सामग्री पर जाएँ
सर्वकोश
स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

स्मृतिचन्द्रिका: व्यवहारकाण्ड (देवण्णभट्ट - दक्षिण भारत का मूर्धन्य न्याय-दर्शन महाग्रन्थ)

Smritichandrika: Vyavaharakanda of Devannabhatta

देवण्णभट्ट (सम्पादक: एल. श्रीनिवासाचार्य) द्वारा

DevanagariSanskritpublished474 पृष्ठ

पृष्ठ 41, कुल 474 में से

संदर्भ में पढ़ें
पृष्ठ 41

श्राद्धकाण्डे श्राद्धकालाः 21

इति । अत्र विशेषमाह गर्गः—

चतुर्दश्यां तु यच्छ्राद्धं सपिण्डीकरणात्परम् ।

एकोद्दिष्टविधानेन तत्कार्यं शस्त्रघातिने ॥

इति । शस्त्रघातिने यदाऽऽपरपक्षिकश्राद्धं चतुर्दश्यां क्रियते

तदैकोद्दिष्टविधानेन नान्यथेत्यर्थः । अत एव सुमन्तुः—

एकापिण्डीकृतानां तु पृथक्त्वं नोपपद्यते ।

सपिण्डीकरणादूर्ध्वं ऋते कृष्णचतुर्दशीम् ॥

इति । यत्तु मार्कण्डेयपुराणे—

प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा ।

परार्थिनां तृतीया तु चतुर्थी शत्रुनाशिनी ॥

पञ्चम्यां श्रियमाप्नोति षष्ठ्यां पूज्यो भवेन्नरः ।

गाणाधिपत्यं सप्तम्यामष्टम्यामृद्धिमुत्तमाम् ॥

श्रियो नवम्यामाप्नोति दशम्यां पूर्णकामताम् ।

वेदांस्तथाऽऽप्नुयात्सर्वानैकादश्यां क्रियापरः ॥

द्वादश्यां जयलाभं च प्राप्नोति पितृपूजकः ।

प्रजामिष्टां पशून् मेध्यान् स्वातन्त्र्यं बुद्धिमुत्तमाम् ॥

दीर्घमायुस्तथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ।

अवाप्नोति न सन्देहः श्राद्धं श्राद्धपरो नरः ॥

युवानः पितरो यस्य मृताश्शस्त्रेण वा हताः ।

तेन कार्यं चतुर्दश्यां तेषां सिद्धिमभीप्सता ॥