देय-
मेवेति हिरण्यकेतुः’ इति । एवं पिण्डपितृयज्ञेऽपि द्रष्टव्यम् ।
अत एव याज्ञवल्क्यः—
होमतः पितृयज्ञस्य जीवेत्पितरि जीवतः ।
पितरं भोजयित्वा वा पिण्डौ निर्वृणुयात्पिता ॥
उभौ यस्य व्यतीतौ तु जीवेच्चेत्प्रपितामहः ।
पिण्डौ निर्वृणुयात्पूर्वी भोजयेत्प्रपितामहम् ॥
इति । यमस्तु होमोऽपि पाक्षिक इत्याह—
पित्र्यं जीवपितुर्नोक्तमग्नौ होमोऽपि पाक्षिकः ।
येभ्यो वाऽपि पिता तेभ्यो दद्याद्वैतानकर्मणि ॥
दद्यात्तेभ्यः परेभ्यस्तु जीवेच्चेत्रितयं यदि ।
इति । पित्र्यं पिण्डदानं, वैतानकर्मणि पिण्डपितृयज्ञ इत्यर्थः ।
आपस्तम्बस्तु पितरि जीवति न पिण्डदानं नित्यमित्याह—
‘यदि जीवति पिता न दद्यादा होमाच्च्यक्त्वा विरमेत्’
इति । अत्र यथास्वशाखं व्यवस्था । भविष्यत्पुराणेऽपि
श्राद्धे प्रत्यक्षार्चनं निषिद्धमित्युक्तम्—
प्रत्यक्षार्चनं श्राद्धे न युक्तं मनुरब्रवीत् ।
SMRITI CHA.—VOL. V. 3